07 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

सप्तमः सर्गः ।

यदृच्छतः प्रासादोपरिभुवमारूढा मन्थरा नाम्नि कैकेय्याः कुब्जा ज्ञातिदासी तमुत्सवं ब्रह्मणेभ्यो बहुधनं वितरन्न्तीं कौसल्यां च प्रेक्ष्य किंनिमित्तकोयमारम्भ इति रामधात्री पप्रच्छ तया संज्ञापिता च रामाभिषेकमसहमाना कैकेयीमेत्य दशरथं विनिन्द्याभिषेकं विहन्तुं कैकेयीं प्रेरयत्तथापि रामाभिषेक एव स्वाभीष्ट इति मोदमाना कैकेयी तन्निवेदनपारितोषिकतया किञ्चिदाभरणं कुब्जायै ददौ।

ज्ञातिदासी यतो जाता कैकय्या तु सहोषिता। प्रासादं चन्द्रसङ्काश्मरुरोह यदृच्छया ॥2.7.1॥

अथ रावणवधकाङ्क्षिभिर्देवैराविष्टमन्थरावाक्याद्रामाभिषेकविघ्नः प्रतिपाद्यते—ज्ञातिदासीति । पूर्वसर्गे गते पुरोहित इत्यादिना तूर्यघोषानुनादित इत्यन्तेन पूर्वदिवसे अभिषेकाङ्गभूतव्रतोप– वासादिकमाचरतो रामस्य वृत्तान्तमभिधाय कृतोपवासं तु तदेत्यारभ्य सर्गपर्यन्तेन रामाभिषेकश्र -वणजनितानन्दनिर्भराणां पौराणां जनपदानां च जनानां रामाभिषेकदिवसप्राक्तनवृत्तान्तमभिधाय वाचःक्रमवर्तित्वादृषिः पूर्वदिवसप्रवृत्तकैकेयीवृत्तान्तं वक्तुमुपक्रमते-ज्ञातिदासीत्यादिना । कैकेय्याः ज्ञातिदासी कैकेयीबन्धुदासी ‘सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः’इत्यमरः। यतो जातायत्र कुत्रचिज्जाता अविज्ञातदेशमातापितृकेत्यर्थः। अतः कैकेय्या ज्ञातिदासीत्वमपि स्वोदरप्रपूरणार्थं कृतमित्यवगन्तव्यम्। सहोषिता सहावस्थिता मन्थरायाः कैकेय्या सहावस्थानमपि हास्यहेतुभूतकुब्जत्वनिबन्धनम्। यदृच्छया स्वैरतया ‘यदृच्छा स्वैरिता’इत्यमरः । यद्वा यतो जाता यत्तः कुतश्चिज्जाता तादृशीनामयोध्यायां जननास्म्भवात्, यद्वा तन्नामजातिनिरूपणायोग्यतया तथा निर्देशः आचर्यस्तु देवैरेवं स्वकार्यार्थं कैकेयीं भेदयितुं प्रेषितेति देवरहस्यस्य गोप्यतया तथा निर्देश इत्याहुः ॥1॥

सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्। अयिध्यां मन्थरा तस्मात्प्रासादादंववैक्षत॥2.7.2॥

सिक्तराजपथामिति‌ । प्रासादादन्ववैक्षत पूर्वश्लोके आरोहणस्योक्तत्वात्प्रासादादित्यस्यान्व-वैक्षतेत्यनेनसंबन्धः “ अधिकरणे चौपसंख्यानाम् ” इत्यधिकरणे ल्यब्लोपे पञ्चमी प्रासादे स्थित्वा प्रैक्षतेत्यर्थः ॥2॥

पताकाभिर्वरार्हाभिर्ध्वजैश्च  समलङ्कृताम्। सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्युताम्॥2.7.3॥

माल्यमोदकहस्तैश्च द्विजेंद्रैरभिनादिताम्। शुक्लदेवगृहद्वारांसर्ववादित्रनादिताम् ॥2.7.4॥

सम्प्रहृष्टजनाकीर्णां ब्रह्मघोष्निनादिताम् । प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम् ॥2.7.5॥

हृष्टप्रमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्। अयोध्यां मंथरा दृष्ट्वा परं विस्मयमागता॥2.7.6॥

