87 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ताशीतितम: सर्ग:

गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।

ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ।। 2.87.1 ।।

गुहस्येति । यत्र तत्रैव यत्र क्षणे अप्रियं श्रुतं तत्रैवेत्यर्थ: । यद्वा यत्र विषये अप्रियं श्रुतं तत्रैव ध्यानं जगाम स्वाभिलषितकार्य्यसङ्कटं जातमिति चिन्तापारवश्यं प्राप्त इत्यर्थ: ।। 2.87.1 ।।

सुकुमारो महासत्त्व: सिंहस्कन्धो महाभुज: ।

पुण्डरीकविशालाक्षस्तरुण: प्रियदर्शन: ।। 2.87.2 ।।

प्रत्याश्वस्य मुहूर्त्तं तु कालं परमदुर्मना: ।

पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विप: ।। 2.87.3 ।।

सुकुमारइत्यादिश्लोकद्वयमेकान्वयम् । प्रत्याश्वस्य मुहूर्त्तं कालं परमदुर्मना: सन् सहसा पपात । ससादेति वा पाठ: । सुकुमार इत्यादिना तदवस्थानर्हत्वमुच्यते ।। 2.87.23 ।।

तदवस्थं तु भरतं शत्रुघ्नो ऽनन्तरस्थित: ।

परिष्वज्य रुरोदोच्चैर्विसंज्ञ: शोककर्शित: ।। 2.87.4 ।।

तत: सर्वा: समापेतुर्मातरो भरतस्य ता: ।

उपवासकृशा दीना भर्त्तुर्व्यसनकर्शिता: ।। 2.87.5 ।।

तदवस्थमिति । अनन्तरस्थित: निरन्तरं समीपे स्थित: ।। 2.87.45 ।।

ताश्च तं पतितं भूमौ रुदन्त्य: पर्यवारयन् ।

कौसल्या त्वनुसूत्यैनं दुर्मना: परिषस्वजे ।। 2.87.6 ।।

ता इति । अनुसृत्य समीपं प्राप्य ।। 2.87.6 ।।

वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।

परिपप्रच्छ भरतं रुदन्ती शोकलालसा ।। 2.87.7 ।।

वत्सलेति । उपगूह्य परिष्वज्य ।। 2.87.7 ।।

पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते ।

अद्य राजकुलस्यास्य त्वदधीनं च जीवितम् ।। 2.87.8 ।।

त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।

वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य न: ।। 2.87.9 ।।

पुत्रेति । नहि भरतस्य व्याधिश्चातुर्थिक:, अपितु रामविरह एव । रामविरह: ते शरीरं बाधते कच्चिदित्यर्थ: । अद्येति रामो वनं गत: चक्रवर्त्ती तु संस्थित: । अतस्त्वमेवेदानीमस्माकं रक्षक इति नार्थ:, किन्तु रामे भवतो मुखवैवर्ण्यं दृष्ट्वा न पुनरनागतो भवेत्, अवश्यमागमिष्यतीत्येतदवेक्ष्य वयं जीवाम: । भवान्नास्तीति श्रुतं चेत् क इमां दिशमवलोकयेत् ।। 2.87.89 ।।

कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् ।

पुत्रे वा ह्येकपुत्राया: सहभार्ये वनं गते ।। 2.87.10 ।।

कच्चिदिति । लक्ष्मणे विषये ते त्वया एकपुत्राया:, ममेति शेष: ।। 2.87.10 ।।

स मुहूर्त्तं समाश्वस्य रुदन्नेव महायशा: ।

कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ।। 2.87.11 ।।

भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मण: ।

अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ।। 2.87.12 ।।

स इति । परिसान्त्व्य त्वच्छङ्कितं किमपि न भवेदिति वदन्, परिसान्त्व्येत्यर्थ: ।। 2.87.1112 ।।

सो ऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुह: ।

यद्विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ ।। 2.87.13 ।।

स इति । गुह: हृष्ट: रामवृत्तान्तकीर्त्तनस्यावकाशो लब्ध इति सञ्जातहर्ष: सन् । रामे यद्विधं यादृशम् उपचारादिकम् । प्रतिपेदे अकरोदिति यावत् । तदब्रवीत् । चकारेण रामकृतं समुच्चीयते ।। 2.87.13 ।।

अन्नमुच्चावचं भक्षा: फलानि विविधानि च ।

रामा याम्यवहारार्थं बहु चोपहृतं मया ।। 2.87.14 ।।

अन्नमिति । उच्चावचं नानाविधमित्यर्थ: । भक्षा: भक्षणीयानि अपूपादीनि । अभ्यवहारार्थं भोजनार्थं बहु चेति अन्यच्च बहुचोष्यलेह्यादिकमुपाहृतम् ।। 2.87.14 ।।

तत्सर्वं प्रत्यनुज्ञासीद्राम: सत्यपराक्रम: ।

न तु तत्प्रत्यगृह्णात् स क्षत्रधर्ममनुस्मरन् ।। 2.87.15 ।।

तत्सर्वमिति । राम: तन्न प्रत्यगृह्णात्, किन्तु तत्सर्वं प्रत्यनुज्ञासीत् प्रत्यन्वज्ञासीत्, पुनर्नीयतामित्यनुज्ञातवान् । क्षत्त्रधर्मं दानमेव क्षत्त्रधर्म: न त्वादानमिति । अत्र हीनजातिपरिग्रहत्वात्तत्प्रत्याख्यानम् ऋषिभ्यस्तु स्वीकरिष्यतीत्याहु: ।। 2.87.15 ।।

