06 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

षष्ठः सर्गः ।   

वसिष्ठनियोगाद्रामः सीतया समं स्नानोपासनकुशसंस्तरशयनादिनियमं जग्राह। अन्येद्युश्च प्रातः प्रबोधितः सन्ध्योपासनादीनि न्यवर्तयद्ब्राह्मणाश्च पुन्याहवाचनं विदधुः।पौराः पुरमलङ्कृत्य दशरथं प्राशंसन्। रामाभिषेकदिदृक्षागतजनैरयोध्या पूर्णाभवत्। गते पुरोहिते रामः स्नातो नियतमानसः। सहपत्न्या विशालाक्ष्या नारायणमुपागमत्॥2.6.1॥

अथ रामस्याभिषेकसन्नाहं दर्शयति षष्ठे—गत इत्यादि । पुरोहिते गतइत्यसन्निधानकृतराज—सगुणनिमित्तकनास्तिक्यव्यावृत्तिः, स्नात इति कायशुद्धिः, नियतमानस इति मनःशुद्धिः, सहप्त्न्येतिश्रीरङ्गविग्रहानुभवसागरतरणस्य सहायोक्तिः “पत्युर्नो दीक्षसंयोगे” इति दीक्षानियमस्य पत्नीसहायत्वोक्तिश्च तृतीयया आराधनकाले सीताया उपकरणसमर्पणपरता व्यज्यते विशालाक्ष्येति रामविग्रहानुभवादपि श्रीरङ्गविग्रहस्य निरतिशयप्रियास्पदत्वेननिर्निमेषानुभव उक्तः विशालाक्ष्या नारायणमिति सीतानेत्रवागुरानाकृष्टतया सीताया अप्राधान्यं नारायणस्य स्वाभीप्सिततमत्वेन प्राधान्यं चोक्तम्। अत्र नारायण इति श्रीरङ्गनायक उच्यते उत्तरतर तस्यैव विभीषणाय दानोक्तिः॥1॥

प्रगृह्य शिरसा पात्रीं हविषो विधिवत्ततः। महते दैवतायाज्यं जुहाव ज्वलितानले॥2.6.2॥

प्रगृह्येति। शिरसा पात्रीं प्रगृह्येति “उपरि हि देवेभ्यो धारयति”इति श्रुतिरुपबृंहिता। महते दैवताय निरतिशयमहिमवते दैवताय “तं देवतानां परमं च दैवतम्” इति श्रुतेः नारायणायेत्यर्थः। नारायणमुपागमदित्युपक्रमात् देववाचित्वभ्रान्तिर्निरस्ता न च व्यस्तस्य विभिन्नविभक्त्यन्तस्यै- कपदत्वमेका वा शक्तिरस्ति महादेवशब्दस्याखण्डस्य शिवे शक्तावपि खण्डपदद्वयस्य प्रस्तुत—परदेवतावरुद्धस्याप्रस्तुतान्यदेवतावाचकत्वकल्पनमन्धतामिस्रनिपातकदुरितादृष्टं विना न शक्यते॥2॥

शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्।ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे॥2.6.3॥

वाग्यतः सह वैदेह्या भूत्वा नियतमानसः। श्रीईमत्यायतने विष्णोः शिश्ये नरवरात्मजः॥2.6.4॥

शेषमिति । आत्मनः प्रियमाशास्य श्रीरङ्गार्पितहविःशेषं स्वस्यात्यन्तप्रियत्वेनानुसन्धाय नारायण श्रीरङ्गनायकं ध्यायन् कुशसंस्तरे कुशमये शयनीये ‘शयनीये सप्ततन्तौ संस्तरः परिकीर्तितः’इति निघण्टुः।वैदेह्या सहेति उभयोरप्येकशय्यायां जितेन्द्रियत्वं ध्वनितम्। श्रीमति विमानं प्रणवाकारमित्याद्युक्तवेदत्रयसारभूतप्रणवाकारे “ऋचः समानि यजूषि सा हि श्रीरमृता सताम्”इति श्रुतेः विष्णोरायतने श्रीरङ्गधाम्नि शिश्ये शयनं कृतवान् नरवरात्मजः स्वस्य साक्षा –द्भगवदवतारत्वेपि श्रीरङ्गविग्रहार्चोपसर्जनभावः स्वावतारानुमतक्षत्रियधर्मानुगुणः॥3,4॥

एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः। अलङ्कारविधिं सम्यक्कारयामास वेश्मनः॥2.6.5॥     एकयामावशिष्टायामिति।अलङ्कारविधिं अलङ्कारविधानम्‘विधिर्विधाने दैवेsपि’इत्यमरः॥5॥

तत्र श्रुण्वन्सुखा वाचः सूतमागधबन्दिनाम्। पूर्वां सन्ध्यामुपासीनो जजाप सुसमाहितः॥2.6.6॥

तत्रेति । सूताः सुतकुलओत्पन्नाः पुण्यश्लोकदेवताकीर्तकाः मागधाः मगधदेशोत्पन्नाः वंशावलिकीर्तकाः बन्दिनः स्तुतिपाठकाः सन्ध्यां सन्ध्याधिदेवतां सूर्यमुपासीनः ध्यायन् यतमानसः नियतमनस्कः अनन्यचित्त इति यावत् जजाप गायत्रीमिति शेषः॥6॥

तुष्टावप्रणतश्चैव शिरसा मधुसूदनम्। विमलक्षौमसम्वीतो वाचयामास स द्विजान्॥2.6.7॥

तुष्टावेति । सन्ध्योपासनानन्तरं मधुसूदनं सूर्यान्तर्वर्तिनं नारायणं तुष्टाव “मित्रस्य-” इत्यादिनेति शेषः । शिरसा प्रणतः दण्डवत्प्रणतःविमलक्षौमसंवीत इत्यनेन नूतनवस्त्रपरिवृत्त्या प्रातर्गौणस्नानम्क्तं वाचयामास स्वस्तिवाचनं कारयामासेत्यर्थः॥7॥

तेषां पुण्याहघोषोथ गम्भीरमधुरस्तथा। अयोध्यां पूरयामास तूर्यघोषानुनादितः॥2.6.8॥

तेषामिति । तूर्यघोषानुनादितः तूर्यघोषानुबन्धिनादयुक्तः॥8॥

कृतोपवासं तु तदा वैदेह्या सह राघवम्। अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः॥2.6.9॥

कृतोपवासमिति । प्रमुदितः सन्तुष्टः अभूत्॥9॥

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्। प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्॥2.6.10॥

तत इति । पुरीं शोभयितुं चक्रे पुरशोभोत्पादनार्थं सम्मार्जनालेपनवितानमालिकाबन्धनकर्मादिक- मकरोदित्यर्थः॥10॥

सिताभ्रशिखराभेषुदेवतायतनेषु च। चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च॥2.6.11॥

नानापण्यसमृद्धेषु वणिजामापणेषु च। कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च॥2.6.12॥

सभासु चैव सर्वासु वृक्षेष्वालक्षितेषुच। ध्वजाः समुच्छ्रिताः साधु पताकाश्चाभवंस्तथा॥2.6.13॥

सिताभ्रशिखराभेष्वित्यादि । चैत्येषु बौद्धालयेषु अट्टालकेषु प्राकारोपरि युद्धार्थं परिकल्पित–चतुस्तम्भमण्ड्पष्वेति यावत्। आलक्षितेषु आसमन्ताल्लक्षितेषु समुन्नतत्वात् दूरादप्यक्षि– गोचरेष्वित्यर्थः । ध्वजाः सचिह्नाः पताकाः चिह्नरहिताः समुच्छ्रिताः बद्धाः॥11-13॥

नटनर्तकसङ्घानां गायकानां च गायताम्। मनःकर्णसुखा वाचः शुश्राव जनता ततः॥2.6.14॥

नटेति । नटाः नाटकाः अभिनयकर्तारः, नर्तकाः केवलाङ्गहारकृतः मनःकर्णसुखा ‘संश्रव मधुरं वाक्यम्’इत्युक्तरीत्या श्रवणमात्रेण सुखकराः पश्चान्मनसश्चाह्लादका इत्यर्थः । शुश्रुवुः जना इति शेषः॥14॥

रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। रामाभिषेके सम्प्राप्ते चत्वारेषु गृहेषु च॥2.6.15॥

बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः।  रामाभिषेकसम्युक्ताश्चक्रुरेव कथा मिथः॥2.6.16॥रामेति । मिथः अन्योन्यं ‘मिथोsन्योन्यम्’इत्यमरः । चत्वारेषु अङ्गणेषु गृहेषु स्त्रीभिः बहिरङ्गणेषु जनैश्च कथाश्चक्रुरिति रामभक्तावकृत्रिमत्वमुक्तम्॥15,16॥

कृतपुष्पोपहारश्च धूपगन्धाधिवासितः। राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने॥2.6.17॥

