20 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

विंश: सर्ग:

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।

आर्त्तशब्दो महान् जज्ञे स्त्रीणामत:पुरे तदा ।। 2.20.1 ।।

तस्मिन्निति । आर्तशब्द: आर्तानां यादृश: शब्दस्तादृश इत्यर्थ: ।। 2.20.1 ।।

कृत्येष्वचोदित: पित्रा सर्वस्यान्त:पुरस्य च ।

गतिर्य: शरणं चापि स रामो ऽद्य प्रवत्स्यति ।। 2.20.2 ।।

कृत्येष्विति । अन्त:पुरस्य कृत्येषु कर्त्तव्येषु विषये । गति: कर्तृत्वेन प्राप्य: । शरणं रक्षिता । “शरणं गृहरक्षित्रो:” इत्यमर: ।। 2.20.2 ।।

कौसल्यायां यथा युक्तो जनन्यां वर्त्तते सदा ।

तथैव वर्तते ऽस्मासु जन्मप्रभृति राघव: ।। 2.20.3 ।।

कौसल्यायामिति । युक्त: सावधान: । वर्तते शुश्रूषते ।। 2.20.3 ।।

न क्रुध्यत्यभिशप्तो ऽपि क्रोधनीयानि वर्ज्जयन् ।

क्रुद्धान् प्रसादयन् सर्वान् स इतो ऽद्य प्रवत्स्यति ।। 2.20.4 ।।

न क्रुध्यतीति । य: अभिशप्तो ऽपि परुषमुक्तो ऽपि न क्रुद्ध्यति । क्रोधनीयाने क्रोधहेतुकर्माणि वर्जयन् क्रुद्धान् केवलमाग्रहेण कुपितान् प्रसादयंश्च वर्त्तते, स: इत: अस्माद्देशात्प्रवत्स्यति । हन्तेति शेष: ।। 2.20.4 ।।

अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् ।

यो गतिं सर्वलोकानां परित्यजति राघवम् ।। 2.20.5 ।।

अबुद्धिरिति । य: सर्वभूतानां गतिं राघवं परित्यजति स नो राजा अबुद्धि: सन् लोकान् चरति भक्षयति नाशयतीत्यर्थ: । “चर गतिभक्षणयो:” इति धातु: ।। 2.20.5 ।।

इति सर्वा महिष्यस्ता विवत्सा इव धेनव: ।

पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशु: ।। 2.20.6 ।।

इतीति । आचुक्रुशु: निन्दति स्म । चुक्रुशु: रुरुदु: ।। 2.20.6 ।।

स हि चान्त:पुरे घोरमार्त्तशब्दं महीपति: ।

पुत्रशोकाभिसन्तप्त: श्रुत्वा व्यालीयतासने ।। 2.20.7 ।।

स इति । व्यालीयत लज्जादु:खभरेण शय्यायां विलीनो ऽभूदित्यर्थ: ।। 2.20.7 ।।

रामस्तु भृशमायस्तो निश्वसन्निव कुञ्जर: ।

जगाम सहितो भ्रात्रा मातुरन्त:पुरं वशी ।। 2.20.8 ।।

राम इति । भृशमायस्त: ‘व्यसनेषु मनुष्याणां भृशं भवति दु:खित:’ इत्युक्तगुणवत्तयान्त:पुरार्तस्वनश्रवणेनातिशयेन सञ्जातदु:ख: । निश्वसन्निव कुञ्जर: परदु:खस्यापरिहार्यतां मत्वा गुप्तदु:खस्सन्, कुञ्जर इव निश्वसन्नित्यर्थ: । वशी स्वायत्तीकृतेन्द्रिय: ।। 2.20.8 ।।

सो ऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।

उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून् ।। 2.20.9 ।।

स इति । पुरुषं द्वारपालाध्यक्षम् ।। 2.20.9 ।।

दृष्टैव तु तदा रामं ते सर्वे सहसोत्थिता: ।

जयेन जयतां श्रेष्ठं वर्द्धयन्ति स्म राघवम् ।। 2.20.10 ।।

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श स: ।

ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान् ।। 2.20.11 ।।

प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श स: ।

स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्परा: ।। 2.20.12 ।।

दृष्ट्वेति । जयेन विजयस्वेति जयाशिषा ।। 2.20.1012 ।।

वर्द्धयित्वा प्रहृष्टास्ता: प्रविश्य च गृहं स्त्रिय: ।

न्यवेदयन्त त्वरिता रामामतु: प्रियं तदा ।। 2.20.13 ।।

वर्धयित्वेति । वर्द्धयित्वा जयाशिषेति शेष: ।। 2.20.13 ।।

कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता ।

प्रभाते त्वकरोत् पूजां विष्णो: पुत्रहितैषिणी ।। 2.20.14 ।।

कौसल्येति । रात्रिं रात्रौ “कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । समाहिता नियमयुक्ता ।। 2.20.14 ।।

