08 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

अष्टमः सर्गः ।

    रामस्य यौवराज्यं भरतानर्थहेतुरिति प्रतिपादयन्तीं मन्थरां कैकेयी रामगुणान् प्रशशंस तदभिषेकस्यैव च स्वाभीष्टत्वं समर्थयाम्बभूव । पुनश्च मन्थरा बहून्हेतूनुपन्यस्य रामाभिषेकस्यानर्थहेतुत्वप्रतिपादनेन तद्विघाते कैकेयीं प्रैरयत् ।

मन्थरात्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत्। उवाचेदं ततो वाक्यं कोपदुःखसमन्विता॥2.8.1॥

अथ कुमतिजनसंसर्गवशेन महतामपि कदाचिच्चित्तचलनं स्यादित्यमुमर्थं द्योतयन्नाह—मन्थरेत्यादि । अभ्यसूय असूयां कृत्वा एनां प्रतीति शेषः । कोपदुःखसमन्विताहितं न शृणोतीति कोपः आगमिष्यत्यनर्थं इति दुःखम्॥1॥

हर्षं किमर्थमस्थाने कृतवत्यसि बालिशे। शोकसागरमध्यस्थं नात्मानमवबुध्यसे॥2.8.2॥

हर्षमिति । हे बालिशे अज्ञे ! अस्थाने अनुचितकाले हर्षं कृतवत्यसि किमिदम् अत्र कारणं न जानामि । अस्थानकृतत्वमाह—शोकेति॥2॥

मनसा प्रसहामि त्वां देवि दुःखार्दिता सती। यच्छोचितव्ये हृष्टासि प्राप्य त्वं व्यसनं महत्॥2.8.3॥

मनसेति । इदं रामाभिषेकरूपं महद्व्यसनं प्राप्य तेनैव हेतुना शोचितव्ये विषये दृष्टसीति यत् अतोहं दुःखार्दितासती त्वां मनसा प्रहसामि यथोन्मत्तप्रभुदर्शने ॥3॥

शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्। अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम्॥2.8.4॥ एवं बालिशात्वमन्वयमुखेनदर्शयित्वा व्यतिरेकमुखेनापि दर्शयति—शोचामीति । ते दुर्मतित्वं दुष्टबुद्धित्वं शोचामि । मतेर्दुष्टत्वमनर्थविषयप्रीतिजनकत्वं मृत्योरिव सपत्नीपुत्रस्यागतां वृद्धिं का हि प्राज्ञा का वा प्रशस्तबुद्धिः प्रहर्षयेत् प्रहर्षसाधनं कुर्यात् “तत्करोति–” इति णिच् हर्ष इति घञप्रत्ययः लालयेदिति वार्थः  ॥4॥

भरतादेव रामस्य राज्यसाधारणाद्भयम्। तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते॥2.8.5॥

उक्तां व्यसनमहत्तां दर्शयति—भरतादिति । राज्यं साधारणं यस्य तस्माद्भरतादेव रामस्य यद्भयं तद्विचिन्त्य विषण्णास्मि । रामस्य भयमस्तु भरतस्य किमित्यत आह—भयमिति। यः यस्माद्भीतः स तस्य भयमवश्यमुत्पादयति व्याघ्रसर्पादिविषये तथा दर्शनादिति भावः॥5॥

लक्ष्मणो हि महाबाहु रामं सर्वात्मना गतः। शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा॥2.8.6॥

यद्यपि लक्ष्मणशत्रुघ्नयोरपि राज्यं साधारणं तथापि तयोः परतन्त्रत्वान्न भयप्रसक्तिरित्याह—लक्ष्मण इति। सर्वात्मना सर्वप्रकारेण मनोवाक्कायैरित्यर्थः। अतो रामस्य न लक्ष्मणाद्भयमिति भावः । शत्रुघ्नस्य भरतपरतन्त्रत्वेन न ततः पृथग्भयमित्यर्थः ॥6॥

प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि। राज्यक्रमो विसृष्टस्तु तयोस्तावद्यवीयसोः॥2.8.7॥

भरतादेवेत्यत्र हेत्वन्तरमाह—प्रत्यासन्नेति। प्रत्यासन्नेन सन्निकृष्टेन क्रमेण पुनर्वसुपुष्यनक्षत्र- जननक्रमेणभरतस्यैव राज्यं प्राप्तमिति शेषः। कनीयसोः कनिष्ठयोः राज्यक्रमः राज्यप्राप्ति–क्रमस्तुविप्रकृष्टः व्यवहितः । सात्यपि पारतन्त्र्या राज्यविषये सर्वेषामभिलाषस्तुल्यः यथा भरतस्येतिशङ्कायां प्रथमं रामस्य राज्यं प्राप्तं ततो भरतस्य ततो लक्ष्मणशत्रुघ्नयोः तथा च प्रथमो द्वितीयं जिघांसति अतो रामाद्भयं भरतस्यैवेति भावः॥7॥

विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः। भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम्॥2.8.8॥

एवं राज्यक्रमो भरतस्य सन्निहितोस्तु तथापि रामे प्रथमप्राप्तिमति विद्यमाने का भरतस्य राज्यशङ्केत्यत्राह—विदुष इति । विदुषः स्वत एव विवेकशालिनः विशिष्य क्षत्रचारित्रे राजनीतौ प्राज्ञस्य प्राप्तकारिणः अविलम्बेन कालोचितकर्तव्यार्थकारिणः रामस्य भयाद्भाव्यनर्थकरण–भयात् तवात्मजमुक्तवैदुष्यादिरहितं चिन्तयन्ती प्रवेपे । षष्ठी चात्र सम्बन्धसामान्ये॥8॥

सुभगा किल कौसल्या यस्याः पुत्रोभिशेक्ष्यते। यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः॥2.8.9॥

कैकेय्या ईर्ष्योत्पादनार्थं कौसल्या सौभाग्यं दर्शयति—सुभगेत्यादिना । सुभगा भाग्यशीला यौवराज्येनेति हेतौ तृतीया॥9॥

प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम्। उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः॥2.8.10॥

रामतो भरतस्येव कौसल्यातोस्या अनर्थं दर्शयति—प्राप्तामिति । रामाभिषेकेन सुमहतीं श्रियं प्राप्तां प्रतीतां ख्याताम्‘प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः’इत्यमरः । हतद्विषमधरीकृत- सपत्नीकां तां कौसल्यामुपस्थास्यसि सेविष्यसे॥10॥

एवं च त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि। पुत्रश्च तव रामस्य प्रेष्यत्वं हिगमिष्यति॥2.8.11॥

न केवलं तवैकस्या दास्यं किन्तु त्वदनुबन्धिजनस्यापीत्याह—एवमिति । तव दास्यं प्राप्तं चेदित्यर्थः ॥11॥

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः। अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये॥2.8.12॥