न ह्यस्माभि: प्रतिग्राह्यं सखे देयं तु सर्वदा ।

इति तेन वयं राजन्ननुनीता महात्मना ।। 2.87.16 ।।

प्रत्यनुज्ञाने हेतुमाह–नेत्यादिना । इत्यनुनीता वयमित्यनेन स्वाङ्घ्रिभक्ताग्रेसरगुहसमर्पितफलादेर्भक्तिपूतत्वेन शबरीविदुरादिन्यायेन परमभागवततया स्वीकार्यत्वेपि स्वप्रियतमपितृमातृप्रमुखबहुजनविश्लेषदु:खप्राग्भारानुभवजनितवैमनस्येन पुण्यनदीतीरे उपवासचिकीर्षया च गुहसमर्पितं न प्रतिजग्राह राम इति च गुहेनापि विदितमिति गम्यते ।। 2.87.16 ।।

लक्ष्मणेन समानीतं पीत्वा वारि महायशा: ।

औपवास्यं तदा ऽकार्षीद्राघव: सह सीतया ।। 2.87.17 ।।

लक्ष्मणेनेति । औपवास्यम् । उपवासम् । स्वार्थे ष्यञ् ।। 2.87.17 ।।

ततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा ।

वाग्यतास्ते त्रय: सन्ध्यां समुपासत संहिता: ।। 2.87.18 ।।

तत इति । जलशेषेण रामपीतजलशेषेण अकरोत्, पानमिति शेष: । वाग्यता: नियतवाच: । सीताया अपि सन्ध्यायां ध्यानजपादिकमस्त्येव । संहिता: समाहिता: । ननु पूर्वं पुरोवादे “ततश्चीरोत्तरासङ्ग: सन्ध्यामन्वास्य पश्चिमाम् । जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ।।” इत्युक्तम्। कथमत्रानुवादे प्रथमं जलादानं पश्चात्सन्ध्योपासनं चोच्यते ? सत्यम् तथैव क्रम:। इह तु गुहानीतान्नानङ्गीकारे किं भुक्तवान् राम इत्याकाङ्क्षायां लक्ष्मणेन यद्वार्यानीतं तत्पीतमिति प्रसङ्गसङ्गत्या जलपानं प्रथममुक्त्वाऽथ सन्ध्योपासनमुक्तमिति न दोष: ।। 2.87.18 ।।

सौमित्रिस्तु तत: पश्चादकरोत् स्वास्तरं शुभम् ।

स्वयमानीय बर्हीषि क्षिप्रं राघवकारणात् ।। 2.87.19 ।।

सौमित्रिरिति । तत: पश्चात् वारिपानानन्तरम् । स्वयं बर्हीषि कुशान् “बर्हिर्नाग्नौ न ना कुशे” इति वैजयन्ती । क्षिप्रमानीय राघवकारणात् राघवनिमित्तम् । शुभं पवित्रं स्वास्तरं सुष्ठु आस्तीर्णम्, शयनमिति यावत् । अकरोत् कृतवान् ।। 2.87.19 ।।

तस्मिन् समाविशद्राम: स्वास्तरे सह सीतया ।

प्रक्षाल्य च तयो: पादावपचक्राम लक्ष्मण: ।। 2.87.20 ।।

तस्मिन्निति । पादौ प्रक्षाल्य गङ्गातीरगमनकृतपङ्कशोधनं कृत्वेत्यर्थ: । इदं च रामस्य स्वहस्ताभ्यां सीतायास्तूदकप्रदानेनेति बोध्यम् । अपचक्राम शयनकाले समीपवर्त्तनस्यानुचितत्वात् दूरे स्थित: ।। 2.87.20 ।।

एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।

यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ।। 2.87.21 ।।

एतदिति । शयितौ “गत्यर्थाकर्मकश्लिषशीङ् –” इत्यादिना कर्त्तरि निष्ठा ।। 2.87.21 ।।

नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरै: सुपूर्णाविषुधी परन्तप: ।

महद्धनु: सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितो ऽस्य केवलम् ।। 2.87.22 ।।

नियम्येति । पृष्ठे पश्चाद्भागे । इषुधी तूणीरद्वयं नियम्य बद्ध्वा, शूराणां सव्यापसव्यप्रयोगार्थमिषुधिद्वयधारणमस्ति । तलाङ्गुलित्रवान् “तलं ज्याघातवारणम्” इत्यमर: । उपोह्य धृत्वा अस्य परितो ऽतिष्ठत्, सर्वतोरक्षणार्थं प्रदक्षिणं चचारेत्यर्थ: । निशां निशायाम् । अत्यन्तसंयोगे द्वितीया । केवलमित्यनेन शयननिद्राराहित्यं लक्ष्मणस्योच्यते ।। 2.87.22 ।।

ततस्त्वहं चोत्तमबाणचापधृत् स्थितो ऽभवं तत्र स यत्र लक्ष्मण: ।

अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ।। 2.87.23 ।।

तत इति । अहं चोत्तमबाणचापधृत् एको भ्राता नगरात् वनानि निरगमयत्, अयमपर: सुषुप्तिदशायां किमपि कुर्य्यादिति शङ्कया सज्जायुध: सन् यत्रयत्र स लक्ष्मण: स्थित: तत्रतत्र स्थितो ऽभवम्, प्रतिपदं तमनुसृतवानभवमित्यर्थ: । अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकै: मम परिकराश्च अयं वनचरो निषादजातीय: रामे किञ्चित्करिष्यति चेत् एनं च प्रहराम इति सावधाना मां प्रतिपदमन्वसरन्नित्यर्थ: । एवमस्थाने भयशङ्किभि: कृतम्, वस्तुत: स न केनचित् परिभाव्य इत्याह महेन्द्रकल्पमिति ।। 2.87.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ताशीतितम: सर्ग: ।। 87 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्ताशीतितम: सर्ग: ।। 87 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.