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।

अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ।। 2.20.15 ।।

सेति । जुहोति हावयति, अत एव हावयन्तीमिति वक्ष्यति । ब्राह्मणैरिति शेष: ।। 2.20.15 ।।

प्रविश्य च तदा रामो मातुरन्त:पुरं शुभम् ।

ददर्श मातरं तत्र हावयन्तीं हुताशनम् ।

देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम् ।। 2.20.16 ।।

प्रविश्येत्यादि । देवकार्यनिमित्तमिति द्रव्यजातमिति शेष: ।। 2.20.16 ।।

दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ।। 2.20.17 ।।

दधीत्यादि । हविष: हवींषि ।। 2.20.17 ।।

लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा ।

समिध: पूर्णकुम्भाश्च ददर्श रघुनन्दन: ।। 2.20.18 ।।

लाजानिति । कृसरं तिलौदनम् । दध्यक्षतमित्यारभ्य वाक्यान्तरम्, अतो न क्रियाद्वयविरोध: । पूर्वं देवकार्यनिमित्तमिति द्रव्याणि सामान्येनोक्तानि । अथ विशेषेणेति विवेक: ।। 2.20.18 ।।

तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् ।

तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम् ।। 2.20.19 ।।

तामिति । तर्प्पयन्तीं प्रीणयन्तीम् ।। 2.20.19 ।।

सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।

अभिचक्राम संहृष्टा किशोरं वडवा यथा ।। 2.20.20 ।।

सेति । अभिचक्राम अभिमुखं जगाम । किशोरम् अश्वबालकम् । वडवा अश्वस्त्री ।। 2.20.20 ।।

स मातरमभिक्रान्तामुपसंगृह्य राघव: ।

परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्द्धनि ।। 2.20.21 ।।

तमुवाच दुराधर्षं राघवं सुतमात्मन: ।

कौसल्यां पुत्रवात्सल्यादिदं प्रियहितं वच: ।। 2.20.22 ।।

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ।

प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ।। 2.20.23 ।।

स इति । उपसंगृह्य अभिवाद्य । स्थित इति शेष: ।। 2.20.2123 ।।

सत्यप्रतिज्ञं पितरं राजानं पश्य राघव ।

अद्यैव हि त्वां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति ।। 2.20.24 ।।

सत्यप्रतिज्ञमिति । अभिषेक्ष्यतीत्यत्र हेतु: । इदानीमप्यभिषेको नारब्ध इति नाशङ्कनीयमिति भाव: । पश्य जानीहि ।। 2.20.24 ।।

दत्तमासनमालभ्य भोजनेन निमन्त्रित: ।

मातरं राघव: किञ्चिद्व्रीडात्प्राञ्जलिरब्रवीत् ।। 2.20.25 ।।

दत्तमित्यादि श्लोकद्वयमेकान्वयम् । स राघव: । भोजनेन निमन्त्रित: सन् दत्तमासनम् । आलभ्य स्पृष्ट्वा । दण्डकारण्यं प्रस्थितो ऽहम् आप्रष्टुं गमनं निमन्त्रयितुम् । उपचक्रमे उद्योगमकार्षमिति मातरमब्रवीदितिसम्बन्ध: । यद्वा दत्तमिति भोजनेन निमन्त्रित: भोजनार्थं निमन्त्रित: । भोजनार्थं दत्तमासनमालभ्य तिष्ठन् दत्तासने उपवेशनाभावेपि स्पर्शमात्रं कार्यमित्यागमात् किञ्चिद्व्रीडात् एवं ब्रुवन्त्यै मात्रे कथं मया प्रस्थानं कथनीयमिति लज्जया अब्रवीत् ।। 2.20.25 ।।

स स्वभावविनीतश्च गौरवाच्च तदानत: ।

प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ।। 2.20.26 ।।

किमर्थमासनमुपलभ्य नोपविष्टवानित्यत्राह–स इति । गौरवात् मातरि बहुमानात् । प्रस्थित: प्रस्थातुमुद्यत: । आप्रष्टुम् अनुज्ञां कारयितुम् । उपचक्रमे उपक्रान्तवान् ।। 2.20.26 ।।