पताकाभिरित्यादि । वरार्हाभिः श्रेष्ठाभिरित्यर्थःछन्दपथैर्वृतां स्वच्छन्दगमनयोग्योपवीथीभिरावृतां शिरःस्नानैः शिरसा स्नातै रामोपायनार्थं माल्यमोदकहस्तैः शुक्लदेवगृहद्वारामिति शुक्लानिसुधाधवलितानि देवगृहद्वाराणि यस्यां ब्रह्मघोषाभिनादितां ब्रह्मघोषैः वेदपारायणघोषैः अभिनादिताम् ‘वेदस्तत्त्वं तपो ब्रह्म ’इत्यमरः। रामाभिषेकस्य तिरश्चामप्यानन्दावहत्वात् प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषामित्युक्तं गोवृषाः गोपुङ्गवाः प्रहृष्टमुदितैः प्रहृष्टाः सञ्जात-रोमाञ्चादिगात्रविकाराः मुदिताः मानससन्तोषयुक्ताः तैः उच्छ्रितेत्यत्र प्रकृतोत्सवकृतध्वजसंबन्ध उच्यते । ध्वजैश्च समलङ्कृतामित्यत्र नित्यबद्धध्वजत्वमुक्तम्॥3-6॥

साहर्षोत्फुल्ल्नयनांपाण्डुरक्षौमवासिनीम्। अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा॥2.7.7॥

प्रहर्षोत्फुल्लनयनामिति । धात्रीमुपमातरम् ‘धात्री स्यादुपमाता’इत्यमरः ।प्रहर्षोत्फुल्लनयना- मित्यादि विशेषणादियं रामोपमाता॥7॥

उत्तमेनाभिसम्युक्ता हर्षेणार्थपरासती। राममाता धनं किंनु जनेभ्यः सम्प्रयच्छति॥2.7.8॥

उत्तमेनेति । अर्थपरा सती अर्थपरा सत्यपि उत्तमेन हर्षेणाभिसम्युक्ता धनं प्रयच्छति किं, यद्वा अर्थपरा उत्तरोत्तरार्थाभिवृद्ध्यै धनं प्रयच्छति नामग्रहणस्यासह्यत्वाद्राममातेत्युक्तिः॥8॥

अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे। कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः॥2.7.9॥

अतिमात्रेति । जनस्यायमत्यन्तप्रहर्षश्च किं किमर्थं किंनिमित्तं वा महीपतिः किं कर्म कारयिष्यति ॥9॥

विदीर्यमाणा हर्षेण धात्री तु परया मुदा। आचचक्षेsथ कुब्जायै भूयसीं राघवे श्रियाम्॥2.7.10॥

विदीर्यमाणेति । हर्षेण विदीर्यमाणा अन्तर्गतहर्षौत्कट्याद्देहपोषमुखविकासादिना बहिः प्रसरणात् विदीर्यमाणेवोपलक्षिता परया मुदा आचचक्षे स्वनिर्भरानन्दसन्दोहपरिवारस्य पात्रभूता काचिल्लब्धेति परमानन्दयुक्ता सती प्रतिकूलायै तस्यै अकथनीयमप्यकथयदिति भावः । राघवे श्रियं राघवे न्यस्यमानां राज्यलक्ष्मीम्॥10॥

श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम्। राजा दशरथो राममभिषेक्ता हि राघवम्॥2.7.11॥

श्व इति । पुष्येण युक्ते श्वः उत्तरदिने जितक्रोधमनघमित्यभिषेकोपयुक्तगुणजातोपलक्षणं यौवराज्येनाभिषेचयिता यौवराज्यार्थमभिषेचयितेत्यर्थः॥11॥

धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता। कैलासशिखराकारात्प्रासादादवरोहत ॥2.7.12॥

सा दह्यमाना क्रोधेन मंथरा पापदर्शिनी। शयानामेव कैकेयीमिदं वचनमब्रवीत्॥2.7.13॥

धात्र्या इति। अवरोहत अवारुहत् ॥12,13॥

उत्तिष्ठमूढे किं शेषे भयं त्वामभिवर्तते। उपप्लुतमघौघेननात्मानमवबुध्यसे॥2.7.14॥

उत्तिष्ठेति । उपप्लुतमुपहृतं अघौघेन अघं दुःखम् ‘अंहोदुःखव्यसनेष्वघम्’इत्यमरः । ‘ओघो वृन्देम्भसां रये’इत्यमरः॥14॥

अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे। चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे॥2.7.15॥

