59 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनषष्टितम: सर्ग:

इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम् ।

ब्रूह्यशेषं पुनरिति राजा वचनमब्रवीत् ।। 2.59.1 ।।

तस्य तद्वचनं श्रुत्वा सुमन्त्रो बाष्पविक्लव: ।

कथयामास भूयो ऽपि रामसन्देशविस्तरम् ।। 2.59.2 ।।

जटा: कृत्वा महाराज चीरवल्कलधारिणौ ।

गङ्गामुत्तीर्य्य तौ वीरौ प्रयागाभिमुखौ गतौ ।। 2.59.3 ।।

अग्रतो लक्ष्मणो यात: पालयन् रघुनन्दनम् ।

अनन्तरं च सीताथ राघवो रघुनन्दन: ।

तांस्तथा गच्छतो दृष्ट्वा निवृत्तोस्म्यवशस्तदा ।। 2.59.4 ।।]

मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।

उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम् ।। 2.59.1 ।।

ममेति । मम वर्त्मनि मत्सम्बन्धिनि मार्गे । न प्रावर्त्तन्त, नववियोगक्लेशादिति भाव: ।। 2.59.1 ।।

उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम् ।

प्रस्थितो रथमास्थाय तद्दु:खमपि धारयन् ।। 2.59.2 ।।

उभाभ्यामिति । राजपुत्राभ्यामिति चतुर्थी । तद्दु:खं तादृशं दु:खम् ।। 2.59.2 ।।

गुहेन सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् ।

आशया यदि मां राम: पुन:शब्दापयेदिति ।। 2.59.3 ।।

मुहेन सार्धं तत्स्नेहितजनसन्दर्शनमपि क्लेशावहमिति भाव: । तत्रैव नतु वर्त्मनि । दिवसानिति बहुवचनेन कपिञ्जलाधिकरणन्यायेन त्रित्वसिद्धिरित्येके । वस्तुवस्तु वनस्पतिमूले एकदिनं भरद्वाजाश्रमे द्वितीयं यमुनातीरे तृतीयं चतुर्थे चित्रकूटप्रवेश: पञ्चमे गुहचारैस्तत्सर्वं निवेदितं षष्ठे सूतनिर्गम: । यद्वा द्वितीयदिने भरद्वाजाश्रमे रामस्य चित्रकूटगमनव्यवसायात् । तृतीयदिने चारैर्निवेदनं चतुर्थे सूतनिर्गम: अत: त्रीन् दिवसान् गङ्गाकूले स्थितोस्मीत्यर्थ: । बहूनिति विशेषणात् रामवियोगेन एकैकस्य दिवसस्य कल्पवत् प्रतिभानमिति दर्शितम् । पुन:शब्दापयेत् पुनराह्वयेत् । वनचरमुखेनेति हृदयम् । शब्दशब्दाण्णौ तत्कृतापुगन्तोप्ययमस्ति । अतो ऽङ्कापयतीत्यादिवत् सिद्धम् ।। 2.59.3 ।।

विषये ते महाराज रामव्यसनकर्शिता: ।

अपि वृक्षा: परिम्लाना: सपुष्पाङ्कुरकोरका: ।। 2.59.4 ।।

अथ रामस्य सर्वान्तर्यामितादात्म्यं सूचयितुं सर्वेषां रामविरहक्लेशं वर्णयति । यद्वा कैकेयीप्रियार्थमविचारेण सहसाकृतं कार्यं सर्वक्षोभनिमित्तमभूदित्याद–विषय इत्यादि । विषये देशे । “देशविषयौ तूपवर्तनम्” इत्यमर: । अपिशब्देन लतादय: समुच्चीयन्ते । व्याध्यादिना एकदेशग्लानिं व्यावर्तयितुं सपुष्पेत्यादि । सपुष्पाङ्कुरकोरका: पुष्पाणि अभिनवविकसितानि, अङ्कुरा: शाखासु नवपल्लवोद्भेदा:, कोरका: कलिका: “कलिका कोरक: पुमान्” इत्यमर: । तै: सहिता वृक्षा अपि परिम्लाना:, कठिनकोमलविभागमन्तरेणापि सर्वमेकदैव परिम्लानमभूदित्यर्थ: ।। 2.59.4 ।।