देवि नूनं न जानीषे महद्भयमुपस्थितम् ।

इदं तव च दु:खाय वैदेह्या लक्ष्मणस्य च ।। 2.20.27 ।।

अब्रवीदित्युक्तमाह–देवीत्यादि । भयं तवेति शेष: । इदं वक्ष्यमाणं वचनं दु:खाय, तथापि वक्ष्यामीत्यर्थ: ।। 2.20.27 ।।

गमिष्ये दण्डकारण्यं किमनेनासनेन मे ।

विष्टरासनयोग्यो हि कालो ऽयं मामुपस्थित: ।। 2.20.28 ।।

इदंशब्दार्थमाह–गमिष्य इति । अनेन रत्नमयेन । विष्टरेत्यादि । विष्टरो नाम पञ्चविंशतिदर्भनिर्मितस्तापसासनविशेष: । “पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्द्धेन तु विष्टर:” इति स्मृते: ।। 2.20.28 ।।

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।

मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ।। 2.20.29 ।।

चतुर्दशेति । मुनिवत् वत्स्यामीति सम्बन्ध: । अत्रामिषशब्देन सूदै: संस्कृतं मांसमुच्यते । केवलं मांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् “इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना” इति ।। 2.20.29 ।।

भरताय महाराजो यौवराज्यं प्रयच्छति ।

मां पुनर्दण्डकारण्ये विवासयति तापसम् ।। 2.20.30 ।।

कुत एवामित्यत्राह–भरतायेति ।। 2.20.30 ।।

स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने ।

आसेवमानो वन्यानि फलमूलैश्च वर्त्तयन् ।। 2.20.31 ।।

स इति । सो ऽहमित्यर्थ: । लघुत्वप्रदर्शनाय षट् चाष्टौ चेत्युक्तम् । चतुर्दशेत्युक्ते हि गौरवं गम्यते । वन्यानि वनसम्बन्धीनि । वानप्रस्थयोग्यकर्माणीति यावत् । आसेवमान: आचरन् । वर्त्तयन् जीवनं कुर्वन् ।। 2.20.31 ।।

सा निकृत्तेव सालस्य यष्टि: परशुना वने ।

पपात सहसा देवी देवतेव दिवश्च्युता ।। 2.20.32 ।।

सेति । सा पुत्रोक्तं श्रुतवती । सालस्य वृक्षस्य “अनोकह: कुट: साल:” इत्यमर: । परशुनेति हठात् छेदनज्ञापनाय, नगरे तथा छेदनाभावात् वन इत्युक्तम् ।। 2.20.32 ।।

तामदु:खोचितां दृष्ट्वा पतितां कदलीमिव ।

रामस्तूत्थापयामास मातरं गतचेतसम् ।। 2.20.33 ।।

तामिति । गतचेतसं मूर्च्छिताम् ।। 2.20.33 ।।

उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम् ।

पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ।। 2.20.34 ।।

उपावृत्त्येति । उपावृत्त्योत्थितां श्रमनिवृत्त्यर्थं भुवि वेष्टनं कृत्वोत्थिताम् । वाहितां भारवहनं प्रापिताम् ।। 2.20.34 ।।

सा राघवमुपासीनमसुखार्त्ता सुखोचिता ।

उवाच पुरुषव्यार्घमुपशृण्वति लक्ष्मणे ।। 2.20.35 ।।

सेति । असुखार्ता दु:खार्ता ।। 2.20.35 ।।

यदि पुत्र न जायेथा मम शोकाय राघव ।

न स्म दु:खमतो भूय: पश्येयमहमप्रजा: ।। 2.20.36 ।।

यदीति । हे पुत्र त्वं यदि न जायेथा:, अत: अजननात् । भूय: अतिशयितम् । दु:खम् इष्टपुत्रविश्लेषजम् न पश्येयम् । अप्रजा: वन्ध्या ।। 2.20.36 ।।

एक एव हि वन्ध्याया: शोको भवति मानस: ।

अप्रजास्मीति सन्तापो न ह्यन्य: पुत्र विद्यते ।। 2.20.37 ।।

इदमेवोपपादयति–एक इति । अन्य: विश्लेषज:, भूलुण्ठनादि: कायिकश्च । अप्रजास्मीत्यसिजभावआर्ष: ।। 2.20.37 ।।

न दृष्टपूर्वं कल्याणं सूखं वा पतिपौरुषे ।

अपि पुत्रे तु पश्येयमिति राम स्थितं मया ।। 2.20.38 ।।

नेति । पतिपौरुषे सत्यपि कल्याणं ज्येष्ठपत्नीत्वोचितग्रामाभरणाद्यैश्वर्यरूपं शुभम् । सुखं वा भर्तृसम्माननादिजनितसौख्यं वा । अपि पुत्र इति अपि:सम्भावनायाम् । पुत्रे सति तद्बलात् पश्येयमिति मया स्थितमित्यर्थ: ।। 2.20.38 ।।

सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।

अहं श्रोष्ये सपत्नीनामवराणां वरा सती ।। 2.20.39 ।।

भूतदु:खमुक्त्वा भविष्यद्दु:खमाह–सेति । सा एवं सुखमलभमाना । बहूनीत्युक्ते: पूर्वमपि स्वल्पानि सन्तीति गम्यते । अमनोज्ञानि परुषाणि । परुषाणीत्युक्ते मनोज्ञमिश्रत्वमपि प्रतीयेत । वाक्यानि न तु सूचकपदानि । हृदयच्छिदां भर्त्तृहृदयवैकल्यकारिणीनाम् । अवराणां स्वेनैव तथा वक्तुमुचितानां सपत्नीनां न तु स्वाधीनानाम् । वरा सती स्वस्याप्यवरत्वे न किञ्चिद्दु:खमिति भाव: । क्रोधेन सपत्नीनामिति बहुवचनोक्ति: । तत्र हठात् स्वगृहं मा गच्छेत्युक्ति:, कोपेन भर्त्तृसकाशात् निर्याहीत्युक्ति:, अपुत्राया: किमुत्सवेनेत्युक्ति: इत्येवमादीनि सपत्नीवाक्यानि बोद्ध्यानि ।। 2.20.39 ।।

अतो दु:खतरं किन्नु प्रमदानां भविष्यति ।

मम शोको विलापश्च यादृशो ऽयमनन्तक: ।। 2.20.40 ।।

अत इति । अत: सपत्नीवाक्यश्रवणजाद्दु:खात् । प्रमदानां किं नु दु:खतरम्, तस्मान्मम शोको विलापश्च यादृश: इयत्तया वक्तुमशक्य: । अनन्तक: दुष्पार: ।। 2.20.40 ।।

त्वयि सन्निहितेप्येवमहमासं निराकृता ।

किं पुन: प्रोषिते तात ध्रुवं मरणमेवमे ।। 2.20.41 ।।

उक्तं दु:खं निदर्शयति–त्वयीति । बलवति त्वयि सन्निहिते ऽपि, एवं भवदनुभूतप्रकारेण, निराकृता । त्वयि प्रोषिते किं पुन: अतो मे मरणं ध्रुवमिति योजना ।। 2.20.41 ।।

अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता ।

परिवारेण कैकेय्या: समा वाप्यथवा वरा ।। 2.20.42 ।।

अत्यन्तमिति । भर्त्तु: भर्त्रा निगृहीता अहं अतन्त्रिता अप्रधानीकृतास्मि । “तन्त्रं प्रधाने सिद्धान्ते” इति निघण्टु: । अत: कैकेय्या: परिवारेण दासीजनेन समा कृतास्मि । अथवा विचार्यमाणे अवरा न्यूना कृतास्मि ।। 2.20.42 ।।

यो हि मां सेवते कश्चिदथवाप्यनुवर्त्तते ।

कैकेय्या: पुत्रमन्वीक्ष्य स जनो नाभिभाषते ।। 2.20.43 ।।

दु:खान्तरमाह–य इति । त्वयि प्रोषिते य: स्वजन: मां सेवते परिचरति । अनुवर्त्तते प्रियोक्तिं करोति । सो ऽपि कैकेय्या: पुत्रं भरतमन्वीक्ष्य तद्भयादित्यर्थ: । नाभिभाषते नाभिभाषेत ।। 2.20.43 ।।

नित्यक्रोधतया तस्या: कथं नु खरवादि तत् ।

कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ।। 2.20.44 ।।

नित्यक्रोधतयेति । खरवादि परुषवचनशीलम् । तत् पूर्वानुभूतम् । दुर्गता अगतिका ।। 2.20.44 ।।

दश सप्त च वर्षाणि तव जातस्य राघव ।

आसितानि प्रकांक्षन्त्या मया दु:खपरिक्षयम् ।। 2.20.45 ।।

दशेति । तव जातस्य त्वयि जाते सति । दश सप्त च वर्षाणि दु:खपरिक्षयं प्रकाङ्क्षन्त्या तव यौवराज्येनेति भाव: । मया सुखमासितानि आस्थितानि । ननु “ऊनषोडशवर्षो मे रामो राजीवलोचन:” इति विश्वामित्रं प्रति दशरथवचनात् विवाहानन्तरम् “उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने” इत्युपरि सीतया वक्ष्यमाणत्वाच्च रामस्याष्टाविंशतिवर्षाणि वर्त्तन्ते । तत्कथं दश सप्त च वर्षाणीत्युच्यते इति चेत्, नैष दोष: । अत्र जातस्येत्युक्ति: द्वितीयजन्मापेक्षया “गर्भैकादशेषु राजन्यम्” इति बहुवचने गर्भनवममारभ्य क्षत्र्रियस्योपनयनकालत्वोक्ते: । “वयसा पञ्चविंशक:” इति सीतावचनात् वचनान्तरविरोधपरिहारादिकं बालकाण्ड एव कृतम् ‘ऊनषोडशवर्षो मे’ इत्यत्र ।। 2.20.45 ।।