हृष्टा इति । राममहिष्या एकत्वेsपि रामस्य परमाः स्त्रियः इति बहुवचननिर्देशः परिचारकाभि-प्रायेणभरतक्षये भरतस्य दारिद्र्यरूपक्षये सति।नन्वत्र स्त्रीशब्दे भार्यापर एव स्नुषास्ते भरतक्षये इति स्नुषाशब्दसाहचर्यात् अत एव सुन्दरकाण्डे सीतयोच्यते ‘पितुर्निर्देशं नियमेन कृत्वा वनान्नि -वृत्तश्चरितव्रतश्च । स्त्रीभिश्च मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः’इति। युद्ध– काण्डे च दर्भशयनवर्णने ‘भुजैः रीणामभिमृष्टमनेकधा ‘इत्युक्तं नहि भुजैर्भुजाभिमर्शो भार्याभ्योsन्यत्र सम्भवति उत्तरकाण्डे चाश्वमेधोपक्रमे ‘मातरश्चैव सर्वा मे कुमाराः स्त्रीगणानि च।अग्रतो भरतं कृत्वा गच्छन्त्वग्रे समाधिना’इति दर्शितम् । अत्र स्त्रीगणकुमारव्यपदेशो विना सीतातिरिक्तभार्यासद्भावं न सम्भवति किञ्च श्रुतार्थापत्तिरपि रामस्य सीतातिरिक्तधर्मदारसद्भावे प्रमाणं यज्ञानुष्ठानं सम्भवति भोगदारान्तरासम्भवेन रामस्यैकदारव्रतत्वं भृगुशापपालनं च ।सीताप्रतिकृतिकरणं तु सीतास्नेहबहुमानार्थम्म् । अत्रोच्यते रामस्यैकदारव्रतत्वं सर्वसिद्धं तच्च पत्न्यन्तरसम्भवे च सङ्गच्छते न च यज्ञकरणानुपपत्तिः सीताप्रतिकृतिकरणेन तदुपपत्तेः अत एव उत्तरकाण्डे वक्ष्यति ‘काञ्च्नीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि । अग्रतो भरतः कृत्वा गच्छ्त्वग्रे महामतिः’इति सीताप्रतिकृतेर्दीक्षार्हत्वं पत्नीत्वं च, पुनश्चोत्तरात्र ‘न सीतायाः परां भार्यां वव्रे स रघुनन्दनः यज्ञे यज्ञे च पत्न्यर्थं काञ्चनी जानकी भवेत्’इति नहि वचनविरोधे न्यायः प्रवर्तते अनेन वचनेन प्रत्यक्षश्रुत्यविरुद्धेन विदूरभार्योननुकूलभार्यश्च भार्याप्रत्कृतिं कृत्वा श्रौतस्मार्तकर्माणि कुर्यादिति विधिरुन्नीयते स्मृतिश्च तथाविधा पठ्यते यथा हेमाद्रौ ‘दूरभार्योsननुकूलभार्यश्च दर्भपिञ्जूलैर्भार्याप्रतिनिधिं विधाय पार्वणं कुर्यात्’इति । पत्नीकर्तव्यानि कर्माण्यध्वर्युर्यजमानो वा कुर्यात् यथा तस्यामसमर्थायां पत्नीविनाशाभावान्नाघ्नेर्विनाशः यत्तु येनकेनचिदुक्तं सीताप्रतिकृतिकरणं सीतास्न्र्हबहुमानार्थमिति तत्तुच्छं सन्त्यक्तभार्यायां स्नेहबहुमानकरणस्यावद्यावहत्वात् मातरश्चैव सर्वा मे कुमाराः स्त्रीगणानि च इत्यत्र मे मातरः भरतादीनां कुमाराः स्त्रियश्चेत्यर्थः। दारान्तस्रसम्भवेपि तेषां धर्मार्थत्वेन प्रजार्थत्वाभावेन रामस्य कुमाराभावात्तत्सहचरितस्त्रीगणाश्च भरतादीनामेवेति सुव्यक्यम् । एवं च रामस्य परमाः स्त्रियः, परमनारीणां, स्त्रीभिश्च मन्ये, इत्यादिषु भोगप्रसञ्जनेन धर्मदारपरत्वासम्भवात् साधारणादिपरिग्रहशङ्कानवकाशाच्चान्यपरत्वमवसेयं परमाः स्त्रिय इति परचारिकान्तर्भावेन स्त्रीभिश्च मन्य इति स्वविनाशे स्त्र्यन्तरसम्भावनया परनारीणामित्यस्य कविवचनत्वेन श्रीभूम्याद्यभिमर्शविषयत्वाच्चेति दिक्॥12॥

तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः। रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह ॥2.8.13॥

रामस्यैवविधगुणत्वे हि त्वदुक्ता दोषाःस्युस्तदेव नास्तीति मूले कुठारं निदधाति तामित्यादिना।तामिति । अप्रीतामिति पदच्छेदः क्षोभहेतौ नितरां विद्यमानेsप्यक्षोभ्यमनस्कत्वाद्देवीति तामृषिः श्लाघते॥13॥

धर्मज्ञो गुण्वान्दान्तः कृतज्ञः सत्यवाञ्छुचिः। रामो राजसुतो ज्येष्ठो यौवराज्यमतोsर्हति॥2.8.14॥

मन्थरोक्तराज्यसाधारण्यं निवर्तयति—धर्मज्ञ इति । दान्तः दमितः ‘दान्तस्तु दमिते’इत्यमरः शिक्षित इत्यर्थः । कृतज्ञः सत्पुत्रसमाचारज्ञ इत्यर्थः ॥14॥

भ्रातृन्भृत्याश्च दीर्घायुः पितृवत्पालयिष्यति। सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्॥2.8.15॥

अथ भरतानर्थशङ्कां परिहरति—भ्रातृनिति ॥15॥

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्। पितृपैतामहं राज्यमवाप्स्यति नरर्षभः॥2.8.16॥

राज्यं च भरतस्य क्रमाद्भविष्यतीत्याह—भरत इति।वर्षशतात्परं रामराज्यात्परमित्यर्थः।दशवर्षसहस्राणि रामो राज्यं पालयिष्यतीति कैकेयी न जानाति अतो लोकरीत्या वदतीतिज्ञेयम्। अवाप्तेति लुट् स्वानन्तरं भरतस्य राज्यलाभाय सम्प्रति तस्मै यौवराज्यं दास्यतीत्यर्थः॥16॥

सा त्वमभ्युदये प्राप्ते दह्यमानेव मन्थरे। भविष्यति च कल्याणे किमिदं परितप्यसे॥2.8.17॥