कृतपुष्पोपहार इति । कृतपुष्पोपहारः कृतपुष्पबलिः ॥17॥

प्रकाशीकरणार्थं च निशागमनशङ्कया। दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः॥2.6.18॥

प्रकाशकरणार्थमिति ।प्रकाशकरणार्थं वितानक्रमुककदल्यादिसमग्रताजनिततिमिरतिरोहितवस्तु- प्रकाशनार्थं, यद्वा निशागमनशङ्कया प्रकाशकरणार्थं दीपवृक्षान् वृक्षाकारदीपस्तम्भान् अभिषेकानन्तरं गजस्कन्धाधिरूढ्तयाभिषेकालङ्कारप्रदर्शनार्थं दीपवृक्षान् अनुरथ्यासु रथ्यासु रथ्यासु विभक्तेर्लुगभावः आर्षः। निशागमनश्ङ्कया रामस्य प्रकाशकरणार्थमनुरथ्यासु सर्वशः सर्वप्रकारान् दीपवृक्षान् चक्रुश्च तथाशब्दश्चार्थः॥18॥

अलङ्कारंपुरस्यैवं कृत्वा तत्पुरवासिनः। आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्॥2.6.19॥

समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च। कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्॥2.6.20॥

अलङ्कारमित्यादि श्लोकद्वयम्॥19,20॥

अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः। ज्ञात्वा वृद्धं स्वमात्मानं रामं राज्येभिशेक्ष्यति॥2.6.21॥

सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः। चिराय भविता गोप्ता दृष्टलोकपरावरः॥2.6.22॥

अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः। यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः॥2.6.23॥

चिरं जीवतु धर्मात्मा राजा दशरथोनघः। यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्॥2.6.24॥

प्रशंसामेवाह—अहो इत्यादि ।सर्वेsप्यनुगृहीताः स्म देवेनेति शेषः ।न अस्मान् गोप्ता भवितेति सम्बन्धः।दृष्टलोकपरावरःदृष्टे ये लोके परावरे उत्कृष्टापकृष्टवस्तुनी येन स तथोक्तः॥21-24॥

एवंविधं कथयता पौराणां शुश्रुवुः परे। दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः॥2.6.25॥

एवंविधमिति । श्रुतवृत्तान्तः श्रुतरामाभिषेकवार्ताः अत एव दिग्भ्यः प्राप्ताः जानपदाजनाः एवंविधं कथयतां पौराणां शुश्रुवुः एवंविधं वाक्यजातमित्यर्थसिद्धम्॥25॥

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्। रामस्य पूरयामासुः पुरीं जानपदा जनाः॥2.6.26॥

ते त्विति । पूर्वदिने सकलजनसन्निधौ रामाभिषेकस्य प्रतिश्रुतत्वाद्रामस्य पुरमिति निर्ड्र्ष्टवानृषिः॥26॥

जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः। पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः॥2.6.27॥

जनौघैरिति । विसर्पद्भिः नानादेशेभ्यः आगच्छद्भिः उत्पादित इति शेषः । उदीर्णवेगस्य उज्जृम्भितवेगस्य ॥27॥

ततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपाहितैः। समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्ण्वोदकम्॥2.6.28॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्येयोध्याकाण्डे षष्ठः सर्गः ॥6॥

 तत इति । इन्द्रक्षयः इन्द्रगृहम् ‘निवेशः शरणं क्षयः’इत्यमरः। अयोध्यापुरस्यामरावतीसादृश्ये वक्तव्ये तत्सारभूतेन्द्रभवनदृष्टान्तीकरणादयोध्याया अतिरमणीयता द्योत्यते जानपदैः समन्ततः आकुलमिति सम्बन्धः समुद्रयादोभिः समुद्रान्तर्वर्तितिमितिमिङ्गिलादिजन्तुभिः‘यादांसि जलजन्तवः’इत्यमरः ।कर्णावतंसादिपदवदविश्लेषप्रदर्शनाय समुद्रशब्दः, यद्वा समुद्रयादोभिः समुद्रगामिनीभिर्नदीभिः “यदो नपुंसकम्” इति यादःशब्दस्य नदीवाचकत्वेपि नपुंसकत्वं पाणिनीयलिङ्गानुशासनोक्तम् उदकशब्देन सस्वनत्वमुक्तम्॥28॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्यानेयोध्याकाण्डव्याख्याने ष्ष्ठः  सर्गः॥ 6 ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.