17 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

सप्तदश: सर्ग:

स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जन: ।

पताकाध्वजसम्पन्नं महार्हागरुधूपितम् ।

अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ।। 2.17.1 ।।

अथ रामस्य राजसमीपगमनं सप्तदशे–स राम इत्यादि । पताकाध्वजसम्पन्नं पताका: अनामाङ्किता:, तदङ्कितानि ध्वजानि ।। 2.17.1 ।।

स गृहैरभ्रसङ्काशै: पाण्डरैरुपशोभितम् ।

राजमार्गं ययौ रामो मध्येनागरुधूपितम् ।। 2.17.2 ।।

सगृहैरिति । मध्येन वीथीमध्येन । प्रकृत्यादित्वात्तृतीया ।। 2.17.2 ।।

चन्दनानां च मुख्यानामगरूणां च सञ्चयै: ।

उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ।। 2.17.3 ।।

अविद्धाभिश्च मुक्ताभिरुत्तमै: स्फाटिकैरपि ।

शोभमानमसम्बाधैस्तं राजपथमुत्तमम् ।। 2.17.4 ।।

संवृतं विविधै: पण्यैर्भक्ष्यैरुच्चावचैरपि ।

ददर्श तं राजपथं दिवि देवपथं यथा ।। 2.17.5 ।।

कीदृशं राजमार्गं ययावित्याकांक्षायामाह–चन्दनानामित्यादिना । क्षौमकौशाम्बरस्य क्षौमं दुकूलम् । “क्षौमं दुकूलम्” इत्यमर: । कौशाम्बरं कौशेयम् । अविद्धाभि: अकृतरन्ध्राभि:, नूतनाभिरिति यावत् । स्फाटिकै: स्फटिकैः । स्वार्थे अण्प्रत्यय: । तं राजपथं सकलभाग्ययुक्तम् राजमार्गमित्यर्थ: । यद्वा प्रथमस्य राजपथपदस्य ददर्शेत्यनेन सम्बन्ध: । द्वितीयस्य वक्ष्यमाणेन ययावित्यनेन सम्बन्ध: ।। 2.17.35 ।।

दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनै: ।

नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् ।। 2.17.6 ।।

आशीर्वादान् बहून् शृण्वन् सुहृद्भि: समुदीरितान् ।

यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ ।। 2.17.7 ।।

दध्यक्षतहविरिति । अभ्यर्चितचत्वरं प्रतिपूजिताङ्गणम् “अङ्गणं चत्वराजिरे” इत्यमर: । यथार्हमिति वीक्षणभ्रूक्षेपवचनाञ्जलिप्रणामादिभिरित्यर्थ: ।। 2.17.67 ।।

पितामहैराचरितं तथैव प्रपितामहै: ।

अद्योपादाय तं मार्गमभिषिक्तो ऽनुपालय ।। 2.17.8 ।।

पितामहैरिति । अद्याभिषक्तस्त्वं पितामहाद्यैराचरितं तं प्रसिद्धं मार्गंमर्यादामनुपालय ।। 2.17.8 ।।

यथा स्म लालिता: पित्रा यथा पूर्वै: पितामहै: ।

तत: सुखतरं रामे वत्स्यामस्सति राजनि ।। 2.17.9 ।।

यथेति । रामे राजनि सति । सर्वे वयं तत: पूर्वस्मात् सुखतरं यथा भवति तथा वत्स्याम: ।। 2.17.9 ।।

अलमद्य हि भुक्तेन परमार्थैरलं च न: ।

यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ।। 2.17.10 ।।

अलमिति । भुक्तेन भोजनेन । परमार्थै: परमपुरुषार्थसाधनभूतै:, जपहोमध्यानादिभिरित्यर्थ: । राज्ये प्रतिष्ठितं अभिषिक्तम्, पुन: स्वगृहाय निर्यान्तम् । यथा यथावत् पश्याम । प्रार्थनायां लोट् ।। 2.17.10 ।।

ततो हि न: प्रियतरं नान्यत् किञ्चिद्भविष्यति ।

यथाभिषेको रामस्य राज्येनामिततेजस: ।। 2.17.11 ।।

तत इति । राज्येनाभिषेको राज्यायाभिषेक: । स यथा प्रियतरस्तथा ततो ऽन्यत्प्रियतरं किञ्चिन्नास्ति ।। 2.17.11 ।।

एताश्चान्याश्च सुहृदामुदासीन: कथा: शुभा: ।

आत्मसम्पूजनी: शृण्वन् ययौ रामो महापथम् ।। 2.17.12 ।।

एता इति । उदासीन: स्तुतिश्रवणेन निर्विकार: । आत्मसम्पूजनी: आत्मसम्पूजाजननी: मनोहर्षजननीर्वा । महापथं राजमार्गम् ।। 2.17.12 ।।