सेति । प्राप्ते उचिते अभ्युदये रामाभिषेकरूपे शोभने वर्तमाने प्रत्यासन्ने सति कल्याणे भरताभिषेकरूपे भविष्यति च किमर्थं परितप्यस इति सम्बन्धः॥17॥

यथा वै भरतो मान्यस्तथा भूयोपि राघवः। कौसल्यातोतिरिक्तं च मम शुश्रूषते बहु॥2.8.18॥

एवं पुत्रानर्थशङ्कां परिहृत्य स्वानर्थशङ्कां परिहरति—यथेति । मान्यः बहुमान्यः भूयः भृशम् । अत्र हेतुमाह—कौसल्यात इति । अतिरिक्तमभ्यधिकं यथा भवति तथा॥18॥

राज्यं यदि हि रामस्य भरतस्यापि तत्तदा। मन्यते हि यथात्मानं तथा भ्रातृंस्तु राघवः॥2.8.19॥

कैकेय्या वचनं श्रुत्वा मन्थरा भृशं दुःखिता। दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत्॥2.8.20॥

मा भूद्वर्षशतात्परंभरतस्य राज्यलाभस्तथापिराज्यलाभसौख्यमस्तीत्याह—राज्यमित्यादिना॥19॥20॥

अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे। शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे॥2.8.21॥

अनर्थदर्शिनीति। अनर्थदर्शिनी अनर्थमेवार्थत्वेन दर्शनशीलेत्यर्थः। यद्वा अर्थादर्शिनी प्रयोजना–नभिज्ञेत्यर्थः । मौर्ख्यात् अविमृश्यकारित्वात् शोकव्यसनविस्तीर्णे विलापहेतुः शोकः व्यसनं विपत् ‘व्य्सनं विपदि भ्रंशे’इत्यमरः । यद्वा शोकः इष्टवियोगजं दुःखं भरतस्य राज्यभ्रंशेन वनप्रापणजं दुःखमिति यावत् विपत् स्वस्य सुखाद्भ्रंशः दुःखसागरे सपत्नीसेवारूपे मज्जन्ती तथाभूतमात्मानं नावबुध्यसे ॥21॥

भविता राघवो राजा राघवस्य च यः सुतः। राजवंशात्तु भरतः कैकेयि परिहास्यते॥2.8.22॥

वर्षशतात्परमित्युक्तभरतराज्यप्राप्तिं निराकरोति—भवितेर्णिजन्तात् कर्मणि लृट्॥22॥

नहि राज्ञः सुताः सर्वे राज्ये तिष्टन्ति भामिनि। स्थाप्यमानेषु सर्वेषुसुमहाननयो भवेत् ॥2.8.23॥

उक्तेर्थे हेतुमाह—नहीति । भामिनि कोपने ‘कोपना सैव भामिनी’इत्यमरः । अनयः नीतिविरोधः॥23॥

तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥2.8.24॥

तस्मादिति । राज्यतन्त्राणि राज्यपरिपालनादिव्यापारान्‘तन्त्रं स्वराष्ट्रव्यापारः’इति वैजयन्ती॥24॥

असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति। अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले॥2.8.25॥

एवंराज्यभ्रंशमुक्त्वा राज्यालाभेपि राज्यसुखं भरतस्यास्तीति कैकेय्योक्तं परिहरति—असाविति । अत्यन्तनिर्भग्नः सुतरां प्रच्यावितः वत्सले पुत्रवत्सले !॥25॥

साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे। सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमर्हसि॥2.8.26॥

ज्येष्ठे वर्तमाने भरतस्य राज्ययोग्यताभावात् किं कुर्म इत्यत्राह—सेति । त्वदर्थे त्वत्पुत्रराज्यभ्रंश -परिहारकथनार्थमित्यर्थः । सपत्निवृद्धाविति । ङ्यापोरिति ह्रस्वः । या त्वं सपत्निवृद्धौ प्रदेयं पारितोषिकं दातुमिच्छसि सा त्वं नावबुध्यस इत्यन्वयः॥26॥

ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्। देशान्तरं नाययिता लोकान्तरमथापि वा॥2.8.27॥

असावत्यन्तनिर्भग्न इत्युक्तं विवृणोति—ध्रुवमित्यादिना ॥27॥

बाल एव तु मातुल्यं भरतो नायितस्त्वया। सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्विव॥2.8.28॥

