110 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग:

क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह ।

जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।। 2.110.1 ।।

अथ वसिष्ठो जाबालिवचनयाथार्थ्यप्रदर्शनेन तद्विषयकोपं निवर्त्त्य स्वाभिमतं ज्येष्ठस्यैव राज्यार्हतारूपं निवर्त्तनोपायं प्रतिपादयति–क्रुद्धमित्यादिना । लोकस्य जनस्य गतं गमनम् । भावे निष्ठा । परलोकप्राप्तिं तत इहागतिं च जानीते, नासौ नास्तिक इत्यर्थ: ।। 2.110.1 ।।

निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।

इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।। 2.110.2 ।।

सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।

तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह ।

स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ।। 2.110.3 ।।

निवर्तनार्थमिति तदुक्तमपि सत्यमित्याह निवर्तयितुकाम इत्यादिना । ज्येष्ठस्यैव राज्यार्हतां वक्तुमारभते इमामित्यादि । लोकनाथ तवैव तत्प्रत्यक्षं हीति भाव: ।। 2.110.23 ।।

असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: ।

आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ।। 2.110.4 ।।

तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ।। 2.110.5 ।।

असृजदिति । आकाशप्रभव इत्यत्राकाशशब्द: परब्रह्मपर: । “आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म” इति श्रुते: । इत्थमेव “अव्यक्तप्रभवो ब्रह्म” इति बालकाण्डोक्तमपि । शाश्वत: प्रवाहरूपेण नित्य: । नित्य: इतरापेक्षया चिरकालस्थायी, अन्यथा आकाशप्रभव इति विरुध्यते । अव्यय: तस्मात् स्थानात्तस्य मोक्षसिद्धे: ।। 2.110.45 ।।

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: ।

स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ।। 2.110.6 ।।

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।। 2.110.7 ।।

इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: ।

कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ।। 2.110.8 ।।

विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् ।

बाणस्य तु महाबाहुरनरण्यो महायशा: ।। 2.110.9 ।।

नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।

अनरण्ये महाराजे तस्करो नापि कश्चन ।। 2.110.10 ।।

अनरण्यान्महाबाहु: पृथू राजा बभूव ह ।

तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।

स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ।। 2.110.11 ।।

विवस्वानिति । वैवस्वत: विवस्वत्सम्बन्धी तस्येक्ष्वाकुवंशकूटस्थत्वं च दर्शयति स त्वित्यादिना । “मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्” इति तस्यायोध्यानिर्मातृत्वोक्ति: ।। 2.110.611 ।।

त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: ।

धुन्धुमारो महातेजा युवनाश्वो व्यजायत ।। 2.110.12 ।।

युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत ।

मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ।। 2.110.13 ।।

त्रिशङ्कोरिति । युवनाश्व एव महातेजा: महातेज:प्रभावेन महाबलधुन्धुनामकासुरमारणाद्धुन्धुमारसंज्ञामलभतेत्यर्थ: ।। 2.110.1213 ।।

सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् ।

यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ।। 2.110.14 ।।

सुसन्धेरिति । ज्येष्ठस्य ध्रुवसन्धे: । वंशकथनाज्ज्येष्ठस्यैव राज्ये स्थापितत्वमुक्तम् ।। 2.110.14 ।।

भरतात्तु महाबाहोरसितो नाम जायत ।

यस्यैते प्रतिराजान उदपद्यन्त शत्रव: ।

हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ।। 2.110.15 ।।

भरतादिति । जायतेत्यत्राडभाव: अनित्यत्वात् । प्रतिराजान: सामन्ता: शत्रव: । उदपद्यन्त आसन्नित्यर्थ: । हैहयाद्यास्तत्तद्दशोधिपतय: ।। 2.110.15 ।।

तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: ।

स च शैलवरे रम्ये बभूवाभिरतो मुनि: ।। 2.110.16 ।।

तानिति । प्रतिव्यूह्य युद्धं कृत्वा राजा असित: शैलवरे हिमवति रम्ये निर्भयतया स्थातुं योग्ये मुनि: सन्नभिरतो बभूव अन्यथा तस्मादपि शैलात्प्रवासयेयुरिति भाव: ।। 2.110.16 ।।

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: ।

एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।। 2.110.17 ।।

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: ।

तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ।। 2.110.18 ।।

द्वे इति । श्रूयत इति श्रुति:, जनवाद इत्यर्थ: ।। 2.110.1718 ।।

स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।

पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: ।

धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ।। 2.110.19 ।।

स इति । स: अभिवादनप्रसन्नो विप्र: । पुत्रजन्मनि विषये वरेप्सुं तामभ्यवदत् उवाच । महात्मा महामति: । लोकविश्रुत: सर्वलोकप्रसिद्ध: । पुत्रा भवितेत्यभ्यवददित्यन्वय: ।। 2.110.19 ।।

कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।

पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।

तत: सा गृहमागम्य देवी पुत्रं व्यजायत ।। 2.110.20 ।।

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।

गरेण सह तेनैव जात: स सगरो ऽभवत् ।। 2.110.21 ।।

कृत्वेति । सा देवी तं मुनिं अनुमान्य सम्पूज्य ततो गृहमागम्य पद्मपत्त्रसमानाक्षं पद्मगर्भसमप्रभं पुत्रं व्यजायत व्यजीजनत् ।। 2.110.2021 ।।

स राजा सगरो नाम य: समुद्रमखानयत् ।

इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ।। 2.110.22 ।।

स राजेति । य: इष्ट्वा दीक्षां कृत्वा पर्वणि वेगेन अम्बुवेगेन इमा: प्रजा: त्रासयन्तं समुद्रम् अखानयत् ।। 2.110.22 ।।

असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् ।

जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ।। 2.110.23 ।।

अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।

दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ।। 2.110.24 ।।

भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: ।

ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ।। 2.110.25 ।।

रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: ।

कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ।। 2.110.26 ।।

असमञ्ज इति । न: श्रुतम् अस्माभि: श्रुतमित्यर्थ: ।। 2.110.2326 ।।

कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: ।

यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ।। 2.110.27 ।।

शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: ।

सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ।। 2.110.28 ।।

शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: ।

प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ।। 2.110.29 ।।

अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: ।

नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ।। 2.110.30 ।।

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।

अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ।। 2.110.31 ।।

कल्माषपादेति । तद्वीर्य्यं वसिष्ठशापाद्राक्षसत्वं प्राप्तस्य कल्माषपादस्य पराक्रमम् । आसाद्य व्यनीनशत् विनाशं प्राप्तवानित्यर्थ: । राक्षसत्वात् कल्माषपादेन स्वपुत्र एव विनाशित इत्यर्थ: ।। 2.110.2731 ।।

तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: ।

तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ।। 2.110.32 ।।

तस्येति । दायाद: सुत: । “दायादौ सुतबान्धवौ” इत्यमर: ।। 2.110.32 ।।

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: ।

पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ।। 2.110.33 ।।

इक्ष्वाकूणामिति । पूर्वजे विद्यमाने अवर: कनिष्ठपुत्रो राज्ये नाभिषिच्यते किंतु ज्येष्ठ एवेति अन्वय: ।। 2.110.33 ।।

स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि ।

प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ।। 2.110.34 ।।

स राघवाणामिति । स त्वं आत्मन: सम्बन्धिना राघवाणां सनातनं परम्परयागतं कुलधर्मं ज्येष्ठाभिषेचनरूपम् अद्य भवन्तमारभ्य न विहन्तुमर्हसि । अन्येन रक्षितुं चाशक्यमित्याह प्रभूतेति । रत्नानि श्रेष्ठवस्तूनि । प्रभूतराष्ट्रां बहुविधावान्तरजनपदयुक्ताम् ।। 2.110.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ।। 110 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने दशोत्तरशततम: सर्ग: ।। 110 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.