उपतप्तोदका नद्य: पल्वलानि सरांसि च ।

परिशुष्कपलाशानि वनान्युपवनानि च ।। 2.59.5 ।।

उपतप्तोदका इति । अकार्त्स्न्येनोपतप्तत्वव्युदासायोदकपदम्, तेनातपकार्योपतापव्यावृत्ति: । पल्वलानि सरांसि च । पल्वलानीति दृष्टान्तार्थम् । एवं वनानीत्यपि । अनेनाल्पाधिकविभागमन्तरेण परितप्तत्वं द्योत्यते । उपतप्तोदका इति पदं लिङ्गविपरिणामेन पल्वलादौ योजनीयम् । वनानि सन्ततजलसेकमन्तरेण प्रवृद्धानि कठिनाकाराणि । उपवनानि जलसेकेन प्रवृद्धान्यतिकोमलानि । परिशुष्कपलाशानि एकरूपेण शुष्कपत्राणि “पत्रं पलाशम्” इत्यमर: ।। 2.59.5 ।।

न च सर्पन्ति सत्त्वानि व्याला न प्रचरन्ति च ।

रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ।। 2.59.6 ।।

नेति । न सर्पन्ति न गच्छन्ति किन्तु स्तब्धतया तिष्ठन्ति । सत्त्वानि जन्तव: । व्याला: हिंस्रपशव: सर्वदा संचारस्वभावा गजा वा । न प्रचरन्ति आहारार्थमपि न सञ्चरन्तीत्यर्थ: । गमनवच्छब्दोपि नास्तीत्याह निष्कूजमिति । निष्कूजं निश्शब्दम् ।। 2.59.6 ।।

लीनपुष्करपत्राश्च नरेन्द्र कलुषोदका: ।

सन्तप्तपद्मा: पद्मिन्यो लीनमीनविहङ्गमा: ।। 2.59.7 ।।

लीनपुष्करपत्रा: ग्लान्यतिशयेन जलान्तर्विलीनपद्मपत्रा: लीना: सञ्चाररहिता: विहङ्गमा: जलकाकादय: ।। 2.59.7 ।।

जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।

नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ।। 2.59.8 ।।

जलजानीति । माल्यानि पुष्पाणि । “माल्यं पुष्पे पुष्पदाम्नि” इति वैजयन्ती । यथापुरं यथा पूर्वम् । अल्पगन्धीनीति मत्वर्थीय इनि: । स्वभावस्य दुस्त्यजत्वादल्पत्वम् । फलानि रसालपनसादीनि ।। 2.59.8 ।।

अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।

न चाभिरामानारामान् पश्यामि मनुजर्षभ ।। 2.59.9 ।।

प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।

नरा राममपश्यन्तो निश्वसन्ति मुहुर्मुहु: ।। 2.59.10 ।।

अत्रेति । उद्यानानि आक्रीडा: “पुमानाक्रीड उद्यानम्” इत्यमर: । शून्यानि निर्जनानि । प्रलीना: नीडेषु मूर्च्छिताः विहगा: शुकपिकशारिकादय: येषु तानि तथोक्तानि । आरामान् कृत्रिमवनानि “आराम: स्यादुपवनं कृत्रिमं वनमेव यत्” इत्यमर: । न चाभिरामान् किन्तु नि:श्रीकान् पश्यामीत्यर्थ: ।। 2.59.910 ।।

देव राजरथं दृष्ट्वा विना राममिहागतम् ।

दु:खादश्रुमुख: सर्वो राजमार्गगतो जन: ।। 2.59.11 ।।

देवराजरथमिति । देवराजरथमित्यत्र देवेति सम्बोधनम् ।। 2.59.11 ।।

हर्म्यैर्विमानै: प्रासादैरवेक्ष्य रथमागतम् ।

हाहाकारकृता नार्यो रामादर्शनकर्शिता: ।। 2.59.12 ।।

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतै: ।

अन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततरा: स्त्रिय: ।। 2.59.13 ।।

हर्म्यैरित्यादिश्लोकद्वयमेकान्वयम् । हाहाकारकृता: कृतहाहाकारा: । आयतैरित्यश्रुवेगातिशयोक्त्यर्थ: । निरञ्जनत्वं द्योतयितुं विमलैरित्युक्तम् । अभिवीक्षन्तेव्यक्तमित्यत्र अव्यक्तमिति पदच्छेद: ।। 2.59.1213 ।।

नामित्राणां न मित्राणामुदासीनजनस्य च ।

अहमार्ततया किञ्चिद्विशेषमुपलक्षये ।। 2.59.14 ।।

नामित्राणामिति । उदासीनेत्यत्रापि नञनुषच्यते । अमित्राणां तवेति शेष: । रामस्यामित्रप्रसङ्गाभावात् । यद्वा पौरजनस्यामित्राणां पौरजनस्य मित्राणाञ्च उदासीनजनस्य उदासीनजनापेक्षया आर्ततया हेतुना विशेषं नोपलक्षये ।

