12 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

द्वादश: सर्ग:

तत: श्रुत्वा महाराज: कैकेय्या दारुणं वच: ।

चिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ।। 2.12.1 ।।

अथ सत्यपाशबद्धस्य राज्ञ: शोकं वर्णयति–तत इति । प्रतताप मुमूर्च्छेति यावत् ।। 2.12.1 ।।

किं नु मे यदि वा स्वप्नश्चित्तमोहो ऽपि वा मम ।

अनुभूतोपसर्गो वा मनसो वाप्युपद्रव: ।

इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ।। 2.12.2 ।।

चिन्तां विवृणोति–किं न्विति । किंन्विति सामान्याकारेण चिन्ता स्वदु:खावहस्य रामाभिषेकविघ्नस्य सत्स्वभावया कैकेय्या कथनासम्भवादिदं पारमार्थिकं न भवति स्वप्नो यदि वा । अथ वेदानीं निद्राया असंभवाच्चित्तमोह: भ्रमो वा । इदानीं भ्रमकारणाभावादनुभूतोपसर्गो वा । जन्मान्तरानुभूतानामर्थानां उपसर्ग: भावना वा । स्मरणमिति यावत् । जन्मान्तरेप्येवंविधावस्थाया असम्भावितत्वादाह मनस उपद्रवो वा । रोगज विकारो वा । उन्माद इति यावत् । प्रतताप चेत्येतदनुवदति इतीति ।। 2.12.2 ।।

प्रतिलभ्य चिरात् संज्ञां कैकेयीवाक्यताडित: ।

व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृग: ।। 2.12.3 ।।

असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ।

मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविष: ।। 2.12.4 ।।

अहो धिगिति सामर्षो वाचमुक्त्वा नराधिप: ।

मोहमापेदिवान् भूय: शोकोपहतचेतन: ।। 2.12.5 ।।

चिरेण तु नृप: संज्ञां प्रतिलभ्य सुदु:खित: ।

कैकेयीमब्रवीत् क्रुद्ध: प्रदहन्निव चक्षुषा ।। 2.12.6 ।।

प्रतिलभ्येत्यादि श्लोकत्रयमेकान्वयम् । व्यथित: दु:खित: । विक्लव: विह्वल: । “विक्लवो विह्वल:” इत्यमर: । मण्डले अहितुण्डिकयन्त्रमण्डले ।। 2.12.36 ।।

नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ।

किं कृतं तव रामेण पापे पापं मयापि वा ।। 2.12.7 ।।

नृशंस इति । किं पापं कृतमित्यन्वय: । पापम् अपराध: ।। 2.12.7 ।।

यदा ते जननीतुल्यां वृत्तिं वहति राघव: ।

तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ।। 2.12.8 ।।

त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता ।

अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ।। 2.12.9 ।।

जीवलोको यथा सर्वो रामस्याह गुणस्तवम् ।

अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ।। 2.12.10 ।।

कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ।

जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ।। 2.12.11 ।।

परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् ।

अपश्यतस्तु मे रामं नष्टा भवति चेतना ।। 2.12.12 ।।

तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ।

न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ।। 2.12.13 ।।

त्वमिति । नृपसुतेत्यत्रेति करणं द्रष्टव्यम् ।। 2.12.913 ।।

तदलं त्यज्यतामेष निश्चय: पापनिश्चये ।

अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।। 2.12.14 ।।

किमिदं चिन्तितं पापे त्वया परमदारुणम् ।। 2.12.15 ।।

तदलमिति । एष निश्चय: । रामविवासनरूपनिश्चय: । अपिते चरणाविति । अपि: प्रश्नार्थक: ।। 2.12.1415 ।।

अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये ।

अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ।। 2.12.16 ।।

स मे ज्येष्ठ: सुत: श्रीमान् धर्मज्येष्ठ इतीव मे ।

तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ।। 2.12.17 ।।

तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् ।

आविष्टासि गृहं शून्यं सा त्वं परवशं गता ।। 2.12.18 ।।

अथेत्यादि श्लोकत्रयमेकान्वयम् । अथेति प्रश्ने । त्वं भरतस्य प्रियाप्रिये विषये मां जिज्ञाससे ज्ञातुमिच्छसि तदिदानीमपि भरतो ऽभिषिच्यतामिति यत्तदस्तु तद्वक्तुमुचितम् । त्वया पूर्वं राघवं प्रति “स मे ज्येष्ठ: सुत:” इत्यादि यद्व्याहृतं तत् प्रियवादिन्या त्वया सेवार्थं मम मनोरञ्जनार्थं रामकृतशुश्रूषार्थं वा कथितं भवेत्, रामविवासनोक्तिस्तेन विरुद्धेत्यर्थ: । परीक्षार्थमपि भरतो ऽभिषिच्यतामित्येव वक्तुमुचितम् । न तु रामो विवास्यतामित्येतत् पूर्वापरविरोधादिति भाव: । रामविवासनोक्तिश्च भरते प्रीतिपरीक्षार्थमेवास्त्वित्यत आह तदिति । तत् रामाभिषेचनं श्रुत्वा शोकसंतप्ता सती मां भृशम् अतिनिर्बन्धेन सन्तापयसि । किञ्च परवशं परबोधनवशं गता । सती । शून्यं गृहं क्रोधागारम् । आविष्टासि प्रविष्टासि । इदं सर्वं परीक्षार्थत्वे न संगच्छत इति भाव: । शून्यैर्ग्रहैरिति पाठे–शून्यैर्ग्रहैराविष्टा पिशाचादिभिराविष्टेत्यर्थ: ।। 2.12.1618 ।।

इक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम् ।

अनयो नयसम्पन्ने यत्र ते विकृता मति: ।। 2.12.19 ।।

कुलानर्थकरं चेदं वचनमित्याह–इक्ष्वाकूणामिति । नयसम्पन्ने एतावत्कालं नीतिशालिनि । यत्र इक्ष्वाकुकुलमध्ये । ते मतिरेवमिदानीं विकृता विपरीता जाता । तत्र कुले । अयं संनिहित: । सुमहाननय: अनर्थ: संप्राप्त: । सत्प्रकृतेर्विपरीतबुद्धि: कुलस्यानर्थहेतुरिति भाव: ।। 2.12.19 ।।