रामकर्तृकं भाव्यनिष्टं प्रदर्श्य कैकेयीकृतमप्यनर्थं दर्शयति—बाल इति । मातुल्यं मातुलसम्बन्धि–गृहमित्यर्थः नायितो हि प्रापितः खलु अनेन का हानिरित्याशङ्क्य हाँइमेव दर्शयति—सन्निकर्षादिति । स्थावरेष्वपि वृक्षगुल्मादिस्थावरेष्वपि सन्निकर्षाच्च अत्यन्तसमीपावस्थानाच्च सौहार्दं जायते अन्योन्यसंश्लेषरूपः सुहृद्भावो जायते राज्ञो रामभरतादिषु किमुत, तादृश– सन्निकर्षस्त्वया विघटित इति भावः॥28॥

भरतानृवशात्सोपि शत्रुघ्नस्तत्समं गतः। लक्ष्मणो हि यथा रामं तथायं भरतं गतः॥2.8.29॥

भरतस्यासन्निधानेपि शत्रुघ्नसन्निधाने भरते प्रीतिः स्यात्तदपि नास्तीत्याह—भरतस्यापीति । अनुवशः विधेयः समं भरतेन सह अनुवशत्वमुपपादयति—लक्ष्मणो हीति । हि यस्मात् रामं लक्ष्मण इवासौ शत्रुघ्नो भरतं गतः आश्रितः॥29॥

श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीवनैः। सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात्॥2.8.30॥

स्थावरेष्वपीत्युक्तमुपपादयति—श्रूयते हीति । वनजीविभिः वनोद्भूतकाष्ठजीविभिः छेत्तव्यः प्राप्तच्छेदनकालः कश्चिद्द्रुमः तस्माच्छेदनरूपात्परमाद्भयादिषीकाभिः इषीकाकण्टकबहुलगुल्मैः सन्निकर्षात् परितः परिवारणरूपात् मोचित इति श्रूयते हि परम्परयेति शेषः । स्वयं नित्यान्तःपुरवर्तित्वेन तत्साक्षात्काराभावात् श्रूयत इत्युक्तिः॥30॥

गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः। अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्॥2.8.31॥

तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति। रामस्तु भरते पापं कुर्यादेव न संशयः॥2.8.32॥

गोप्तेत्यादि । पापं वधम्॥31,32॥

तस्माद्राजगृहादेव वनं गच्छतु राघवः। एतद्धि रोचते मह्यं भृशं चापि हितं तव॥2.8.33॥

तस्मादिति । तस्मात् पापकरणाद्धेतो राजगृहात् केकयराजगृहात् न त्विहागत्य मर्तव्यमिति भावः॥33॥

एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति। यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति॥2.8.34॥

एवमिति । धर्मात् पित्रनुमतिरूपात् भरतो राज्यं यद्यवाप्स्यति एवं चेत्ते ज्ञातिपक्षस्य बन्धुवर्गस्य श्रेयश्चापि भविष्यति॥34॥

स ते सुखोचितो बालो रामस्य सहजो रिपुः। समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे॥2.8.35॥

राज्यानवाप्तावनिष्टमाह—स इति । सहजो रिपुः सपत्नीपुत्रत्वात्सहजः शत्रुः ते स बालः भरतः रामस्य वशे कथं जीविष्यति॥35॥

अभिद्रुतमिवारण्ये सिंहेन गजयूथम्। प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि॥2.8.36॥

एवमनर्थपौष्कल्ये तत्परिहाराय कर्तव्यमाह—अभिद्रुतमिति । प्रच्छाद्यमानमभिभूयमानम्॥36॥

दर्पान्निराकृत पूर्वं त्वया सौभाग्यवत्तया। राममाता सपत्नी ते कथं वैरं न यापयेत्॥2.8.37॥

दर्पादिति ।कथं वैरं न यातयेत् वैरायातनं वैरशुद्धिः तां त्वयि दास्यापादनेन सम्पादयेदित्यर्थः॥37॥

यदा च रामः पृथिवीमवाप्स्यते प्रभूतरत्नाकरशैलसम्युताम् । तदा गमिष्यस्यशुभं पराभवं सहैव दीनाभरतेन भामिनि॥2.8.38॥

उपसंहरति—यदेत्यादिना ॥38॥ यदा हि रामः पृतिवीमवाप्स्यते ध्रुवं प्रणष्टो भरतो भविष्यति।                          अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चैवास्य विवासकारणम्॥2.8.39॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्येयोध्याकाण्डे अष्टमः सर्गः ।

कैकेय्यनर्थमुक्त्वाभरतानर्थमाह—यदा हीति । राज्यं राज्यकारणं परस्य रामस्य ॥39॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्यानेयोध्याकाण्डव्याख्याने अष्टमः   सर्गः॥ 8॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.