न हि तस्मान्मन: कश्चिच्चक्षुषी वा नरोत्तमात् ।

नर: शक्नोत्यपाक्रष्टुमतिक्रान्ते ऽपि राघवे ।। 2.17.13 ।।

नहीति । कश्चिदपि नर: मनश्चक्षुषी वा तस्मात् अपाक्रष्टुं निवर्तयितुं न शक्नोति किमुत नारीजन इति भाव: । अतिक्रान्ते दूरगते ऽपि किमुत सन्निहित इत्याशय: ।। 2.17.13 ।।

यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।

निन्दित: स वसेल्लोके स्वात्माप्येनं विगर्हते ।। 2.17.14 ।।

यश्चेति । चकारो भिन्नक्रम: । रामं च दर्शनकाल एव परिपूर्णामृतसरसि मज्जयन्तमपि । यस्तु अतिशयितवैलक्षण्यसम्पन्नोपि । न पश्येत् स्तुतिसल्लापसत्काराद्यभावेपि अचेतनविलक्षणाकारेण चक्षुर्विषयं न करोति । अत एव यं रामो ऽपि न पश्यति नरस्याभिमुख्ये हि भगवान् कटाक्षयति । स: राममदृष्ट्वा तत्कटाक्षाविषय: निन्दितो वसेत् यावत्कालं निन्दित: स्यात् । लोके निन्दित: स्यात्तं निन्दितुमनर्ह: कोपि जनोनास्तीति भाव: । लोके विषयप्रवण: कश्चित्सत्यामपि लोकगर्हायां स्वयं सन्तुष्टो भवति न तथेत्याह स्वात्माप्येनं विगर्हत इति । स्वान्त:करणमप्येनं विशेषेण गर्हते, रामादर्शनाल्लोकगर्हया चेति भाव: ।। 2.17.14 ।।

सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ।

चतुर्णां हि वयस्स्थानां तेन ते तमनुव्रता: ।। 2.17.15 ।।

सर्वेषामिति । स: राम: चतुर्णां वर्णानां सर्वेषामपि जनानाम् । सप्तम्यर्थे षष्ठी । वय: स्थानं प्रमाणं यस्यास्तां वयो ऽनुरूपां दयाम् । हि यस्मात्कारणात् कुरुते तेन कारणेन ते तमनुव्रता इत्यन्वय: । वयस्थानां वृद्धानामिति वा सर्वविशेषणम् ।। 2.17.15 ।।

चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च ।

प्रदक्षिणं परिहरन् जगाम नृपते: सुत: ।। 2.17.16 ।।

चतुष्पथानिति । चतुष्पथान् श्रृङ्गाटकानि । देवपथान् देवालयान् । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि सभादीनि च परिहरन् अप्रदक्षिणं परिहरन् प्रदक्षिणं यथा भवति तथा जगामेति सम्बन्ध: ।। 2.17.16 ।।

स राजकुलमासाद्य मेघसङ्घोपमै: शुभै: ।

प्रासादश्रृङ्गैर्विविधै: कैलासशिखरोपमै: ।। 2.17.17 ।।

आवारयद्भिर्गगनं विमानैरिव पाण्डरै: ।

वर्द्धमानगृहैश्चापि रत्नजालपरिष्कृतै: ।। 2.17.18 ।।

तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् ।

राजपुत्र: पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ।। 2.17.19 ।।

स इत्यादि । राजकुलं राजगृहं “कुलं गृहे ऽपि” इत्यमर: । वर्द्धमानगृहै: वर्द्धमानलक्षणाधिष्ठानसमेतगृहै: । पृथिव्यां गृहवरम्, पृथिव्यामद्वितीयमित्यर्थ: । पितुर्वेश्म पितृवासस्थानम् ।। 2.17.1719 ।।

स कक्ष्या धन्विभिर्गुप्तास्तिस्रो ऽतिक्रम्य वाजिभि: ।

पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तम: ।। 2.17.20 ।।

स इति । वाजिभि: रथयुक्तैर्वाजिभि: । पदाति: पादचारी ।। 2.17.20 ।।

स सर्वा: समतिक्रम्य कक्ष्यादशरथात्मज: ।

सन्निवर्त्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ।। 2.17.21 ।।

तत: प्रविष्टे पितुरन्तिकं तदा जन: स सर्वोमुदितो नृपात्मजे ।

प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमस: सरित्पति: ।। 2.17.22 ।।

स इति । शुद्धान्तम् अन्त:पुरम् ।। 2.17.2122 ।।

इत्यार्षे श्रीरामायणेवाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदश: सर्ग: ।। 17 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्यानेयोध्याकाण्डव्याख्याने सप्तदश: सर्ग: ।। 17 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.