15 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

पञ्चदश: सर्ग:

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगा: ।

उपतस्थुरुपस्थानं सह राजपुरोहिता: ।। 2.15.1 ।।

अथ रामाभिषेकसामग्रीसन्निधानमाह पञ्चदशे–ते त्विति । उष्य उषित्वा । उपस्थानं सद: ।। 2.15.1 ।।

अमात्या बलमुख्याश्च मुख्या ये निगमस्य च ।

राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गता: ।। 2.15.2 ।।

निगमस्य पुरस्य “निगमो निश्चये वेदे पुरे पथिवणिक्पथे” इति वैजयन्ती ।। 2.15.2 ।।

उदिते विमले सूर्य्ये पुष्ये चाभ्याग ते ऽहनि ।

लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ।

अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ।। 2.15.3 ।।

उदित इति । उपकल्पितम्, अभिषेकार्थद्रव्यजातमिति शेष: ।। 2.15.3 ।।

काञ्चनाजलकुम्भाश्च भद्रपीठं स्वलंकृतम् ।

रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ।। 2.15.4 ।।

उपकल्पितमेव प्रपञ्चयति–काञ्चना इत्यादि । अत्र भान्तीत्यनुषज्यते ।। 2.15.4 ।।

गङ्गायमुनयो: पुण्यात् सङ्गमादाहृतं जलम् ।

याश्चान्या: सरित: पुण्या ह्रदा: कूपा: सरांसि च ।। 2.15.5 ।।

गङ्गेति । आहृतं, वर्तते इति शेष: । याश्चान्यास्सरित इत्यत्र ताभ्यश्चेत्यनुकृष्याहृतमिति पूर्वेण सम्बन्ध: । ये च ह्रदा: कूपा: यानि सरांसि । अत्र तु तेभ्य इत्यध्याहार: । आहृतं जलमिति पूर्वेण सम्बन्ध: ।। 2.15.5 ।।

प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहास्समाहिता: ।

ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वश: ।। 2.15.6 ।।

प्राग्वाहा: इति । प्राग्वाहा: पूर्वाभिमुखप्रवाहा: गोदावरीकावेर्यादय: । ऊर्ध्ववाहा: ऊर्ध्वोद्गतप्रवाहा: नैमिषारण्यस्थब्रह्मावर्त्तरुद्रावर्तादिसरोविशेषा: । ऊर्ध्ववाहा: प्रत्यग्वाहा: इत्यप्याहु: । ऊर्ध्वाद्वहन्तीत्यूर्द्ध्ववाहा: । निर्झरा इतिकेचित् । तिर्य्यग्वाहा: दक्षिणोत्तराभिमुखप्रवाहा: गण्डकीशोणभद्रादय: ।। 2.15.6 ।।

सलाजा: क्षीरिभिश्छन्ना घटा: काञ्चनराजता: ।

पद्मोत्पलयुता भान्ति पूर्णा: परमवारिणा ।। 2.15.7 ।।

सलाजा इति । क्षीरिभि: अश्वत्थोदुम्बरादिभि: पूर्वं जलकुम्भमात्रमुक्तम् । अत्र तद्विशेष इति न पुनरुक्ति: ।। 2.15.7 ।।

क्षौद्रं दधि घृतं लाजा दर्भा: सुमनस: पय: ।

वेश्याश्चैव शुभाचारा: सर्वाभरणभूषिता: ।। 2.15.8 ।।

क्षौद्रमिति । क्षौद्रं मधु । सुमनस: कुसुमानि । शुभाचारा: अञ्जनस्रगलङ्करणादिमङ्गलवेषयुक्ता: ।। 2.15.8 ।।

चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम् ।

सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।। 2.15.9 ।।

चन्द्रांशुविकचप्रख्यं विकचचन्द्रांशुसदृशम् । विकचत्वं विस्तृतत्वम् । यद्वा चन्द्रांशव इव विकचा विस्तृता प्रख्या कान्तिर्यस्य तत्तथा । काञ्चनं काञ्चनदण्डम् । सज्जं गन्धपुष्पादिभिरलंकृतम् ।। 2.15.9 ।।

चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डरम् ।

सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ।। 2.15.10 ।।

चन्द्रमण्डलेति । अभिषेकपुरस्कृतम् । अभिषेकाय पुरस्कृतम् ।। 2.15.10 ।।

पाण्डरश्च वृष: सज्ज: पाण्डरो ऽश्वश्च संस्थित: ।

प्रसृतश्च गज: श्रीमानौपवाह्य: प्रतीक्षते ।। 2.15.11 ।।

पाण्डर इति । प्रसृत: प्रकर्षेणस्रवन्मद: । औपवाह्य: राजवाह्य: “राजवाह्यस्त्वौपवाह्य:” इत्यमर: ।। 2.15.11 ।।

अष्टौ च कन्या माङ्गल्या: सर्वाभरणभूषिता: ।

वादित्राणि च सर्वाणि वन्दिनश्च तथा परे ।। 2.15.12 ।।

माङ्गल्या: मङ्गलार्हा: । वादित्राणि वीणादिचतुर्विधवाद्यानि ।। 2.15.12 ।।

इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् ।

तथा जातीयमादाय राजपुत्राभिषेचनम् ।। 2.15.13 ।।

ते राजवचनात्तत्र समवेता महीपतिम् ।

अपश्यन्तो ऽब्रुवन् को नु राज्ञो न: प्रतिवेदयत् ।। 2.15.14 ।।

इक्ष्वाकूणामिति । इक्ष्वाकूणां राज्ये अभिषेचनमुद्दिश्य यथा सम्भ्रियेत, वस्तुजातमिति शेष: । तथा जातीयमनर्घरत्नादिवस्तुजातं आदाय ते महीपतय: राजवचनात् राजपुत्राभिषेचनमुद्दिश्य तत्र राजभवनद्वारे समवेता: महीपतिमपश्यन्त: राज्ञ: को नु न: प्रतिवेदयेदित्यब्रुवन्निति योजना ।। 2.15.1314 ।।

न पश्यामश्च राजानमुदितश्च दिवाकर: ।

यौवराज्याभिषेकश्च सज्जो रामस्य धीमत: ।। 2.15.15 ।।

इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ।

अब्रवीत्तानिदं सर्वान् सुमन्त्रो राजसत्कृत: ।। 2.15.16 ।।

नेति । सज्ज: सम्पन्नसाधन इत्यर्थ: ।। 2.15.1516 ।।

रामं राज्ञो नियोगेन त्वरया प्रस्थितो ऽस्म्यहम् ।

पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषत: ।। 2.15.17 ।।

अयं पृच्छामि वचनात्सुखमायुष्मतामहम् ।

राज्ञ: सम्प्रतिबुद्धस्य यच्चागमनकारणम् ।। 2.15.18 ।।

राममिति । रामं प्रस्थित:, आनेतुमिति शेष: । यस्मात् पूज्यास्तस्मात् आयुष्मतां युष्माकं वचनात् राज्ञ: सुखं पृच्छामि । यच्चागमनकारणं दर्शनायानागमनहेतु: तं च । अयमविलम्बेन पृच्छामि ।। 2.15.1718 ।।

इत्युक्त्वान्त:पुरद्वारमाजगाम पुराणवित् ।

सदासक्तं च तद्वेश्म सुमन्त्र: प्रविवेशह ।। 2.15.19 ।।

पुराणवित् सामन्तराजानुवर्त्तनरूपपुरातनवृत्तान्तज्ञ: । सदासक्तं सर्वदा अनिवारितम् ।। 2.15.19 ।।