अनिष्ट इति । वस्तुतः राज्ञोनिष्टे सुभगाकारे आपाततः सौभाग्यवतीव भासमाने असुभगाकार इति वा छेदः सौभाग्येन हेतुना विकत्थसे ममैव सौभाग्यमस्तीत्यात्मानं श्लाघसे इयमुक्तिः पूर्वकालिकात्मश्लाघापरेत्यवगन्तव्या । इदानीं मत्सौभाग्यस्य का हानिरित्यत्राह—चलं हीति । उष्णं गच्छतीत्युष्णगः ग्रीष्मकालः तस्मिन् नद्याः स्रोत इव चलं क्षीणमित्यर्थः॥15॥

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः।  कुब्जया पापदर्शिन्या विषादमगमत्परम्॥2.7.16॥                                     एवमिति । परुषं वच उक्ता ‘अप्रधाने दुहादीनाम्’इत्यप्रधाने कर्मकारके निष्ठा     ॥16॥

कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे। विषण्णवदनां हि त्वां लक्षये भृशदुःखितम्॥2.7.17॥

कैकेयीति । कश्चित् क्षेमं मह्यमिति शेषः॥17॥

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्ष्रम्। उवाच क्रोधसम्युक्ता वाक्यं वाक्यविशारदा॥2.7.18॥

मन्थरेति । क्रोधसम्युक्ता रामाभिषेकाविचारणादिति भावः॥18॥

सा विषण्णतरा भूत्वा कुब्जा तस्यां हितैषिणा। विषादयन्तीप्रोवाच भेदयन्ती च राघवम्॥2.7.19॥

सेति । विषादयन्ती भेदयन्तीति शतृद्वयं हेत्वर्थं राज्यश्रियो ज्ञातिगामित्वानिष्टप्रकाशनेन विपादहेतवे सामान्यतः पुत्रत्वप्रयुक्तरामविषयस्नेहभेदनहेतवे चेत्यर्थः ॥19॥

अक्षयं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्। रामं दशरथो राजा यौवराज्येsभिषेक्ष्यति॥2.7.20॥

अक्षय्यमिति । अक्षय्यमशक्यप्रतीकारं त्वद्विनाशनं त्वद्विनाशः भावे ल्युट्॥20॥

सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता। दह्यमानानलेनेवत्वद्धितार्थमिहागता॥2.7.21॥

सेति । दुःखशोकसमन्विता अनभिमतरामाभिषेकराहित्यजः शोकः ताभ्यां समन्विता॥21॥

तव दुःखेन कैकेयि मम दुःखं महद्भवेत्। त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न संशयः॥2.7.22॥

ननु मम दुःखादिहेतौ सति कुतस्ते दुःखप्रसक्तिरित्यत्राह—तवेति॥22॥

नराधिपकुले जाता महिषी त्वं महीपतेः। उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे॥2.7.23॥

ननु रामाभिषेकमात्रं कथं मे दुःखहेतुरित्यत्राह- नराधिपेति । उग्रत्वं क्रौर्यम्॥23॥

धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः। शुद्धभावेन जानीषे तेनैवमतिसन्धिता॥2.7.24॥

ननु मत्प्रियः कथमनिष्टं करिष्यतीत्यत्राह—धर्मवादीति । धर्मवादीव भासमानः वस्तुतः शठः गूढविप्रियकृत् श्लक्ष्णवादी कण्ठादुपरि प्रियवचनशीलः दारुणः क्रूरकर्मकारी एवंभूतमेनं शुद्ध- स्वभावेनोपलक्षितं जानीषे तथा न मन्तव्यं यतस्तेनैवमतिसन्धिता वञ्चिता॥24॥

उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्।   अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति॥2.7.25॥

शठत्वमेवाह—उपस्थितमिति । उपस्थितं तत्कालोचिततया भाशितमनर्थकं त्वदर्थनाशनं त्वयि सान्त्वमनुसरणं प्रयुञ्जानः कौसल्यामर्थेन योजयिष्यति॥25॥

अपवाह्य तु दुष्टात्मा भरतं तव बन्धुषु। काल्ये स्थापयिता रामं राज्ये निहतकण्टके॥2.7.26॥

अतिसन्धानप्रकारमाह—अपवाह्येति । अपवाह्य उद्वास्य कालमर्हतीति काल्यम् अर्हार्थे यत् श्वः प्रातरित्यर्थः॥26॥

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया। आशीविष इवाङ्गेन बाले परिधृतस्त्वया॥2.7.27॥