न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम ।

अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ।। 2.12.20 ।।

पूर्वापरपर्यालोचनयात्वद्वचनं न श्रद्धेयं चेत्याह–नहीति । अयुक्तम् अहितमिति यावत् । न श्रद्दाधामि इदमहितं विप्रियकरणमिति शेष: ।। 2.12.20 ।।

ननु ते राघवस्तुल्यो भरतेन महात्मना ।

बहुशो हि सुबाले त्वं कथा: कथयसे मम ।। 2.12.21 ।।

त्वत्प्रीतिविरुद्धं चेदं वचनमित्याह–नन्वित्यादि । ते राघव: भरतेन तुल्यो ननु तुल्य: खलु । अत्र त्वद्वचनमेव प्रमाणमित्याह बहुश इति । बहुश इत्यनेनाहृदयत्वव्यावृत्ति: । सुबाले इत्यकुटिलत्वव्यावृत्ति: ।। 2.12.21 ।।

तस्य धर्मात्मनो देवि वने वासं यशस्विन: ।

कथं रोचयसे भीरु नव वर्षाणि पञ्च च ।। 2.12.22 ।।

तस्येति । धर्मात्मन इत्यनेन वनवासहेतुभूताकृत्यराहित्यमुक्तम् । भीरु इति तव च धर्मभीरुत्वं क्व गतमिति भाव: ।। 2.12.22 ।।

अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मन: ।

कथं रोचयसे वासमरण्ये भृशदारुणे ।। 2.12.23 ।।

रामसौकुमार्यानुचितं चेदमित्याह–अत्यन्तेति ।। 2.12.23 ।।

रोचयस्यभिरामस्य रामस्य शुभलोचने ।

तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ।। 2.12.24 ।।

शुश्रूषादर्शनेनापि रामो न निवासनार्ह इत्याह–रोचयसीति । तव शुश्रूषमाणस्येत्यत्र “न लोकव्यय” इत्यादिना निषिद्धापि षष्ठ्यार्षी बोध्या ।। 2.12.24 ।।

रामो हि भरताद्भूयस्तव शुश्रूषते सदा ।

विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ।। 2.12.25 ।।

शुश्रूषमाणस्येत्येतदुपपादयति–रामो हीति ।। 2.12.25 ।।

शश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् ।

कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ।। 2.12.26 ।।

न केवलं शुश्रूषैवैवं वचनकारणम् अपि तु प्रमाणादिकमपीत्याह–शुश्रूषामिति । गौरवं प्रतिपत्ति: । प्रमाणं पूजा । वचनक्रिया उक्तकरणम् ।। 2.12.26 ।।

बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् ।

परिवादो ऽपवादो वा राघवे नोपपद्यते ।। 2.12.27 ।।

परिवादादिकमपि रामविवासकारणं नास्तीत्याह–बहूनामिति । स्त्रीसहस्राणामुपजीविनां च सम्बन्धी परिवादो नोपपद्यते । बहूनामिति विशेषणेन तन्मध्ये एकया एकेन वा स्त्रीपुरुषाविशेषेण परिवादस्तत्सम्बन्धी परिभवविषयवाद: अपवाद: निन्दा वा राघवे नोपपद्यते न दृश्यते ।। 2.12.27 ।।

सान्त्वयन् सर्वभूतानि राम: शुद्धेन चेतसा ।

गृह्णाति मनुजव्याघ्र: प्रियैर्विषयवासिन: ।। 2.12.28 ।।

अविवासननिमित्तभूतान् भूयो गुणान् दर्शयति–सान्त्वयन्नित्यादि । अनेन वाङ्मन:कायैर्जनरञ्जकत्वमुक्तम् । प्रियै: अभीष्टप्रदानै: । गृह्णाति संगृह्णाति ।। 2.12.28 ।।

सत्येन लोकान् जयति दीनान् दानेन राघव: ।

गुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ।। 2.12.29 ।।

सत्येनेति । सत्येन भूतहितेन । लोकान् स्वर्गादिवैकुण्ठपर्यन्तान् । जयति स्वाधीनान् करोति । दीनान् दरिद्रान् । दानेन धनप्रदानेन । जयति वशीकरोति । गुरून् शुश्रूषया जयति स्वहितोपदेशप्रवणान् करोति । शात्रवान् शत्रून् । धनुषा धनु:प्रदर्शनमात्रेण न तु बाणप्रयोगेण । युधि युद्धे । न तु कपटवृत्त्या । जयति निरस्यतीत्यर्थ: । वीर इति सर्वत्र सम्बध्यते । दयावीरस्त्यागवीरो विद्यावीर: पराक्रमवीर इत्येवम् । चोलमहीपति: कदाचित्सन्निहितं मध्यमवीथिभट्टारकं प्रति ‘आत्मानं मानुषं मन्ये’ इति वदन् राम: कथं जटायुषो मोक्षं दत्तवानिति पप्रच्छ । सोपि ‘सत्येन लोकान् जयति’ इत्युक्त्या महतीं बहुमतिमवाप्तवानित्यौतिह्यमत्र ज्ञेयम् ।। 2.12.29 ।।

सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ।

विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ।। 2.12.30 ।।

सत्यादीनि च न कादाचित्कानीत्याह–सत्यमिति । तप:प्रभृति गुणषट्कं पूर्वश्लोके ऽर्थसिद्धमनूद्यते–दानं परलोकप्रयोजनम् । तप: शास्त्रविहितभोजननिवृत्त्यादिरूप: । त्याग: ऐहिकप्रयोजन: प्रीत्यर्थ: । मित्रता सर्वसुहृत्त्वम् । शौचं स्नानजन्यशुद्धि: । आर्जवं परचित्तानुवर्त्तित्वम् । विद्या तत्त्वज्ञानम् । गुरुशुश्रूषा गुरो: शुश्रूषा पादसंवाहनादिपरिचर्या ।। 2.12.30 ।।

तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।

पापमाशंससे रामे महर्षिसमतेजसि ।। 2.12.31 ।।

तस्मिन्निति । आर्जवसम्पन्न इति दानादिसम्पत्तेरप्युपलक्षणम् । पापं विवासनरूपम् । आशंससे प्रार्थयसि ।। 2.12.31 ।।

न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिन: ।

स कथं त्वत्कते रामं वक्ष्यामि प्रियमप्रियम् ।। 2.12.32 ।।

नेति । लोकस्य जनमात्रस्य । प्रियवादिन: प्रियवदनशीलस्य, किमुतास्माकमिति भाव: । रामस्य सम्बन्धि अप्रियं विवासनविषयं वाक्यं न स्मरामि स्मर्तुमपि न शक्नोमीत्यर्थ: । स: तदस्मर्ता अहम् । त्वत्कृते परुषोक्तिमत्स्त्रीकृते । रामं सर्वस्य रमयितारम् । प्रियं रमयितृत्वाभावेपि पुत्रत्वेन प्रियं प्रति कथमप्रियं वक्ष्यामि ।। 2.12.32 ।।

क्षमा यस्मिन् दमस्त्याग: सत्यं धर्म: कृतज्ञता ।

अप्यहिंसा च भूतानां तमृते का गतिर्मम ।। 2.12.33 ।।

क्षमेति । यस्मिन् क्षमादयो वर्तन्ते तमृते मम का गति: को वा रक्षक: ? तादृशं रक्षकं कथं त्यक्ष्यामीति भाव: ।। 2.12.33 ।।

मम वृद्धस्य कैकेयि गतान्तस्य तपस्विन: ।

दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ।। 2.12.34 ।।

ममेति । गतान्तस्य गत: प्राप्त: अन्तश्चरमकालो येन । तस्य वृद्धत्वेपि प्राप्तचरमकालस्येत्यर्थ: । तपस्विन: शोचनीयावस्थस्य । लालप्यमानस्य पुन:पुन: कथनशीलस्य । मम मयीत्यर्थ: । सम्बन्धसामान्ये षष्ठी ।। 2.12.34 ।।

पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते ।

तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ।। 2.12.35 ।।

पृथिव्यामिति । सागरान्तायामित्यनेन कृत्स्नायामिति लभ्यते । यत्किंचिद्धनम् अधिगम्यते लभ्यते तत्सर्वं तव तुभ्यं दास्यामि । मन्यु: रामविषयक्रोध: ।। 2.12.35 ।।

अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।

शरणं भव रामस्य माधर्मो मामिह स्पृशेत् ।। 2.12.36 ।।

अञ्जलिमिति । कुर्मि करोमि, अञ्जलिपूर्वकं पादवन्दनं करोमीत्यर्थ: । शरणं रक्षितृ । अधर्म: प्रतिज्ञाभङ्गरूप:, रामाभिषेकमनुजानीहीत्यर्थ: ।। 2.12.36 ।।

इति दु:खाभिसन्तप्तं विलपन्तमचेतनम् ।

घूर्णमानं महाराजं शोकेन समभिप्लुतम् ।। 2.12.37 ।।

इतीत्यादिश्लोकद्वयमेकान्वयम् । अचेतनं मूर्च्छितम् । घूर्णमानम् इतस्ततो विवर्तमानम् । शोकेन भाविरामविरहस्मरणदु:खेन । समभिप्लुतं सम्यगभिव्याप्तम् ।। 2.12.37 ।।

पारं शोकार्णवस्याशु प्रार्थयन्तं पुन: पुन: ।

प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरं वच: ।। 2.12.38 ।।

पारं अन्तम्, रामाभिषेकमिति यावत् । अथ कृत्स्नम् । इति वचोविशेषणम् । “आरम्भप्रश्नकार्त्स्न्येष्वथो अथ” इत्यमर: । रौद्रा भयङ्करविकारा । रामाभिषेकनिवर्तनविषये यद्यद्वक्तव्यं तत्सर्वमुवाचेत्यर्थ: ।। 2.12.38 ।।

यदि दत्त्वा वरौ राजन् पुन: प्रत्यनुतप्यसे ।

धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ।। 2.12.39 ।।

धार्मिकत्वं स्वीयमिति शेष: ।। 2.12.39 ।।

यदा समेता बहवस्त्वया राजर्षय: सह ।

कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ।। 2.12.40 ।।

कथयिष्यन्ति उपकारिण्या: कैकेय्या: किं प्रत्युपकृतमिति कदाचिद्धर्मप्रसङ्गे वक्ष्यन्ति । तत्र तदा । किं प्रतिवक्ष्यसि कीदृशं प्रत्युत्तरं दास्यसि ।। 2.12.40 ।।

यस्या: प्रसादे जीवामि या च मामभ्यपालयत् ।

तस्या: कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ।। 2.12.41 ।।

यस्या इति । प्रसादे सति जीवामि प्रसादेन जीवामीत्यर्थ: । प्रसादमेवाह या चेति । या च मां मूर्च्छितदशायां रणादन्यत्रापनीयाभ्यपालयत् । शिशिरोपचारादिना ररक्षेत्यर्थ: । तस्या: मया मिथ्या असत्यं कृतमिति वक्ष्यसि । किमिति काकु: । तस्मादद्य प्रतिज्ञां निर्वहेति भाव: ।। 2.12.41 ।।

किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप ।

यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ।। 2.12.42 ।।

किल्बिषत्वमिति । किल्बिषत्वम् अपयशोरूपमालिन्यम् । नरेन्द्राणामित्यनेन सजातीयेष्वेकेन कृतमपयश: सर्वानपि स्पृशति सर्वे राजान एवंविधा इति । अन्यानि वरदानविरुद्धानि ।। 2.12.42 ।।

