23 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे

त्रयोविंश: सर्ग:

इति ब्रुवति रामे तु लक्ष्मणो ऽधश्शिरा मुहु: ।

श्रुत्वा मध्यं जगामेव मनसा दु:खहर्षयो: ।। 2.23.1 ।।

पूर्वं दैवस्य प्रबलत्वेन राज्यविपर्यये न संताप: कार्य: । धर्मस्य सर्वश्रेयस्साधनत्वात् तन्मूलभूते । पितृवचनकरणसत्ये अवश्यं कर्त्तव्ये मातृवचनं च पश्चात्तनत्वात्पश्चात्पालनीयमित्येतावत् सयुक्तिकमुपपादितम् । तत्र पौरुषमेव बलं बलीय: । दैवबलं तु दुर्बलानुसरणीयम्, धर्मश्चार्थकामविरोधेन कर्त्तव्य इति पूर्वपक्षं पूर्वं संग्रहेण लक्ष्मणवाक्येनोक्तं पुनस्तन्मुखेन प्रपञ्चयन् संग्रहेण सिद्धान्तं च दर्शयति–इतीत्यादीना । रामे मुहु: ब्रुवति सति, लक्ष्मण: स्वानभ्युपगमसूचनायाधश्शिरास्सन् श्रुत्वा दु:खहर्षयोर्मध्यं धर्मे स्थिरो ऽभूदिति हर्षं राज्यं त्यक्ष्यतीति दु:खं च मनसा जगाम न तु वाचा प्रतिपादितवान् । इवशब्देनास्थिरत्वमुच्यते । उत्तरक्षणे माध्यस्थ्यत्यागस्य वक्ष्यमाणत्वात् ।। 2.23.1 ।।

तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ: ।

निशश्वास महासर्पो बिलस्थ इव रोषित: ।। 2.23.2 ।।

तदेति । तुशब्देन पूर्वावस्थातो विलक्षणावस्था सूच्यते । भ्रुवोर्मध्ये ललाटे भ्रुकुटीं कृत्वेत्यर्थ: । बिलस्थ: पेटिकाबिलस्थ: न तु वल्मीकस्थ: । तदानीं रोषासम्भवात् ।। 2.23.2 ।।

तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा ।

बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ।। 2.23.3 ।।

तस्येति । दुष्प्रतिवीक्षम् अभिमुखतया दुर्निरीक्षं तस्य मुखम् ।। 2.23.3 ।।

अग्रहस्तं विधुन्वंस्तु हस्तिहस्तमिवात्मन: ।

तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ।।

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् ।। 2.23.4 ।।

क्रोधविकारं दर्शयति– अग्रहस्तमित्यादिसार्द्धश्लोक: । अग्रं हस्तस्य अग्रहस्त: । एकदेशसमाप्त: । पूर्वापरादिव्यतिरिक्तस्थलेपि क्वचिदस्ति । अग्रं चासौ हस्तश्च अग्रहस्त: । “हस्तशब्दो हस्तावयवे उपचर्यते” इति वामन: । शरीरे उरसि, अध इत्यर्थ: । यद्वा शिरोधराम् शरीरे तिर्यगूर्ध्वं चकारादधश्च पातयित्वा क्रोधातिशयेन विविधं शिरोविधूननं कृत्वेत्यर्थ: । अग्राक्ष्णा कटाक्षेण तिर्यग्वीक्षमाणस्सन् अब्रवीत् ।। 2.23.4 ।।

अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् ।

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ।। 2.23.5 ।।

अस्थान इति । धर्मदोषप्रसङ्गेन पितृवचनपरिपालनरूपधर्महानिप्रसक्त्या । लोकस्य अनतिशङ्कया अतिशङ्कापरिहाराय मया ऽननुष्ठिते लोको धर्मं त्यजतीति शङ्कापरिहाराय चेत्यर्थ: । एवंविधकार्यद्वयार्थं यस्य प्रसिद्धस्य ते जातो ऽयं सुमहान् सम्भ्रम: वनगमनत्वरा, अस्थाने अनवकाशे अयुक्त इत्यर्थ: । “अवकाशे स्थितौ स्थानम्” इत्यमर: ।। 2.23.5 ।।

कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति ।

यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ ।। 2.23.6 ।।

तथात्वमेवोपपादयति–कथमित्यादिना । हे शौण्डीर समर्थ दैवमपि निराकर्त्तुं क्षमेत्यर्थ: । क्षत्र्रियर्षभ क्षत्र्रियश्रेष्ठ त्वं अशौण्डीरमशूरम् एतत् दैवं यथा समर्थं वदसि एवमसम्भ्रान्तस्त्वद्विध: कथं वक्तुमर्हति ? न कथमपि । अशूर: संभ्रान्त: क्षत्र्रबन्धुरेवासमर्थं दैवमनुसर्तुमर्हतीत्यर्थ: । अस्थान इत्यादिश्लोकद्वयस्यैवं वार्थ:– धर्महानिप्रसक्त्या लोस्यानतिशङ्कया आनति: पूजा, तद्विषये शङ्कया लोको मामधर्मिष्ठ इति न पूजयेदितिशङ्कयेत्यर्थ: । यस्य ते अयुक्त: सुमहान् सम्भ्रमो भ्रान्ति: जात: धर्महानिर्लोकानत्यभावो वा सर्वातिशायिनस्ते किं करिष्यतीति भाव: । भ्रमसद्भावं व्यतिरेकमुखेन दृढयति–कथमिति ।। 2.23.6 ।।

किन्नाम कृपणं दैवमशक्तमभिशंससि ।

पापयोस्ते कथं नाम तयो: शङ्का न विद्यते ।। 2.23.7 ।।

दैवालम्बनस्य भ्रमत्वमुपपादयति–किमिति । कृपणं “बुद्धिपौरुषहीनानां जीविकेति बृहस्पति:” इत्युक्तरीत्या दुर्बुलैकपरिग्राह्यतया शोच्यम् । अशक्तं शक्तिहीनं पौरुषं तिरस्कृत्य कार्यकरणाक्षमम् । दैवं किन्नाम अभिशंससि अभिष्टौषि । अशक्तत्वादेव न कार्यानुमयो दैवसद्भाव: । असद्भावादेव तदवलम्बनं ते भ्रम इत्यर्थ: । एवं दैवकृतस्यानतिलङ्घनीयत्वं परिहृतम्, पितृवाक्यपरिपालनरूपधर्मदोषप्रसङ्गं परिहरति पापयोरिति । पापयो: कैकेयीदशरथयोर्विषये । ते शङ्का पापित्वशङ्का कथं नाम न विद्यते पापिनौतौ त्वयि पापं कर्तुमिच्छत:, अतस्तद्वचनाकरणे न धर्महानिरिति भाव: ।। 2.23.7 ।।

सन्ति धर्मोपधा: श्लक्ष्णा धर्मात्मन् किं न बुध्यसे ।

तयो: सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतो: ।। 2.23.8 ।।

ननु धर्मिष्ठयोस्तयो: कथं पापित्वशङ्केत्यत्राह–सन्तीति । धर्म: उपधा व्याजो येषां ते धर्मोपधा: । श्लक्ष्णा: धर्माचरणकञ्चुकेन स्वदोषपिधान च तुरा:, सन्ति लोक इति शेष: । हे धर्मात्मन् धर्मैकप्रवणस्वभाव शाठ्याद्गूढविप्रियकारित्वात् । स्वार्थम् अभिषेकरूपमस्मत्प्रयोजनं । परिजिहीर्षतो: परिहर्तुमिच्छतो: तयो: कैकेयीदशरथयो: सुचरितं सुष्ठु मन्त्रितं किं न बुध्यसे ।। 2.23.8 ।।

यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ।

तयो: प्रागेव दत्तश्च स्याद्वर: प्रकृतश्च स: ।। 2.23.9 ।।

विपर्यये ऽनिष्टं प्रसञ्जयति–यदीति । हे राघव प्रागेव अभिषेकात्पूर्वमेव । एवम् उक्तप्रकारेण । तयो: कैकेयीदशरथयो: । व्यवसितं निश्चय: । यदि न स्यात् तदा प्रकृत: पूर्वमेव प्रसक्त: स वरश्च प्रागेव दत्त: स्यात् । किंचेति चार्थ: । अयंभाव:– भरतायावश्यं राज्यं देयम्, रामस्य ज्येष्ठत्वेन तद्विषयो ऽभिषेक आरभ्यते तदानीं त्वया वरद्वयं प्रष्टव्यं तद्व्याजेन रामो विवास्यते भरतोभिषिच्यत इति कैकेयीदशरथाभ्यां सङ्केतितम् । अन्यथा सा वरद्वयं किमेतावत्पर्यन्तं च याचेत, अयाचितमपि तत् नीतिज्ञो राजा वा कुतो न पूर्वमेव परिहरेदिति ।। 2.23.9 ।।

लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ।

नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ।। 2.23.10 ।।

अस्तु तथा, तत: किमित्यत्राह–लोकविद्विष्टमिति । लोकविद्विष्टं ज्येष्ठं परित्यज्य कनिष्ठस्याभिषेचनात् । लोकविद्वेषविषयमित्यारम्भक्रियाविशेषणम् । मे तत्र असहनविषये क्षन्तुमर्हसि ।। 2.23.10 ।।

येनेयमागता द्वैधं तव बुद्धिर्महामते ।

स हि धर्मो मम द्वेष्य: प्रसङ्गाद्यस्य मुह्यसि ।। 2.23.11 ।।

यथाकथञ्चित् पितृवचनं कर्त्तव्यमेवेति मन्वानं रामं प्रत्याह–येनेति । इयं ते बुद्धि: येन पितृवचनपरिपालनरूपधर्मेण । द्वैधं भेदम् । आगता प्राप्ता । नाभिषच्ये वनं प्रवेक्ष्यामीति । यस्य प्रसङ्गात्प्रस्तावात् मुह्यसि अकरणे प्रत्यवाय: स्यादिति मोहं प्राप्नोषि, स धर्मो मम द्वेष्य: ।। 2.23.11 ।।

कथं त्वं कर्मणा शक्त: कैकेयीवशवर्त्तिन: ।

करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ।। 2.23.12 ।।

मोहं विशदयति–कथमिति । कर्मणा पौरुषकर्मणा, शक्त: प्रतीकारसमर्थ इत्यर्थ: । त्वं कैकेयीवशवर्तित्वादेवाधर्मिष्ठं विगर्हितं च वाक्यं कथं केनप्रकारेण मोहं विना करिष्यसि ।। 2.23.12 ।।

यद्ययं किल्बिषाद्भेद: कृतो ऽप्येवं न गृह्यते ।

जायते तत्र मे दु:खं धर्मसङ्गश्च गर्हित: ।। 2.23.13 ।।

[तवायं धर्मसंयोगो लोकस्यास्य विगर्हित: ।]

त्वन्मोहादेव मे दु:खमित्याह–यदीति । अयं भेद: अभिषेकविघातात्मा विपर्यास: । किल्बिषात् मृषावरकल्पनात् । कृतोपि एवं किल्बिषकल्पित इति यदि न गृह्यते । तत्राग्रहणनिमित्ते । मे दु:खं जायते । धर्मसङ्गश्च एतादृशधर्मसङ्गश्च विगर्हित: ।। 2.23.13 ।।

मनसापि कथं कामं कुर्यास्त्वं कामवृत्तयो: ।

तयोस्त्वहितयोर्नित्यं शत्र्वो: पित्रभिधानयो: ।। 2.23.14 ।।

तस्मात् मनसापि तन्न कर्त्तव्यमित्याह–मनसेत्यादिना ।। 2.23.14 ।।

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।

तथाप्युपेक्षणीयं ते न मे तदपि रोचते ।। 2.23.15 ।।

मम विवासनं दैवकृतम् न तु कैकेयीकृतमिति पूर्वं रामोक्तमनूद्य परिहरति–यद्यपीत्यादिना । तयो: पित्रो: प्रतिपत्ति: अभिषेकविघटनविषया बुद्धि: । दैवी चापि दैवकृतैवेति ते मतम्, यद्यपि तथापि ते त्वया तत् उपेक्षणीयम् । तदपि दैवमपि मम न रोचते ।। 2.23.15 ।।