शत्रुरिति । हे बाले ! मुग्धेआगाम्यानर्थानभिज्ञे इतियावत् पतिप्रवादेन पतिव्यपदेशेन शत्रुः छत्रहृदयः शत्रवः पतिः त्वया ऋजुप्रकृतिकया मात्रेव सर्पशिशुं पोषयित्र्येव हितकाम्यया हितप्रापणेच्छया आशीविष इव छत्रविषः सर्प इव अङ्केन उत्सङ्गेनपरिहृतः परिधृत इत्यर्थः। यद्वा अङ्केन परिहृतः अङ्कान्न परिहृतः किन्त्वङ्क एव धृत्वोपलालितः यथा सर्पपोषयित्री बाला सर्पस्यान्तर्विषमज्ञात्वा केवलं हितकाम्ययाङ्के सर्पमुपलालयति तथा त्वमपि बाला भर्तुः कुटिलहृदयमजानती विश्वस्य तमङ्के उपलालयसीत्यर्थः । यथाङ्गोपलालित आशीविषः कदाचिद्धितपरामपि पोषयित्रीं दशेत् एवं ते भर्तापि विश्वस्तां त्वामर्थहीनां कारयेत् अतः स आशीविष इव नानुसरणीयस्त्वयेति भावः ॥27॥

यथा हि कुर्याच्छत्रुर्वा सर्पो वा प्रत्युपेक्षितः। राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता॥2.7.28॥

एवं गम्यमर्थं विशदयति—यथेति ॥28॥

पापेनानृतसान्त्वेन बाले नित्यं सुखोचिता। रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि॥2.7.29॥

पापेनेति । सानुबन्धा पुत्रमित्रादिपरिकरसहिता॥29॥

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव। त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने॥2.7.30॥

सेति । विस्मयदर्शने आश्चर्यावहज्ञानयुक्ते तत्तत्कालोचितकर्तव्यनिरूपणचतुर इत्यर्थः । यद्वा अनेन हितकरणहेतुदशरथवशीकरणसाधनसौन्दर्यं सूच्यते ॥30॥

मन्थराया वचः श्रुत्वा शयनात्सा शुभानना। उत्तस्थौहर्षसम्पूर्णा चन्द्रलेखेवशारदी॥2.7.31॥

अतीव सा तु सन्तुष्टा कैकेयी विस्मयान्विता। दिव्यमाभरणं तस्यै कुब्जायै प्रददौ शुभम्॥2.7.32॥

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा। कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम्॥2.7.33॥

एवं देवावेशवशाद्विपरीतवाक्यया मन्थरयोक्तापि कैकेयी महाकुलप्रसूततया सत्प्रकृतिः सती रामाभिषेकं स्वहितं मन्यमानाह-मन्थराया इति॥31-33॥

इदं तु मन्थरे मह्यमाख्यातं परमं प्रियम्। एतन्मे प्रियमाख्यातं किं वा भूयः करोमि ते॥2.7.34॥

इदं त्विति । एतत्प्रियमाख्यातुः आख्यात्र्यास्ते किं वा करोमीति सम्बन्धः ‘एतन्मे प्रिय– माख्यातम्’इतिपाठे आख्यातमेतत्प्रियमुद्दिश्य ते भूयः किंवा करोमीति सम्बन्धः॥34॥

रामे वा भरतेवाहं विशेषं नोपलक्षये। तस्मात्तुष्टास्मि यद्राजा रामं राज्येsभिशेक्ष्यति॥2.7.35॥

ननु सपत्नीपुत्रे कथं तवैतादृशी प्रीतिरित्यत्राह—राम इति ॥35॥

न मे परं किञ्चिदितो वरं पुनः प्रियं प्रियार्हे सुवचं वचोsमृतम्। तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु॥2.7.36॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्येयोध्याकाण्डे सप्तमः सर्गः ॥7॥

नेति । हे प्रियार्हे प्रियदानार्हे ! मे इतः परं रामाभिषेककथनादन्यत्किञ्चित् प्रियं अभिमतं परं वचस्त्वया पुनर्न सुवचं वक्तुं न शक्यं हि यस्मात् कारणात् त्वं तथा सर्वप्रियेभ्योधिकं प्रियं रामाभिषेकरूपमवोचः उक्तवती अतः प्रियोत्तरं प्रीतिविषयेषु श्रेष्ठं ‘उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः’इत्यमरः । परमन्यं वरं वरणीयं वस्तुविशेषं ते तुभ्यं प्रददामि तं वृणीष्वेति योजना॥36॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्यानेयोध्याकाण्डव्याख्याने सप्तमः   सर्गः॥ 7 ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.