115 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग:

ततो निक्षिप्य मातृ़: स अयोध्यायां दृढव्रत: ।

भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ।। 2.115.1 ।।

अथ भरतस्य नन्दिग्रामे स्थित्वा राज्यपरिपालनं पञ्चदशोत्तरशततमे–तत इत्यादिना ।। 2.115.1 ।।

नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: ।

तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ।। 2.115.2 ।।

गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।

रामं प्रतीक्षे राज्याय स हि राजा महायशा: ।। 2.115.3 ।।

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।

अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ।। 2.115.4 ।।

नन्दिग्राममिति । राघवं विना दु:खं राघवं विना प्राप्तं दु:खम् ।। 2.115.24 ।।

सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।

वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ।। 2.115.5 ।।

सुभृशं श्लाघनीयं चेति पाठ: । सदृशमिति पाठे कुलस्य सदृशमित्यर्थ: ।। 2.115.5 ।।

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।

आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ।। 2.115.6 ।।

मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।

अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ।। 2.115.7 ।।

नित्यमिति । नानुमन्येत वचनमिति शेष: ।। 2.115.67 ।।

प्रहृष्टवदन: सर्वा मातृ़: समभिवाद्य स: ।

आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ।। 2.115.8 ।।

आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ ।

ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ।। 2.115.9 ।।

अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: ।

प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ।। 2.115.89 ।।

बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।

प्रययौ भरते याते सर्वे च पुरवासिन: ।। 2.115.11 ।।

रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: ।

नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ।। 2.115.12 ।।

ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: ।

अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ।। 2.115.13 ।।

(प्रहृष्टवदन इति सम्यक् ।। 2.115.89 ।। अग्रतो गुरवस्तत्र नन्दिग्रामो यतो ऽभवत् इति पाठ: ।। 2.115.1012 ।। नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके इत्यत:परं ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: । अवतीर्य रथात्तूर्णं गुरूनिदमुवाचहेति श्लोक: ।। 2.115.16 ।।)

एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।

योगक्षेमवहे चेमे पादुके हेमभूषिते ।। 2.115.14 ।।

मातृवरव्याजेन पित्रा दत्तं राज्यं भरत: करोतीति जनवादो माभूदिति धिया वदति–एतदित्यादिना । संन्यासवत् सम्यक्निक्षिप्तद्रव्यमिव अनेनान्यूनतया प्रत्यर्पणीयत्वं ध्वन्यते । निक्षेपवद्दत्तस्य राज्यस्य रक्षणादिस्वातन्त्र्यमपि स्वस्य नास्तीति दर्शयति योगक्षेमवहे चेति ।। 2.115.14 ।।

भरत: शिरसा कृत्वा संन्यासं पादुके तत: ।

अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ।। 2.115.15 ।।

भरत इति । संन्यासं पादुके स्वप्रतिनिधित्वेन न्यस्ते पादुके ।। 2.115.15 ।।

छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।

आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ।। 2.115.16 ।।

छत्त्रमित्येतच्चामरादीनामुपलक्षणम् । अत एव धारयतेति बहुवचनम् । आर्यपादाभेदभावनया पादुकयोरिमाविति पुँल्लिङ्गनिर्देश: । पादुकाभ्यामिति हेतौ तृतीया ।। 2.115.16 ।।

भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् ।

तमिमं पालयिष्यामि राघवागमनं प्रति ।। 2.115.17 ।।

क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् ।

चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ।। 2.115.18 ।।

अयं संन्यास: पादुकारूपप्रतिनिधि: । पालयिष्यामि रक्षिष्यामि ।। 2.115.1718 ।।

ततो निक्षिप्तभारो ऽहं राघवेण समागत: ।

निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ।। 2.115.19 ।।

राघवेण समागत: सङ्गत: । गुरवे राज्यं निवेद्य रामाय राज्यं प्रत्यर्प्य । तत: गुरुवृत्तितां भजिष्ये पितरीव शुश्रूषां करिष्यामीत्यर्थ: ।। 2.115.19 ।।

राघवाय च संन्यासं दत्त्वे मे वरपादुके ।

राज्यं चेदमयोध्यां च धूतपापो भवामि च ।। 2.115.20 ।।

धूतपाप इत्यत्र पापशब्देन कैकेयी निमित्तमयश उच्यते ।। 2.115.20 ।।

अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।

प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ।। 2.115.21 ।।

एवं तु विलपन् दीनो भरत: स महायशा: ।

नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ।। 2.115.22 ।।

स वल्कलजटाधारी मुनिवेषधर: प्रभु: ।

नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ।। 2.115.23 ।।

प्रहृष्टमुदिते प्रहृष्ट: पुलकितगात्र:, मुदित: सञ्जातमानसहर्ष: ।। 2115.2123 ।।

रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: ।

भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ।। 2.115.24 ।।

पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा ।

भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ।। 2.115.25 ।।

रामागमनमाकाङ्क्षन्नित्यादि । पादुकाभ्यां न्यवेदयत् विज्ञापयामास ।। 2.115.2425 ।।

ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके ।

तदधीनस्तदा राज्यं कारयामास सर्वदा ।। 2.115.26 ।।

आर्य्यपादुके अभिषिच्य राज्याभिषेकमार्यपादुकयो: कृत्वेत्यर्थ: । तदधीन: पादुकापरतन्त्र: ।। 2.115.26 ।।

तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।

स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ।। 2.115.27 ।।

तदा पादुके पुरस्कृत्य राज्यपालनसमये । उपायनम् उपहार: । “उपायनमुपग्राह्यमुपहार:” इत्यमर: ।। 2.115.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग: ।। 115 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चदशोत्तरशततम: सर्ग: ।। 115 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.