विक्लवो वीर्यहीनो य: स दैवमनुवर्त्तते ।

वीरा: सम्भावितात्मानो न दैवं पर्युपासते ।। 2.23.16 ।।

उपेक्षणीयतायां हेतुमाह–विक्लव इति । विक्लव: कातर: । वीर्यहीन इत्यस्य प्रतियोगितयोक्तं वीरा इति । विक्लव इत्यस्य प्रतियोगितयोक्तं संभावितात्मान इति । संभावित: सम्यक् प्रापित: दृढ इति यावत् । आत्मा मनो येषां ते तथा, धीरा इत्यर्थ: । नोपासते नाश्रयन्ति ।। 2.23.16 ।।

दैवं पुरुषकारेण य: समर्थ: प्रबाधितुम् ।

न दैवेन विपन्नार्थ: पुरुष: सो ऽवसीदति ।। 2.23.17 ।।

कुतो नाश्रयन्तीत्यपेक्षायां पौरुषवतो दैवेन प्रयोजनहान्यभावादित्याह–दैवमिति । पुरुषकारेण पुरुषबलेन । दैवं बाधितुम् अतिक्रम्य वर्तितुम् य: समर्थ: स दैवेन विपन्नार्थ: विहतप्रयोजन: सन् नावसीदति न क्लिश्यति ।। 2.23.17 ।।

द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च ।

दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ।। 2.23.18 ।।

पुरुषकारापेक्षया दैवस्य दुर्बलत्वे प्रत्यक्षं प्रमाणयति–द्रक्ष्यन्तीति । पौरुषं सामर्थ्यम् । व्यक्ति: प्रबलदुर्बलविवेक: । व्यक्ता स्फुटा भविष्यति ।। 2.23.18 ।।

अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जना: ।

यद्दैवादाहतं ते ऽद्य दृष्टं राज्याभिषेचनम् ।। 2.23.19 ।।

तदेव स्पष्टमाह–अद्येति । यद्दैवात् यस्माद्दैवात् । आहतं विघ्नितम् । ते राज्याभिषेचनं दृष्टं तद्दैवं मत्पौरुषहतं द्रक्ष्यन्ति ।। 2.23.19 ।।

अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् ।

प्रधावितमहं दैवं पौरुषेण निवर्त्तये ।। 2.23.20 ।।

अत्यङ्कुशमिति । अत्यङ्कुशम् अतिक्रान्ताङ्कुशव्यापारम् । उद्दामं छन्ननिगलम् । मदबलोद्धतं मदबलाभ्यां गर्विष्ठम् । प्रधावितं दुर्निवारं स्वच्छन्दगमनं गजमिव दुर्निवारत्वेन त्वदभिमतं दैवं पौरुषेण निवर्तये ।। 2.23.20 ।।

लोकपालास्समस्तास्ते नाद्य रामाभिषेचनम् ।

न च कृत्स्नास्त्रयो लोका विहन्यु: किं पुन: पिता ।। 2.23.21 ।।

लोकपाला इति । ते प्रसिद्धा: । हे राम ते तवाभिषेचनमिति वा । न विहन्यु: न विहन्तुं शक्ता: । कृत्स्ना: अन्यूना: ।। 2.23.21 ।।

यैर्विवासस्तवारण्ये मिथो राजन् समर्थित: ।

अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ।। 2.23.22 ।।

राजत्वं सिद्धवत्कृत्याह–राजन्निति । मिथ: रहसि । “मिथोन्योन्यरहस्ययो:” इति वैजयन्ती । तथा त्वां प्रत्युक्तप्रकारेण ।। 2.23.22 ।।

अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव ।

अभिषेकविघातेन पुत्रराज्याय वर्तते ।। 2.23.23 ।।

अहमिति । तत्तस्मात् या तवाभिषेकविघातेन द्वारेण पुत्रराज्याय वर्तते प्रवर्तते । तस्या: पितुश्च आशाम् अतितृष्णाम् “आशा दिगतितृष्णयो:” इति वैजयन्ती ।। 2.23.23 ।।

मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ।

प्रभविष्यति दु:खाय यथोग्रं पौरुषं मम ।। 2.23.24 ।।

मद्बलेनेति । मद्बलेन विरुद्धाय जनाय । ममोग्रं पौरुषं दु:खाय यथा प्रभविष्यति तथा दैवबलं न स्यात् सुखाय न भवेत् ।। 2.23.24 ।।

ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् ।

आर्यपुत्रा: करिष्यन्ति वनवासं गते त्वयि ।। 2.23.25 ।।

न कदाचिदपि भरतस्य राज्यप्राप्तिरस्तीत्याह–ऊर्ध्वमिति । ऊर्ध्वमित्यस्य विवरणं वर्षसहस्रान्त इति । प्रजापाल्यं प्रजापालनम् । स्वार्थे यत्प्रत्यय: । ऊर्ध्वं वर्षसहस्रान्ते त्वयि वनं गते सति वानप्रस्थाश्रमस्थे सति अनन्तरं प्रजापाल्यम् आर्यस्य ते पुत्रा: करिष्यन्ति ।। 2.23.25 ।।

पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते ।

प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ।। 2.23.26 ।।

मदुक्त एव वनवास: पूर्वसम्मत इत्याह–पूर्वेति । पुत्रेषु प्रजा: पुत्रवत्परिपालने परिपालननिमित्तं निक्षिप्य । पूर्वराजर्षिवृत्त्या तदाचारेण वनवासो विधीयते ।। 2.23.26 ।।

स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ।

नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ।। 2.23.27 ।।

प्रतिजाने च ते वीर माभूवं वीरलोकभाक् ।

राज्यं च तव रक्षेयमहं वेलेव सागरम् ।। 2.23.28 ।।

स चेत्यादिश्लोकद्वयमेकान्वयम् । हे राम स त्वं राजनि दशरथे एवमनेकाग्रे चलचित्ते अव्यवस्थितचित्ते सति । राज्यविभ्रमशङ्कया राज्यस्य विविधचलनशङ्कया । आत्मनि राज्यं नेच्छसि चेदहं तव राज्यं च रक्षेयम् । कथमिव ? वेला सागरमिव । नोचेद्वीरलोकभाक् माभूवम् । ते तुभ्यं प्रतिजाने च ।। 2.23.2728 ।।

मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ।

अहमेको महीपालानलं वारयितुं बलात् ।। 2.23.29 ।।

मङ्गलैरिति । मङ्गलै: मङ्गलद्रव्ययुक्तैर्जलै: । अभिषिञ्चस्व आत्मानं वसिष्ठादिभिरिति शेष: । तत्र अभिषेककर्मणि । व्यापृतो भव, व्यासक्तचित्तोभवेत्यर्थ: । अलं पर्याप्त: । वारयितुं निवारयितुम् ।। 2.23.29 ।।

न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ।

नासिराबन्धनार्थाय न शरास्तम्भहेतव: ।

अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ।। 2.23.30 ।।

न शोभार्थावित्यादिसार्द्धश्लोकमेकं वाक्यम् । नेति । आबन्धनार्थाय आपाततो वीरभूषणतया कट्यां बन्धनरूपप्रयोजनायेत्यर्थ: । स्तम्भहेतव: केवलं लक्ष्यभूतस्तम्भहेतव: । तूण्यां स्थापनहेतव इति वा ।। 2.23.30 ।।

न चाहं कामये ऽत्यर्थं य: स्यात् शत्रुर्मतो मम ।

असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ।

प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ।। 2.23.31 ।।

न चाहमित्यादिसार्धश्लोक: । य: मम अत्यर्थं शत्रु: शातयिता । मत: स्यात्, परीक्षकैरिति शेष: । तमहं न कामये तस्य स्थितिं न सह इत्यर्थ: । किन्त्वसिना वज्रिणमपि शत्रुं न कल्पये न स्थापयामि, हन्मीत्यर्थ: । तीक्ष्णधारेण तीक्ष्णाग्रेण । विद्युच्चलितवर्चसा विद्युदिव चलितं निर्गतं वर्च: स्फुलिङ्गरूपं यस्य तेन ।। 2.23.31 ।।

खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे ।

हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ।। 2.23.32 ।।

खड्गेति । खड्गकृतमर्दनेन चूर्णीकृतैर्गहना काननमिव निरन्तरा अत एव दुश्चरा संचारायोग्या च भविता भविष्यति ।। 2.23.32 ।।

खड्गधाराहता मे ऽद्य दीप्यमाना इवाद्रय: ।

पतिष्यन्ति द्विपा भूमौ मेधा इव सविद्युत: ।। 2.23.33 ।।

खड्गधारेति । मे खड्गधारया खड्गकोट्या हता: अत एव सविस्फुलिङ्गत्वाद्दीप्यमाना: ज्वलिता: अद्रय इव सविद्युतो मेघा इव च स्थिता: द्विपा: शत्रुगजा: । भूमौ पतिष्यन्ति ।। 2.23.33 ।।

बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ।

कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ।। 2.23.34 ।।

बद्धेति । गोधा ज्याघातवारणम् । “गोधा तलं ज्याघातवारणे” इत्यमर: । गोधारूपाङ्गुलिरक्षककवचवति मयि स्थिते सति पुरुषाणां मध्ये कश्चित्कथं पुरुषमानी शूरमानी स्यात् । सर्वे स्त्रीप्राया भविष्यन्तीत्यर्थ: ।। 2.23.34 ।।

बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान् ।

विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु ।। 2.23.35 ।।

बहुभिरिति । अहं बहुभिर्बाणैरेकं शूरम् अत्यस्यन् प्रकर्षेण क्षिपन् । “प्रकर्षे लङ्घनेप्यति” इत्यमर: । एकेन बाणेन बहून् क्षुद्रान् अत्यस्यन् अनेन प्रकारेण नृवाजिगजानां मर्मसु मर्मस्थलेषु । बाणान्विनियोक्ष्यामि विसर्जयिष्यामि । अत: कथमेको बहून् हनिष्यतीति न चिन्तनीयमिति भाव: ।। 2.23.35 ।।

अद्य मे ऽस्त्रप्रभावस्य प्रभाव: प्रभविष्यति ।

राज्ञश्चाप्रभुतां कर्त्तुं प्रभुत्वं च तव प्रभो ।। 2.23.36 ।।

अद्येति । अस्त्रप्रभावस्य अस्त्रमाहात्म्यस्य । प्रभाव: प्रताप: “प्रतापमाहात्म्ययो: प्रभाव: स्यात्” इति वैजयन्ती ।। 2.23.36 ।।

अद्य चन्दनसारस्य केयुरामोक्षणस्य च ।

वसूनां च विमोक्षस्य सुहृदां पालनस्य च ।। 2.23.37 ।।

अनुरूपाविमौ बाहू राम कर्म करिष्यत: ।

अभिषेचनविघ्नस्य कर्तृ़णां ते निवारणे ।। 2.23.38 ।।

अद्येत्यादिश्लोकद्वयमेकं वाक्यम् । चन्दनसारस्य चन्दनपङ्कस्य । केयूरामोक्षणस्य अङ्गदधारणस्य । “केयूरमङ्गदम्” इत्यमर: । वसूनां धनानां विमोक्षस्य त्यागस्य । सुहृदां पालनस्य शत्रुभ्यो रक्षणस्य च । अनुरूपौ राजपुत्रत्वेन योग्यावपि इमौ बाहू । हे रामा तत्सर्वं विहाय ते अभिषेचनविघ्नस्य कर्तृ़णां निवारणे विषये कर्म करिष्यत: ।। 2.23.3738 ।।

ब्रवीहि को ऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयश: सुहृज्जनै: ।

यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किङ्कर: ।। 2.23.39 ।।

त्वदाज्ञात्वेकावश्यम्भाविनीत्याह–ब्रवीहीति । ब्रवीहि ब्रूहि । वियुज्यतां मया वियोज्यताम् ।। 2.23.39 ।।

विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्द्धन: ।

उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेव हि सौम्य सत्पथे ।। 2.23.40 ।।

एवं विस्तरेण पूर्वपक्षमुपन्यस्तवन्तं लक्ष्मणं मतिपूर्वं विस्तृतं सिद्धान्तं सङ्ग्रहेणाह–विमृज्येति । बाष्पं रामासंपतिजम् । राघववंशवर्द्धन: रघो: सम्बन्धी राघव: । राघवश्चासौ वंशश्चेति विशेषणसमास: । सत्पथे पित्र्ये वचने व्यवस्थितं निश्चलं मां निबोध जानीहि । सर्वथाहं पितृवचनं न त्यजामीत्यर्थ: । “जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभि: पुत्रस्य पुत्रता ।।” इतिस्मरणादिति भाव: ।। 2.23.40 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोविंश: सर्ग: ।। 23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रयोविंश: सर्ग: ।। 23 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.