शैब्य: श्येनकपोतीये स्वमांसं पक्षिणे ददौ ।

अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ।। 2.12.43 ।।

दुष्करस्यापि प्रतिज्ञातस्य कर्त्तव्यत्वं पूर्वचक्रवर्त्त्यनुष्ठानेन दर्शयति–शैब्य इति । शैब्यो राजा श्येनकपोतीये श्येनकपोतयोर्विरोधे प्राप्ते । पक्षिणे श्येनाय । स्वमांसं कपोतमांसप्रतिनिधित्वेन ददौ । इत्थं किल पौराणिकी गाथा–इन्द्राग्नी श्येनकपोतौ भूत्वा शैब्यौदार्यं परीक्षितुं भक्षकभक्ष्यभावमापन्नौ शैब्यसमीपमागतौ । तत्र कपोतो ऽभयार्थी शैब्याङ्कमाविवेश । तस्मै च सो ऽभयं ददौ । तत: श्येनेन मद्भक्षणं दैवविहितं त्यजेत्युक्ते नाहं त्यजेयम्, अपि तु तत्प्रतिनिधिमांसमेव ददामीत्युक्ते तर्हि त्वन्मांसमेव मे प्रयच्छ नान्यदित्युक्ते स्वमांसमपि सर्वं दत्तवानिति । अलर्कश्च राजर्षिर्ब्राह्मणायान्धाय वरं प्रतिश्रुत्य तेन राजचक्षुषा स्वचक्षु:प्रतिसन्धाने अर्थिते स्वचक्षुषी दत्त्वा उत्तमां गतिं जगाम ।। 2.12.43 ।।

सागर: समयं कृत्वा न वेलामतिवर्त्तते ।

समयं मानृतं कार्षी: पूर्वं वृत्तमनुस्मरन् ।। 2.12.44 ।।

किंच सागर: समुद्रो देवै: प्रार्थितो वेलानतिलङ्घनाय तत्तेभ्य: प्रतिश्रुत्या ऽद्यापि वेलां नातिवर्त्तते । तस्मात्त्वमपि पूर्वशैब्यादिवृत्तान्तमनुस्मरन् समयं प्रतिज्ञाम् । अनृतं मिथ्याभूतं माकार्षी: ।। 2.12.44 ।।

स त्वं धर्मं परित्यज्य रामं राज्ये ऽभिषिच्य च ।

सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ।। 2.12.45 ।।

एवं न्यायमुक्त्वा तदनुमोदमानं प्रत्याह–स त्वमिति ।। 2.12.45 ।।

भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् ।

यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रम: ।। 2.12.46 ।।

स्वसिद्धान्तमाह–भवत्विति । मदुक्तो रामविवासनपूर्वको भरताभिषेक: धर्मो वा अधर्मो वा भवतु ‘रामं प्रव्राजयारण्यम्’ इत्यादिमदुक्तं वचनं सत्यं समीचीनं वा अनृतं असमीचीनं वा भवतु, त्वया यन्मह्यं संश्रुतं शपथपूर्वकं दास्यामीति प्रतिज्ञातं तस्य व्यतिक्रमो ऽन्यथाभावो नास्तीति योजना ।। 2.12.46 ।।

अहं हि विषमद्यैव पीत्वा बहु तवाग्रत: ।

पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ।। 2.12.47 ।।

व्यतिक्रमे किं करिष्यसीत्यत्राह–अहमिति ।। 2.12.47 ।।

एकाहमपि पश्येयं यद्यहं राममातरम् ।

अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ।। 2.12.48 ।।

भरतेनात्मना चाहं शपे ते मनुजाधिप ।

यथा नान्येन तुष्येयमृते रामविवासनात् ।। 2.12.49 ।।

एतावदुक्त्वा वचनं कैकेयी विरराम ह ।

विलपन्तं च राजानं न प्रतिव्याजहार सा ।। 2.12.50 ।।

कौसल्यातो ऽप्यधिकं भोगं तव दास्यामीत्यत्र तत्प्राधान्यं न सह इत्याह–एकाहमिति । अञ्जलिं प्रतिगृह्णन्तीं राजमातृत्वेन सर्वेषामिति शेष: । श्रेय: तदा तदपेक्षयेति शेष: ।। 2.12.4850 ।।

श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् ।

रामस्य च वने वासमैश्वर्यं भरतस्य च ।। 2.12.51 ।।

श्रुत्वेति । वनवासैश्वर्यरूपं वृतं वरमितिसम्बन्ध: ।। 2.12.51 ।।

नाभ्यभाषत कैकेयीं मुहूर्त्तं व्याकुलेन्द्रिय: ।

प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ।। 2.12.52 ।।

नाभ्यभाषतोति । प्रैक्षतानिमिष इति निरन्तरचिन्तावशात् क्रोधाद्वा निर्निमेषप्रेक्षणम् ।। 2.12.52 ।।

तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् ।

दु:खशोकमयीं घोरां राजा न सुखितो ऽभवत् ।। 2.12.53 ।।

तामिति । दु:खशोकमयीमिति अनुचितभरताभिषेकात् दु:खम्, रामविवासनाच्छोक: ।। 2.12.53 ।।

स देव्या व्यवसायं च घोरं च शपथं कृतम् ।

ध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत् ।। 2.12.54 ।।

स इति । शपथं कृतं स्वेनेति शेष: । निश्वस्येति अशक्यप्रतीकारत्वादिति भाव: ।। 2.12.54 ।।

नष्टचित्तो यथोन्मत्तो विपरीतो यथातुर: ।

हृततेजा यथा सर्पो बभूव जगतीपति: ।। 2.12.55 ।।

नष्टचित्त इति । नष्टचित्त: कलुषितहृदय: । उन्मत्त: उन्मादी । विपरीत: सन्निपातादिना विपरीतप्रकृति: । आतुर: व्याधित: । “व्याधितो ऽपटुरातुर:” इत्यमर: । हृततेजा: मन्त्रापहृतवीर्य: ।। 2.12.55 ।।

दीनया तु गिरा राजा इति होवाच कैकयीम् ।। 2.12.56 ।।

दीनयेति ।। 2.12.56 ।।

अनर्थमिममर्थाभं केन त्वमुपदर्शिता ।

भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ।। 2.12.57 ।।

अनर्थमित्यादि । उपदर्शिता बोधिता ।। 2.12.57 ।।

शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ।

बालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ।। 2.12.58 ।।

शीलव्यसनं सद्वृत्तभ्रंशम्, “व्यसनं विपदि भ्रंशे” इत्यमर: । नाभिजानामि किन्तु शीलमेवाभिजानामि । तत्र हेतुमाह बालाया इति । इदानीं प्रौढतायां तत् शीलं विपरीतवत् । भावप्रधानो निर्देश: । स्वार्थे वतिर्वा ।। 2.12.58 ।।

कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ।। 2.12.59 ।।

कुत इति । कुतो निमित्तात् ।। 2.12.59 ।।

राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।

विरमैतेन भावेन त्वमेतेनानृतेन वा ।

यदि भर्तु: प्रियं कार्यं लोकस्य भरतस्य च ।। 2.12.60 ।।

एवंविधमित्यस्यैव विवरणम्–राष्ट्र इति । वने राघवमिति आसीनमित्यनुषङ्ग: । एतेन भावेन भरताभिषेकरूपेण । विरम मा प्रवर्त्तिष्ठा: । अनृतेन अनृतपदवाच्येन एतेन वा रामविवासनरूपेण भावेन वा विरमेति सम्बन्ध: ।। 2.12.60 ।।

नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि ।

किन्नु दु:खमलीकं वा मयि रामे च पश्यसि ।। 2.12.61 ।।

न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् ।

रामादपि हितं मन्ये धर्मतो बलवत्तरम् ।। 2.12.62 ।।

नृशंस इति । नृशंसे निर्दये । तत्र हेतु: पापसङ्कल्प इति । रामविवासनरूपपापसङ्कल्पे । तत्रापि हेतु: क्षुद्र इति । अल्पमतिके । तत्रापि हेतु: दुष्कृतकारिणीते । जन्मान्तरे पापकारिणीत्यर्थ: । दु:खं दु:खनिमित्तम् । अलीकं अप्रियम् । “अलीकं त्वप्रिये ऽनृते” इत्यमर: ।। 2.12.6162 ।।

कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ।

मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ।। 2.12.63 ।।

कथमिति । वनं गच्छेति मया भाषिते सति विवर्णं विपरीतवर्णत्वमापादितम् । रामस्य मुखवर्णम् उपप्लुतं राहुग्रस्तमिव कथं द्रक्ष्यामीति सम्बन्ध: ।। 2.12.63 ।।

तां हि मे सुकृतां बुद्धिं सुहृद्भि: सह निश्चिताम् ।

कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ।। 2.12.64 ।।

तामिति । तां बुद्धिस्थां सुकृतां मन्त्रिभि: सह सुष्टु निश्चिताम् । अथ सुहृद्भिस्सह निश्चितां बुद्धिम् अपावृत्तां अधरोत्तरीकृतां कथं द्रक्ष्यामि अनुभविष्यामि ।। 2.12.64 ।।

किं मां वक्ष्यन्ति राजानो नानादिग्भ्य: समागता: ।

बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ।। 2.12.65 ।।

किमिति । बतेति खेदे । ऐक्ष्वाक: राम: । राज्यमकारयत् किमकरोत् इति मां किं वक्ष्यन्तीतिसम्बन्ध: । यद्वा बाल: अज्ञ: दशरथ: घुणक्षतलिपिन्यायेन दैवाच्चिरं राज्यमकरोदिति मां वक्ष्यन्ति किमिति ।। 2.12.65 ।।

यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुता: ।

परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ।। 2.12.66 ।।

यदेति । यदा श्व:प्रात: वृद्धा: काकुत्स्थं प्रक्ष्यन्ति क्व गतो राम: कुतो नाभिषिक्त इति प्रक्ष्यन्ति, तदाहं किं वक्ष्यामि प्रत्युत्तरम् ।। 2.12.66 ।।

कैकेय्या क्लिश्यमानेन पुत्र: प्रव्राजितो मया ।

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।। 2.12.67 ।।

कैकेयीवरप्रदाननिमित्तं प्रव्राजित इत्युच्यतामित्यत्राह–कैकेय्येति । कैकेय्या क्लिश्यमानेन पूर्वदत्तौ वरौ भरताभिषेकरामविवासनरूपेण दातव्यावित्युक्तवत्या कैकेय्या पीड्यमानेन मया प्रव्राजित इत्येतत्सत्यं यदि ब्रवीमि तदा तत् राममभिषेक्ष्यामीति वचनं असत्यं भविष्यति, तद्बाधो न सम्भवति । पूर्वप्रवृत्तत्वादिति भाव: ।। 2.12.67 ।।

किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ।

किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ।। 2.12.68 ।।

किमिति । किं मां वक्ष्यति, मत्पुत्रेण ते किमपराद्धमित्येवं वक्ष्यतीति भाव: । किं प्रतिवक्ष्यामि, न किमपीत्यर्थ: ।। 2.12.68 ।।

यदा यदा हि कौसल्या दासीवच्च सखीव च ।

भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।। 2.12.69 ।।

सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ।

न मया सत्कृता देवी सत्कारार्हा कृते तव ।। 2.12.70 ।।

यदेत्यादि श्लोकद्वयमेकान्वयम् । यदा यदा उपतिष्ठति तत्तदुचितकृत्येनोपस्ते तदातदा सत्कारार्हा तव कृते न सत्कृता । तव विप्रियं भविष्यतीति सा न सत्कृतेत्यर्थ: । परिचर्याकाले दासीवत्परिचरति न महिषीत्वं पुरस्करोति । द्यूतक्रीडादिसमये सखीव व्यवहरति । धर्मानुष्ठानसमये भार्यावत् भार्य्यया यथा वर्तितव्यं तथा वर्तते न तु महिषीत्वाभिमानेन जोषमास्त इत्यर्थ: । भार्य्यान्तरविवाहसमये भगिनीवत् सोदरीव । उपलालयति शरीरपोषणादिदशायां मातृवद्धितपरा तिष्ठतीति भाव: ।। 2.12.6970 ।।

इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ।

अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ।। 2.12.71 ।।

इदानीमिति । इदानीं तवद्दौर्ज्जन्यदर्शनकाले त्वयि विषये । मया यत्सुकृतं सुष्ठूपचरितं तत् अपथ्यव्यञ्जनोपेतं दध्याद्युपस्कृतमन्नम् आतुरं व्याधितमिव मां तपति तापयति । अन्तर्भावितण्यर्थो ऽयम् । त्वय्युपचाराकरणे सम्प्रति मम ताप एव न भवेत् । एतादृशवाल्लभ्याभावादिति भाव: ।। 2.12.71 ।।

विप्रकारं च रामस्य सम्प्रयाणं वनस्य च ।

सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ।। 2.12.72 ।।

विप्रकारमिति । विप्रकारं विपरीतप्रकारम्, अभिषेकतिरस्कारमित्यर्थ: । वनस्येति कर्मणि षष्ठी । भीता मत्पुत्रस्य विप्रकार: किमुतेति भीता । मे माम् ।। 2.12.72 ।।

कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ।

मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ।। 2.12.73 ।।

वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ।

हीना हिमवत: पार्श्वे किन्नरेणेव किन्नरी ।। 2.12.74 ।।

न हि राममहं दृष्ट्वा प्रविशन्तं महावने ।

चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ।। 2.12.75 ।।

सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ।

न हि प्रव्राजिते रामे देवि जीवितुमुत्सहे ।। 2.12.76 ।।

कृपणमिति । श्रोष्यतीति यत् तत् कृपणं कष्टम् बतेति योजना ।। 2.12.7376 ।।

सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् ।

रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नर: ।। 2.12.77 ।।

सतीमिति । पूर्वं सतीत्वेन ज्ञातां त्वामिदानीमनेन व्यापारेण असतीं सतीं असतीत्वेन स्थितां व्यवस्यामि । कथमिव ? रूपिणीं दृष्टिप्रियां विषसंयुक्तां मदिरां मद्यविशेषं पीत्वा नर: पानानन्तरं तामसतीं दुष्टामध्यवस्यति तथा कार्यकाले त्वामसतीमध्यवस्यामीत्यर्थ: ।। 2.12.77 ।।

अनृतैर्बहु मां सान्त्वै: सान्त्वयन्ती स्म भाषसे ।

गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधी: ।। 2.12.78 ।।

अनृतैरिति । अनृतै: सान्त्वैरिष्टवचनै मां सान्त्वयन्ती सती भाषसे स्म । अत: गीतशब्देन मृगवशीकरणहेतुगानशब्देन संरुध्य मृगं लुब्ध: व्याध: इव मामवधी: ।। 2.12.78 ।।

अनार्य इति मामार्या: पुत्रविक्रायिकं ध्रुवम् ।

धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ।। 2.12.79 ।।

अनार्य इति । पुत्रविक्रायिकं पुत्रमूल्येन स्त्रीसुखक्रेतारं माम् आर्यास्सन्त: अयमनार्य: पुत्रविक्रयपापकृदिति धिक्करिष्यन्ति ।। 2.12.79 ।।

अहो दु:खमहो कृच्छ्रं यत्र वाच: क्षमे तव ।

दु:खमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ।। 2.12.80 ।।

एतादृशदु:खस्याननुभूतत्वाद् विषादातिशयेन विस्मयते–अहो इति । कृच्छ्रं कष्टं “स्यात् कष्टं कृच्छ्रम्” इत्यमर: । एतादृशदु:खकृच्छ्रे कदाचिदपि मया न प्राप्ते इत्यर्थ: । किञ्च यस्मिन् वरप्रदानविषये । तव वाच: क्षमे एवंविधं दु:खं पुराकृतम् । अशुभमिवाशुभफलमिव प्राप्तम् ।। 2.12.80 ।।

चिरं खलु मया पापे त्वं पापेनाभिरक्षिता ।

अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ।। 2.12.81 ।।

सौख्यार्थं कृतं त्वद्रक्षणं स्वनाशाय परिणतमिति खिद्यति–चिरमित्यादिना ।। 2.12.81 ।।

रममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये ।

बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।। 2.12.82 ।।

रममाण इति । नाभिलक्षये किंत्वस्पृशमिति योजना ।। 2.12.82 ।।

मया ह्यपितृक: पुत्र: स महात्मा दुरात्मना ।

तं तु मां जीव लोको ऽयं नूनमाक्रोष्टुमर्हति ।। 2.12.83 ।।

मयेति । अपितृक: पितृकृतरक्षणादिरहित इत्यर्थ: । आसीदिति शेष: । तं तथाविधं माम् । आक्रोष्टुम् आक्रोशं कर्त्तुम् ।। 2.12.83 ।।

बालिशो बत कामात्मा राजा दशरथो भृशम् ।

स्त्रीकृते य: प्रियं पुत्रं वनं प्रस्थापयिष्यति ।। 2.12.84 ।।

आक्रोशप्रकारमाह–बालिश इति । बालिश: मूर्ख: “मुर्खवैधेय बालिशा:” इत्यमर: ।। 2.12.84 ।।

व्रतैश्च ब्रह्मचर्यैश्चगुरुभिश्चोपकर्शित: ।

भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ।। 2.12.85 ।।

व्रतैरिति । व्रतै: काण्डव्रतै: । ब्रह्मचर्यै: मधुमांसवर्जनादिब्रह्मचारिधर्मै: । गुरुभि: गुरुकृतशिक्षादिभि: । भोगकाले गार्हस्थ्यावस्थायाम् ।। 2.12.85 ।।

नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ।

स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।। 2.12.86 ।।

नालमिति । स: पुत्र: वनं प्रव्रजेत्युक्त: सन् द्वितीयं वचनं परिहारवचनं मां प्रति भाषितुं नालम्, किन्तु बाढमित्येव वक्ष्यति । बाढमित्यङ्गीकारोक्ति: ।। 2.12.86 ।।

यदि मे राघव: कुर्याद्वनं गच्छेति चोदित: ।

प्रतिकूलं प्रियं मे स्यान्न तु वत्स: करिष्यति ।। 2.12.87 ।।

यदीति । मे मया वनङ्गच्छेति चोदितो राम: प्रतिकूलं वनं प्रत्यगमनं यदि कुर्यात्तदा मे प्रियं स्यात् । वत्सस्तु तन्न करिष्यति ।। 2.12.87 ।।