कुत्रचित्पुरुषे मित्राणि च न स्वकार्य्याणि कुर्वन्ति नापि शत्रवोपीति भाव: ।। 2.59.14 ।।

अप्रहृष्टमनुष्या च दीननागतुरङ्गमा ।

आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ।। 2.59.15 ।।

निरानन्दा महाराज राम प्रव्राजनातुरा ।

कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ।। 2.59.16 ।।

सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।

बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ।। 2.59.17 ।।

अप्रहृष्टमनुष्येत्यादि श्लोकद्वयमेकान्वयम् । विनिश्वसितनिस्वना दीर्घनिश्वासस्वनयुक्ता: । यद्वा विनिश्वसितस्येव निस्वनो यस्या: सा । व्याधिविशेषोपरुद्धनिश्वासजनवदविरतहाहाकारयुक्तेत्यर्थ: । सन्निहितत्वेन कौसल्यां दृष्टान्तीकरोति । पुत्रहीना पुत्रवियुक्ता । एतावता प्रबन्धेन रामस्य सर्वात्मकता ऋषिणा ऽनुसंहितेति प्रबन्धगतवस्तुध्वनि: ।। 2.59.1517 ।।

कैकेय्या विनियुक्तेन पापाभिजनभावया ।

मया न मन्त्रकुशलैर्वृद्धै: सह समर्थितम् ।। 2.59.18 ।।

सुमन्त्रे पृष्टस्योत्तरमभिधाय ततोधिकं राज्यपुरुषक्षोभादिकं कथयति सति तन्ममाकृत्यकरणद्योतनार्थमिति बुद्ध्वाङ्गीकारेणोत्तरमाह–कैकेय्येति । विनियुक्तेन “प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि । अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ।।” इत्युक्तक्रमेण विशेषेण नियोगं प्रापितेनेत्यर्थ:। पापाभिजनभावया पापविषयजन्मभूम्यभिप्राययुक्तया। यद्वा पापो योऽभिजनभाव: कुलक्रमागतोऽभिप्राय: स यस्यास्तया “कुलेप्यभिजनो जन्मभूमौ” इत्यमर:। “शंस मे जीव वा मा वा न मामुपहसिष्यसि” इत्युक्तवत्या मात्रा तुल्यस्वभावयेत्यर्थ:। न समर्थितं न विचारितम् ।। 2.59.18 ।।

न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा च नैगमै: ।

मयायमर्थ: सम्मोहात् स्त्रीहेतो: सहसा कृत: ।। 2.59.19 ।।

न सुहृद्भिरिति । निगम: पुरं “पुरं वणिक्पथो वेदो निगम:” इत्यमर: । तत्र भवा नैगमा: तै: । अत्रापि नेत्यनुषज्यते । अयमर्थ: रामप्रवासनरूपार्थ: । सुहृद्भिर्मन्त्रयित्वा न कृत: अमात्यैश्च मन्त्रयित्वा न कृत: नैगमैश्च मन्त्रयित्वा न कृत: किन्तु स्त्रीहेतो: सम्मोहात् सहसा कृत: ।। 2.59.19 ।।

भवितव्यतया नूनमिदं वा व्यसनं महत् ।

कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ।। 2.59.20 ।।

भवितव्यतयेति । अथवा इदं व्यसनं यदृच्छया दृष्टहेतुं विना भवितव्यतया पापेन प्राप्तमिति सम्बन्ध: ।। 2.59.20 ।।

सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम् ।

त्वं प्रापयाशु मां रामं प्राणा: संत्वरयन्ति माम् ।। 2.59.21 ।।

सूतेति । ते तुभ्यं सुकृतमुपकार: । संत्वरयन्ति निर्जिगमिषन्तीत्यर्थ: ।। 2.59.21 ।।

यद्यद्यापि ममैवाज्ञा निवर्त्तयतु राघवम् ।

न शक्ष्यामि विना रामं मुहूर्त्तमपि जीवितुम् ।। 2.59.22 ।।

अथवापि महाबाहुर्गतो दूरं भविष्यति ।

मामेव रथमारोप्य शीघ्रं रामाय दर्शय ।। 2.59.23 ।।

यदीति । अद्यापि अस्यां विपद्यपि, ममैवाज्ञा यदि प्रवर्तते तदा राघवं निवर्तय । तुशब्दो ऽवधारणे ।। 2.59.2223 ।।