तदक्षयमहं दु:खं नोत्सहे सहितुं चिरम् ।

विप्रकारं सपत्नीनामेवं जीर्णापि राघव ।। 2.20.46 ।।

तदिति । सहितुं सोढुं चिरं नोत्सहे । जीर्णापि सपत्नीदुर्वाक्यश्रवणदु:खेन जीर्णापि । विप्रकारम् अपकाररूपं दु:खमित्यन्वय: ।। 2.20.46 ।।

अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।

कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ।। 2.20.47 ।।

अपश्यन्तीति । कृपणजीविकां दीनजीवनम् । वर्तयिष्यामि करिष्यामीत्यर्थ: । “आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने” इत्यमर: ।। 2.20.47 ।।

उपवासैश्च योगैश्च बहुभिश्च परिश्रमै: ।

दु:खसंवर्द्धितो मोघं त्वं हि दुर्गतया मया ।। 2.20.48 ।।

स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते ।

प्रावृषीव महानद्या: स्पृष्टं कूलं नवाम्भसा ।। 2.20.49 ।।

ममैव नूनं मरणं न विद्यते न चावकाशो ऽस्ति यमक्षये मम ।

यदन्तको ऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ।। 2.20.50 ।।

उपवासैरिति । योगै: देवताध्यानै: । परिश्रमै: व्रतै: । मोघं निष्फलं यथा भवति तथा । दुर्गतया भाग्यरहितयेति यावत् ।। 2.20.4850 ।।

स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ।

अनेन दु:खेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ।। 2.20.51 ।।

स्थिरं हीति । अनेन दु:खेन अर्पितम् आहतम् मम हृदयं न भिद्यते इति यत् अत: स्थिरं हि नाशरहितमेव । देहं च नावदीर्यत इति यत् अत: आयसम् अयोनिर्मितम्, नूनम् । तथाहि अकाले अविहितकाले मरणं न विद्यते ध्रुवम् ।। 2.20.51 ।।

इदं तु दु:खं यदनर्थकानि मे व्रतानि दानानि न संयमाश्च हि ।

तपश्च तप्तं यदपत्यकारणात् सुनिष्फलं बीजमिवोप्तमूषरे ।। 2.20.52 ।।

इदं त्विति । इदं वक्ष्यमाणं दु:खं तु पूर्वदु:खेभ्यो विलक्षणम् । तदेवाह यदिति । यस्मान्मे अपत्यकारणात् कृतानि व्रतानि दानानि, संयमा:ध्यानानि च अनर्थकानि जातानि । “सामान्ये नपुंसकम्” इति नपुंसकत्वम् । तप्तं तपश्च ऊषरे उप्तं बीजमिव सुनिष्फलमासीत् । इदन्तु दु:खमित्यन्वय: ।। 2.20.52 ।।

यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदु:खकर्शित: ।

गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै ।। 2.20.53 ।।

‘ध्रुवं ह्यकाले मरणं न विद्यते’ इत्येतत् सकार्यं दर्शयति–यदि हीति । यदि लभेत तदाहं परेतसंसदं यमसभां गता स्यामित्यन्वय: ।। 2.20.53 ।।

अथापि किञ्जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ ।

अनुव्रजिष्यामि वनं त्वयैव गौ: सुदुर्बला वत्समिवानुकांक्षया ।। 2.20.54 ।।

अथेति । अथापि अकालमरणाभावेपि । किञ्जीवितं कुत्सितजीवितम् वृथा सुदुर्बला, अधीरेति यावत् । अनुकाङ्क्षया वात्सल्येन ।। 2.20.54 ।।

भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् ।

व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किन्नरी ।। 2.20.55 ।।

भृशमिति । असुखं दु:खम् । अमर्षिता सोढुमशक्ता । व्यसनं रामविश्लेषभवं व्यसनम् । उपनिशाम्य आलोच्य ।। 2.20.55 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे विंश: सर्ग: ।। 20 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने विंश: सर्ग: ।। 20 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.