शुद्धभावो हि भावं मे न तु ज्ञास्यति राघव: ।

स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।। 2.12.88 ।।

शुद्धभाव: शुद्धहृदय: । मे भावं हृदयं न ज्ञास्यति । मां शुद्धतया जानन् मम वचनहृदयं न ज्ञास्यतीति भाव: । अतो बाढमित्येव वक्ष्यतीति सम्बन्ध: ।। 2.12.88 ।।

राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् ।

मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ।। 2.12.89 ।।

राघव इति । सर्वलोकस्य सर्वजनस्य “लोकस्तु भुवने जने” इत्यमर: । धिक्कृतं धिक्करणम् । अक्षमणीयं क्षन्तुमशक्यम्, किन्तु मृत्युर्मां यमक्षयं यमगृहं नयिष्यति ।। 2.12.89 ।।

मृते मयि गते रामे वनं मनुजपुङ्गवे ।

इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ।। 2.12.90 ।।

मृत इति । शेषे कौसल्यादौ । किं पापं कमन्यायं प्रतिपत्स्यसे चिन्तयिष्यसि ।। 2.12.90 ।।

कौसल्यां मां च रामं च पुत्रौ च यदि हास्यति ।

दु:खान्यसहती देवी मामेवानुमरिष्यति ।। 2.12.91 ।।

कौसल्यामिति । पुत्रौ लक्ष्मणशत्रुघ्नौ । देवी सुमित्रा ।। 2.12.91 ।।

कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभि: सह ।

प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ।। 2.12.92 ।।

कौसल्यामिति । अत्र नरकशब्देन दु:खं लक्ष्यते ।। 2.12.92 ।।

मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणै: ।

इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ।। 2.12.93 ।।

प्रियं चेद्भ्ारतस्यैतद्रामप्रवाजनं भवेत् ।

मा स्म मे भरत: कार्षीत् प्रेतकृत्यं गतायुष: ।। 2.12.94 ।।

हन्तानार्ये ममा मित्रे सकामा भव कैकयि ।

मृते मयि गते रामे वनं पुरुषपुङ्गवे ।। 2.12.95 ।।

सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ।। 2.12.96 ।।

मयेति । आकुलं क्षुभितंपालयिष्यसि ।। 2.12.9396 ।।

त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि ।

अकीर्त्तिश्चातुला लोके ध्रुव: परिभवश्च मे ।

सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।। 2.12.97 ।।

कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहु: ।

पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ।। 2.12.98 ।।

त्वमित्याद्यर्धत्रयमेकान्वयम् । अकीर्त्यादित्रयरूपा त्वं राजपुत्रीवादेन राजपुत्रीव्यपदेशेन मम वेश्मनि न्यवस: । परिभव: महाजनसमक्षं धिक्कार: । अवज्ञा क्षुद्रत्वेन प्रतिपत्ति: ।। 2.12.9798 ।।

यस्य त्वाहारसमये सूदा: कुण्डलधारिण: ।

अहंपूर्वा: पचन्ति स्म प्रशस्तं पानभोजनम् ।। 2.12.99 ।।

यस्येति । सूदा: पाचका: । अहंपूर्वा: अहमहमिकावन्त: । प्रशस्तम् “आयु: सत्त्वबलारोग्यसुखप्रीतिविवर्द्धना: । रस्या: स्निग्धा: स्थिरा हृद्या आहारा: सात्विकप्रिया: ।।” इत्युक्तप्रकारेण श्रेष्ठम् ।। 2.12.99 ।।

स कथं नु कषायाणि तिक्तानि कटुकानि च ।

भक्षयन् वन्यमाहारं सुतो मे वर्त्तयिष्यति ।। 2.12.100 ।।

स इति । कषायादित्रयरूपं वन्यमाहारं भक्षयन् कथं नु वर्तयिष्यति केनप्रकारेण जीविष्यति ।। 2.12.100 ।।

महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषित: ।

काषायपरिधानस्तु कथं भूमौ निवत्स्यति ।। 2.12.101 ।।

महार्हेति । महार्हेण अतिश्लाघ्येन वस्त्रेण । संवीत: संवृत: । चिरसुखोषित: चिरकालं सुखास्तरणोषित: । काषायपरिधान: कषायेण रक्तं काषायम् । काषायं परिधानं वस्त्रं यस्य स तथोक्त: ।। 2.12.101 ।।

कस्यैतद्दारुणं वाक्यमेवंविधमचिन्तितम् ।

रामस्यारण्यगमनं भरतस्याभिषेचनम् ।। 2.12.102 ।।

कस्येति । रामस्यारण्यगमनं भरतस्याभिषेचनमित्येवंविधमेतद्वाक्यं कस्य केनोपदिष्टमित्यर्थ: । यद्वा कस्य सह्यमिति शेष: ।। 2.12.102 ।।

धिगस्तु योषितो नाम शठा: स्वार्थपरास्सदा ।

न ब्रवीमि स्त्रिय: सर्वा भरतस्यैव मातरम् ।। 2.12.103 ।।

धिगिति । शठा: गूढविप्रयकारिण्य: । कौसल्यादिषु तदसम्भवादाह न ब्रवीमिति ।। 2.12.103 ।।

अनर्थभावे ऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे ।

किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ।। 2.12.104 ।।

अनर्थभाव इति । मन्निमित्तं मत्कारणकं रामे रामनिमित्तकं वा ।। 2.12.104 ।।

परित्यजेयु: पितरो हि पुत्रान् भार्या: पतींश्चापि कृतानुरागा: ।

कृत्स्नं हि सर्वं कुपितं जगत् स्याद्दृष्ट्वैव रामं व्यसने निमग्नम् ।। 2.12.105 ।।

परित्यजेयुरिति । कृत्स्नं जगत् गच्छतीति व्युत्पत्त्या जगच्छब्देन जीववर्ग उच्यते । सर्वशब्देन स्थावरजातमुच्यते । कुपितं त्वां प्रतीति शेष: ।। 2.12.105 ।।

अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमाव्रजन्तम् ।

नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ।। 2.12.106 ।।

अहमिति । अहं पुन: अहं तु मत्स्वभाव: लौकिकेभ्यो भिन्न: । देवकुमाररूपं निसर्गसुन्दरम् । अलंकृतम् अलङ्कारैरतिशयितशोभम् । चन्द्रकान्ताननमित्यस्य हृदि विपरिनवर्त्तमानत्वात्तमित्युक्तम् । सुतं सौन्दर्याद्यभावेपि सुतत्वप्रयुक्तप्रेमास्पदम् । आव्रजन्तं ‘मत्तमातङ्गगामिनम्’ इत्युक्तरीत्या गमनकालिकसम्भ्रमविशेषशालिनम् । दर्शनेन मानसज्ञानेन पश्यन्नपि नन्दामि । दृष्ट्वा पुन: साक्षात्कृत्य यु युवेव भवामि, युववद्धृष्टपुष्टाङ्गो भवामि ।। 2.12.106 ।।

विनापि सूर्येण्ा भवेत्प्रवृत्तिरवर्षता वज्रधरेण वापि ।

रामं तु गच्छन्तमित: समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ।। 2.12.107 ।।

विनेति । प्रवृत्ति: सञ्चार: । चेतना बुद्धि: । वज्रधरपक्षे प्रवृत्तिशब्देन जीवनविषयप्रवृत्तिरुच्यते ।। 2.12.107 ।।

विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् ।

चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतो ऽस्मि मोहात् ।। 2.12.108 ।।

विनाशकामामिति । मोहात् आवासयं, गृह इति शेष: । सर्पी सर्पजाति: । जातिलक्षणो ङीष् । त्वं मोहादङ्केन धृतासि । तेन अङ्कधारणेन ।। 2.12.108 ।।

मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह ।

पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी ।। 2.12.109 ।।

मयेति । सलक्ष्मणेन रामेण मया च हीनो भरतस्त्वया सह पुरं राष्ट्रं बान्धवांश्च निहत्य प्रशास्तु पुरादिहननरूपं प्रशासनं करोतु । ममाहितानां शत्रूणां च अभिहर्षिणी भवेतिसम्बन्ध: ।। 2.12.109 ।।

नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे ।

न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशना: सहस्रधा ।। 2.12.110 ।।

नृशंसवृत्त इति । नृशंसवृत्ते क्रूरव्यापारे व्यसनप्रहारिणिक्षते प्रहारन्यायेन विपदि प्रहरणशीले रामविरहासहनं विपत् तत्र प्रहार: पुन:पुनश्चोदनम् । त्वम् इह देशे । अद्यास्मिन् काले । प्रसह्य पतिस्वातन्त्र्यं तिरस्कृत्य । यद्वाक्यं भाषसे तत्र ते मुखात् दशना: सहस्रधा विशीर्णा: सन्त: केन नाम हेतुना न पतन्तीति सम्बन्ध: ।। 2.12.110 ।।

न च किञ्चिदाहाहितमप्रियं वचो न वेत्ति राम: परुषाणि भाषितुम् ।

कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते ।। 2.12.111 ।।

न किञ्चिदिति । राम: अहितमप्रियं च किञ्चिद्वचो नाह, परुषाणि भाषितुं न वेत्ति । ज्ञानपूर्वकत्वात् भाषणस्य कुतस्तत्प्रसक्तिरिति भाव: । न केवलं परुषावेदनं प्रत्युताभिरामवादिनि सर्वप्रियभाषिणि । गुणैर्नित्यं संमते रामे कथं नु दोषान् प्रव्राजनहेतून् ब्रवीषि ।। 2.12.111 ।।

प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज ।

न ते करिष्यामि वच: सुदारुणं ममाहितं केकयराजपांसनि ।। 2.12.112 ।।

प्रताम्येति । प्रताम्य ग्लानिं भज । ताम्यतेर्लोण् मध्यमपुरुषैकवचनम् । प्रज्वल कुपिता भव । प्रणश्च नष्टा भव । सहस्रश: स्फुटिता सती महीं व्रज वा, भृगो: पत वेत्यर्थ: । केकयराजानां पांसनि दूषणि ।। 2.12.112 ।।

क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम् ।

न जीवितुं त्वां विषहे ऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ।। 2.12.113 ।।

क्षुरोपमामिति । क्षुरोपमां तद्वत्क्रूराम् । असत्प्रियंवदां मिथ्या प्रियवादिनीम् । प्रदुष्टभावां प्रकर्षेण दुष्टहृदयाम् । अमनोरमामिति पदच्छेद: । सबन्धनं समूलं प्राणरूपमूलसहितम् “प्राणबन्धनं हि सौम्यमन:” इतिश्रुते: । सदिन्धनमितिपाठे–हृदयमेव सदिन्धनम् । दिधक्षमाणां दग्धुमिच्छन्तीम् । त्वां जीवितुं जीवयितुम् । न विषहे नोत्सहे ।। 2.12.113 ।।

न जीवितं मे ऽस्ति कुत: पुन: सुखं विनात्मजेनात्मवत: कुतो रति: ।

ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ।। 2.12.114 ।।

नेति । रतिस्त्वद्विषयेति शेष: । यदेवमत आह ममाहितमिति । आत्मवत: जीवत इत्यर्थ: ।। 2.12.114 ।।

स भूमिपलो विलपन्ननाथवत् स्त्रिया गृहीतो हृदये ऽतिमात्रया ।

पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा ।। 2.12.115 ।।

स इति । अतिमात्रया अमर्यादया स्त्रिया । हृदये गृहीत: तदधीनहृदय इत्यर्थ: । भूमिपालोपि तां निग्रहीतुमसमर्थ इत्यर्थ: । अनाथवद्विलपन् त्वां जीवयितुं नोत्सहे ते पादौ स्पृशामि प्रसीदेत्यनवस्थितवचनानि भाषमाण: । प्रसारितावित्यनेनानादर उक्त: । असंस्पृश्येत्यनेन पिस्पृक्षायामेवमूर्च्छा जातेति गम्यते ।। 2.12.115 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादश: सर्ग: ।। 12 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वादश: सर्ग: ।। 12 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.