वृत्तदंष्ट्रो महेष्वास: क्वासौ लक्ष्मणपूर्वज: ।

यदि जीवामि साध्वेनं पश्येयं सीतया सह ।। 2.59.24 ।।

वृत्तदंष्ट्र: इति । वृत्तदंष्ट्र: कुन्दकुड्मलाकारदंष्ट्र: । यदि पश्येयं जीवामीति सम्बन्ध: ।। 2.59.24 ।।

लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् ।

रामं यदि न पश्येयं गमिष्यामि यमक्षयम् ।। 2.59.25 ।।

लोहिताक्षमिति । आमुक्तमणिकुण्डलं धृतरत्नकुण्डलम् ।। 2.59.25 ।।

अतो नु किं दु:खतरं योहमिक्ष्वाकुनन्दनम् ।

इमामवस्थामापन्नो नेह पश्यामि राघवम् ।। 2.59.26 ।।

हा राम रामानुज हा हा वैदेहि तपस्विनि ।

न मां जानीत दु:खेन म्रियमाणमनाथवत् ।। 2.59.27 ।।

अतो न्विति । न पश्यामीति यत् अत: अदर्शनात् दु:खतरं किं तु किमपि दु:खतरं नास्तीत्यर्थ: ।। 2.59.2627 ।।

स तेन राजा दु:खेन भृशमर्पितचेतन: ।

आवगाढ: सुदुष्पारं शोकसागरमब्रवीत् ।। 2.59.28 ।।

स तेनेति । दु:खेन तप्ताय: पिण्डस्थानीयेन अर्पितचेतन: व्याप्तचित्त: । अवगाढ: प्रविष्ट: ।। 2.59.28 ।।

रामशोकमहाभोग: सीताविरहपारग: ।

श्वसितोर्मिमहावर्त्तो बाष्पफेनजलाविल: ।। 2.59.29 ।।

बाहुविक्षेपमीनौघो विक्रन्दितमहास्वन: ।

प्रकीर्णकेशशैवाल: कैकेयीवडवामुख: ।। 2.59.30 ।।

ममाश्रुवेगप्रभव: कुब्जावाक्यमहाग्रह: ।

वरवेलो नृशंसाया रामप्रव्राजनायत: ।। 2.59.31 ।।

अनुभूयमानस्वशोकस्यापरिमेयत्वात्तं सागरत्वेन रूपयति–रामशोकमहाभोग इत्यादिना । रामशोक एव महान् आभोगो वैपुल्यं यस्य स तथा । सीता विरहरूपं पारं गच्छतीति तथा । अश्रुवेगस्य प्रभवो मूलहेतु: । सागरो हि वर्षस्य निदानं महाग्रह: महाग्राह: । अनेन कुब्जावाक्यमेव रामप्रवासनमूलमिति राज्ञा ज्ञातमित्यवगम्यते । नृशंसाया: कैकेय्या: वर एव वेला जलवृद्धिर्यस्य । रामप्रव्राजनमेवायतमायामो दैर्ध्यं यस्य स तथा ।। 2.59.2931 ।।

यस्मिन् बत निमग्नो ऽहं कौसल्ये राघवं विना ।

दुस्तरो जीवता देवि मयायं शोकसागर: ।। 2.59.32 ।।

सागरत्वरूपणप्रयोजनमाह–यस्मिन्नित्यादिश्लोकेन ।। 2.59.32 ।।

अशोभनं यो ऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् ।

इतीव राजा विलपन् महायशा: पपात तूर्णं शयने स मूर्च्छित: ।। 2.59.33 ।।

अशोभनमिति । न लभ इति यत् इदमशोभनमित्यन्वय: । कविनापि वक्तुमशक्यत्वादिवेत्युक्तम् ।। 2.59.33 ।।

इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतो: ।

वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता ।। 2.59.34 ।।

इतीति । इति उक्तप्रकारेण । रामहेतो: करुणतरं यथातथा द्विगुणं विलपति पार्थिवे प्रणष्टे मूर्च्छिते सति । देवी पुनरेव भयमगमत् पूर्वं रामस्य किं भविष्यतीति इदानीं भर्तुरपि किं भविष्यतीति भयमगमदित्यर्थ: ।। 2.59.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनषष्टितम: सर्ग: ।। 59 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनषष्टितम: सर्ग: ।। 59 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.