61 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकषष्टितम: सर्ग:

वनं गते धर्मपरे रामे रमयतां वरे ।

कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ।। 2.61.1 ।।

वनमिति । स्वार्ता सुतरामार्ता ।। 2.61.1 ।।

यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यश: ।

सानुक्रोशो वदान्यश्च प्रियवादी च राघव: ।। 2.61.2 ।।

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया ।

दु:खितौ सुखसंवृद्धौ वने दु:खं सहिष्यत: ।। 2.61.3 ।।

यद्यपीति । राघव: दशरथ: । सानुक्रोश: वदान्यश्च प्रियवादी चेति ते महद्यश: त्रिषु लोकेषु प्रथितम् । यद्यपि तथापि अतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेष: । तथापि दु:खितौ मार्गे दु:खितौ तौ वने कथं दु:खं सहिष्यत इति वक्ष्यमाणेनान्वयो वा । यद्वा वार्द्धके नानाव्रतोपवासादिमहाप्रयासलब्धं ज्येष्ठमपि पुत्रमभिषेककाले त्यक्त्वापि प्रतिज्ञां निरूढवानिति ते महद्यशस्त्रिषु लोकेषु यद्यपि प्रथितं भवति । राघवश्च वदान्यतया दयया प्रियवचनशीलतया मह्यं वाचा पूर्वं दत्तं राज्यं न त्यजामीतिवक्तुमक्षमतया च राज्यं दत्तवान् अतस्तस्यापि महद्यश इति युवयोरिदं युक्तमस्तु, तथापि तौ कथं दु:खं सहिष्यत इति योजना ।। 2.61.23 ।।

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता ।

कथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ।। 2.61.4 ।।

सा नूनमिति । तरुणी आरब्धयौवना । श्यामा यौवनमध्यस्था । एतत्पदद्वयोपादानेनेषन्न्यूनयौवनमध्यं प्राप्तेत्यवगम्यते । (पाठभेद: । श्यामा तरुणी यौवनमध्यस्था तरुणी नतु यौवनारम्भस्था तरुणीत्यर्थ:) ।। 2.61.4 ।।

भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् ।

वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ।। 2.61.5 ।।

भुक्त्वाशनमिति । सूपदंशान्वितं शोभनव्यञ्जनसहितम् । नैवारं नीवारसम्बन्धिनम् ।। 2.61.5 ।।

गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता ।

कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ।। 2.61.6 ।।

क्रव्यादा: मांसभक्षका: ।। 2.61.6 ।।

महेन्द्रध्वजसङ्काश: क्वनु शेते महाभुज: ।

भुजं परिघसङ्काशमुपधाय महाबल: ।। 2.61.7 ।।

महेन्द्रध्वजसङ्काश इति । महेन्द्रध्वजोनाम–इन्द्रधनु: कदाचित् ध्वजाकारेण परमाभ्युदयनिमित्ततया प्रतिभातीत्याहु: ।। 2.61.7 ।।

पद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम् ।

कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ।। 2.61.8 ।।

पद्मवर्णमिति । पद्मवर्णं पद्मपत्रवर्णम् । पद्मनिश्वासं पद्मगन्धिनिश्वासम् ।। 2.61.8 ।।

वज्रसारमयं नूनं हृदयं मे न संशय: ।

अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ।। 2.61.9 ।।

वज्रसारमयमिति । न फलति न स्फुटति । “ञिफला विशरणे” इति धातु: ।। 2.61.9 ।।

यत्त्वया ऽकरुणं कर्म व्यपोह्य मम बान्धवा: ।

निरस्ता: परिधावन्ति सुखार्हा: कृपणा वने ।। 2.61.10 ।।

यत्त्वयेति । त्वया निरस्ता: मम बान्धवा: रामादय: । व्यपोह्य नगरं त्वक्त्वा वने परिधावन्तीति यत् एतत् अकरुणं कर्म, करुणाराहित्येन कृतं कर्मेत्यर्थ: ।। 2.61.10 ।।

यदि पञ्चदशे वर्षे राघव: पुनरेष्यति ।

जह्याद्राज्यञ्च कोशञ्च भरतेनोपभुज्यते ।। 2.61.11 ।।

चतुर्दशवर्षानन्तरं रामो राज्यं प्राप्स्यतीत्याशङ्क्य परिहरति–यदीति । पञ्चदशे वर्षे राघवो यदि पुनरेष्यति तथापि राज्यं कोशञ्च जह्यात् त्यजेत् । कुत: ? यस्मात् कारणात् भरतेनोपभुज्यते भरतेनोपभुक्ततया तेन पुनर्दत्तमपि राज्यं रामस्त्यजेदित्यर्थ: । भरतो नोपलक्ष्यत इति पाठान्तरम् । राज्यं कोशं च भरतो जह्यात् इदं तु नोपलक्ष्यते यद्राम: पुनर्भरतदत्तं राज्यं प्रतिगृह्णीयादिति । यद्वा यदि राघव: पुनरेष्यति । तदा भरत: राज्यं कोशं च जह्यादिति नोपलक्ष्यते । करस्थराज्यत्यागस्यासम्भावितत्वादित्यर्थ: । भरतो यदि भोक्ष्यत इति च पाठ: ।। 2.61.11 ।।

भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् ।

तत: पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ।। 2.61.12 ।।

तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातय: ।

न पश्चात्ते ऽभिमन्यन्ते सुधामपि सुरोपमा: ।। 2.61.13 ।।

भरतेनोपभुक्ततया पुनर्दत्तमपि राज्यं रामो न भोक्ष्यत इत्यत्र दृष्टान्तमाह–भोजयन्तीत्यादिना । किलेति वार्तायाम् । लोके केचित् ब्राह्मणा: विद्यागुण वयोभ्यधिकेषु विप्रेषु विद्यमानेषु दक्षिणाविशेषप्रापणलोभेन स्वानेव बान्धवान् श्राद्धे भोजयन्ति । तत: पश्चात्तदनन्तरं कृतकार्या: कृतश्राद्धकार्य्या: सन्द: श्राद्धावसाने द्विजर्षभान् पूर्वभुक्तविप्रापेक्षया विद्यावृत्तवयोभि: श्रेष्ठान् समीक्षन्ते इष्टपङ्क्तौ भोजयितुमिच्छन्ति । तत्र तदानीं ये गुणवन्त: वृत्तवन्तो विद्वांस: विद्यावन्त: सुरोपमा: देववत्पूज्यतमा: वृद्धा: द्विजातय: ते पश्चादिष्टपङ्क्तौ सुधामपि अमृततुल्यान्नमपि नाभिमन्यन्ते नाद्रियन्ते ।। 2.61.1213 ।।

ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभा: ।

नाभ्युपैतुमलं प्राज्ञा: शृङ्गच्छेदमिवर्षभा: ।। 2.61.14 ।।

ननु कुतो नाद्रियन्ते ब्राह्मणशेषभोजने शूद्रशेषवन्निषेधाभावादित्यत्राह–ब्राह्मणेष्वित्यादिना ।

तृप्तेष्वपि ब्राह्मणेषु पूर्वभक्तानां ब्राह्मणत्वेपीत्यर्थ: । प्राज्ञा: द्विजर्षभा: ऋषभा: श्रृङ्गच्छेदमिव निजावमानहेतुं पश्चाद्भोक्तुमिच्छाम् अभ्युपैतुम् नालम्, न क्षमन्त इत्यर्थ: । यद्वा श्रृङ्गमग्रं श्रृङ्गे च्छेदो यस्य तत् श्रृङ्गच्छेदं छिन्नाग्रं तृणम् । यथा वृषभा वृषभान्तरजग्धाग्रं तृणं भोक्तुं नालम्, तद्वदित्यर्थ: । श्रृङ्गच्छेदमिति वृषभभक्षिताग्रतृणनामेत्यप्याहु: ।। 2.61.14 ।।

एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते ।

भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ।। 2.61.15 ।।

उक्तमर्थं दार्ष्टान्तिके योजयति–एवमित्यादिना । एवं पूर्वोक्तद्विजर्षभवत् । कनीयसा कनिष्ठेन । विशांपते हे

प्रजानाथ वरिष्ठ: गुणै: श्रेष्ठ: । किमर्थं नावमंस्यते कस्मैप्रयोजनाय न तिरस्करिष्यति । सर्वात्मना तिरस्करिष्यत्येवेत्यर्थ: ।। 2.61.15 ।।

न परेणाहृतं भक्ष्यं व्याघ्र: खादितुमिच्छति ।

एवमेव नरव्याघ्र: परलीढं न मन्यते ।। 2.61.16 ।।

न परेणेति । परेण अन्येन वृकगोमाय्वादिना आहृतं भक्षितशेषत्वेनानीतम् । परलीढं परेणास्वादितम् । परभुक्तशेषमिति यावत् । न मन्यते न बहुमन्यते ।। 2.61.16 ।।

हविराज्यं पुरोडाश: कुशा यूपाश्च खादिरा: ।

नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ।। 2.61.17 ।।

हविरिति । हवि: चरुप्रमुखम्, पुरोडाशा: पिष्टादिविकारा: । खादिरा इत्येतत् पालाशादीनामुपलक्षणम् । यातयामानि परिभुक्तानि यागे विनियुक्तानीति यावत् । “जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्” इत्यमर: । अध्वरे यागान्तरे । पुनर्न कुर्वन्ति न विनियुञ्जते । “मन्त्रा: कृष्णाजिनं दर्भा:” इत्याद्ययातयामत्वबोधकवचनेषु दर्भादिशब्दा: कुशादिव्यतिरिक्तपरा: ।। 2.61.17 ।।

तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव ।

नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ।। 2.61.18 ।।

तथेति । आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसारांशाम् । अभिमन्तुम् अभिलषितुम् । नष्टसोममिवाध्वरमिति अन्येन सोमपाने कृते सत्ररूपमध्वरं तदक्षमतायां यथान्यो नाभिलषति तद्वदित्यर्थ: ।। 2.61.18 ।।

नैवंविधमसत्कारं राघवो मर्षयिष्यति ।

बलवानिव शार्दूलो वालधेरवमर्शनम् ।। 2.61.19 ।।

नैवंविधमिति । वालधे: पुच्छस्य अवमर्शनम् अवमत्यस्पर्शनम् ।। 2.61.19 ।।

नैतस्य सहिता लोका भयं कुर्युर्महामृधे ।

अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ।। 2.61.20 ।।

ननु वयं किं कुर्म: पौरुषधर्मबलाभ्यां हीन: स्वयमेव गत इत्यत्राह–नैतस्येति । सहिता: मिलिता: लोका: चतुर्दशभुवनस्था: सुरासुरादय: । महामृधे महायुद्धे । एतस्य रामस्य भयं न कुर्यु:, भयं कर्तुं न शक्नुयुरित्यर्थ: । किन्तु अधर्मम् अधर्ममार्गस्थं लोकं जनं धर्मेण योजयेत् । “चातुर्वर्ण्यञ्च लोके ऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति” इत्युक्तो राम: स्वयमधर्मं कथं कुर्यादित्यर्थ: ।। 2.61.20 ।।

नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुज: ।

युगान्त इव भूतानि सागरानपि निर्दहेत् ।। 2.61.21 ।।

नन्विति । युगान्त: युगान्तकाल: । भूतानि पञ्चमहाभूतानि ।। 2.61.21 ।।

स तादृश: सिंहबलो वृषभाक्षो नरर्षभ: ।

स्वयमेव हत: पित्रा जलजेनात्मजो यथा ।। 2.61.22 ।।

स तादृश इति । तादृश: अवाङ्मनसगोचरपराक्रमयुक्त: । जलजेन मत्स्येन । मत्स्यो ह्यात्मजानेव भक्षयतीति प्रसिद्धम् ।। 2.61.22 ।।

द्विजातिचरितो धर्म: शास्त्रदृष्ट: सनातन: ।

यदि ते धर्मनिरते त्वया पुत्रे विवासिते ।। 2.61.23 ।।

इयता प्रबन्धेनोक्तमुपसंहरति–द्विजातिचरित इति । धर्मनिरते पुत्रे त्वया विवासिते सति । द्विजातिचरित: शिष्टत्रैवर्णिकाचरित: शास्त्रदृष्ट: सनातनो धर्म: ते यदि अस्ति किमित्यर्थे ऽव्ययमिदम् ।। 2.61.23 ।।

गतिरेका पतिर्नार्या द्वितीया गतिरात्मज: ।

तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ।। 2.61.24 ।।

एवं राजकृतानीत्या स्वहानिमाह–गतिरित्यादि । एका मुख्या, प्रथमेत्यर्थ: । द्वितीया भर्त्रभावो गतिरित्यर्थ: । ज्ञातय: पित्रादय: तृतीया भर्तृपुत्राभावे गतिरित्यर्थ: । चतुर्थी स्वातन्त्र्यरूपा । तथाच स्मृति: “पिता रक्षति कौमारे भर्ता रक्षति यौवने । वार्द्धके तनयो रक्षेन्न स्त्री स्वातन्त्र्यमर्हति ।।” इति ।। 2.61.24 ।।

तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रित: ।

न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ।। 2.61.25 ।।

तत्रेति । तत्र तासुगतिषु त्वं भर्ता न भवसि, सपत्नीपरतन्त्रत्वात् । मे ज्ञातिरपि नास्ति । दूरस्थत्वादिति भाव: । न वनं गन्तुमिच्छामि सभर्तृकत्वात् । निहता अस्मीति शेष: ।। 2.61.25 ।।

हतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिमिश्च ।

हता सपुत्रास्मि हताश्च पौरा: सुतश्च भार्या च तव प्रहृष्टौ ।। 2.61.26 ।।

न केवलमहमेका हता अन्येपीत्याह–हतमिति । राज्यं कोसलराज्यम् । राष्ट्राणि अन्यानित्वन्मित्रपालितानि । सुत: भरत: । तत्रैव तव सुताभिमानात् । भार्या कैकेयी, तद्वचनकरणात् ।। 2.61.26 ।।

इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दु:खित: ।

तत: स शोकं प्रविवेश पार्थिव: स्वदुष्कृतं चापि पुनस्तदा स्मरन् ।। 2.61.27 ।।

इमामिति । प्रविवेश तत्र मग्न इत्यर्थ: । दुष्कृतं स्मरन् एतादृशदु:खस्य निदानभूतं किं कर्म पूर्वं कृतमिति स्मरन्नित्यर्थ: ।। 2.61.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकषष्टितम: सर्ग: ।। 61 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकषष्टितम: सर्गः ।। 61 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.