तुष्टावास्य तदा वंशं प्रविश्य स विशांपते: ।

शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ।। 2.15.20 ।।

तुष्टावेति । शयनीयं शयनयोग्यं गृहम् ।। 2.15.20 ।।

सो ऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ।

आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ।। 2.15.21 ।।

सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ।

वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ।। 2.15.22 ।।

गता भगवती रात्रि: कृतं कृत्यमिदं तव ।

बुध्यस्व नृपशार्दूल कुरु कार्य्यमनन्तरम् ।। 2.15.23 ।।

ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ।

दर्शनं प्रतिकांक्षन्ते प्रतिबुध्यस्व राघव ।। 2.15.24 ।।

स इति । अत्यासाद्य अतिशयेन प्राप्य । अतिसमीपं प्राप्येत्यर्थ: । तिस्करणिमन्तरा जवनिकामात्रं व्यवधानं कृत्येत्यर्थ: । राघवं दशरथम् पुनस्तोत्रकरणं सूतस्य विज्ञापनात्पूर्वं स्तुते: कुलधर्मत्वात् ।। 2.15.2124 ।।

वस्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ।

प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ।। 2.15.25 ।।

राममानय सूतेति यदस्यभिहितो ऽनया ।

किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ।। 2.15.26 ।।

प्रतिबुद्ध्य ज्ञात्वेत्यर्थ: ।। 2.15.2526 ।।

न चैव सम्प्रसुप्तो ऽहमानयेहाशु राघवम् ।

इति राजा दशरथ: सूतं तत्रान्वशात् पुन: ।। 2.15.27 ।।

स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ।

निर्जगाम नृपावासान्मन्यमान: प्रियं महत् ।। 2.15.28 ।।

कैकेय्युक्तं निद्रापरवशस्य राज्ञो ऽनुमतं न वेति न संशयितव्यमित्याह–न चेत्यादिना ।। 2.15.2728 ।।

प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ।

हृष्ट: प्रमुदित: सूतो जगामाशु विलोकयन् ।। 2.15.29 ।।

प्रपन्न इति । हृष्ट: रोमाञ्चाञ्चितगात्र: । प्रमुदित: सञ्जातमानसानन्द: ।। 2.15.29 ।।

स सूतस्तत्र शुश्राव रामाधिकरणा: कथा: ।

अभिषेचनसंयुक्ता: सर्वलोकस्य हृष्टवत् ।। 2.15.30 ।।

ततो ददर्श रुचिरं कैलासशिखरप्रभम् ।

रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ।। 2.15.31 ।।

स इति । रामाधिकरणा: राममधिकृत्य प्रवृत्ता: । हृष्टवत् । स्वार्थे वति: ।। 2.15.3031 ।।

महाकवाटविहितं वितर्दिशतशोभितम् ।

काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ।। 2.15.32 ।।

महाकवाटेत्यादि । महाकवाटविहितं निर्मितमहाकवाटम् । वितर्दिशतशोभितं वेदिकाशतशोभितम् । “स्याद्वितर्दिस्तु वेदिका” इत्यमर: । काञ्चनप्रतिमैकाग्रं काञ्चनप्रतिमाभि: एकाग्रं निरन्तरम् । यद्वा काञ्चनप्रतिमाभि: एकानि मुख्यानि अग्राणि शिखराग्राणि यस्मिन् तत्तथोक्तम् । मणिविद्रुमतोरणं मणिविद्रुमप्रचुरबहिर्द्वारयुक्तम् “तोरणो ऽस्त्री बहिर्द्वारम्” इत्यमर: ।। 2.15.32 ।।

शारदाभ्रघनप्रख्यं दीप्तमेरुगुहोपमम् ।

मणिभिर्वरमाल्यानां सुमहद्भिरलङ्कृतम् ।। 2.15.33 ।।

शारदाभ्रघनप्रख्यं शारदाभ्रमूर्तिसदृशम् । “घनो मेघे मूर्तिगुणे त्रिषु मूर्त्तौ निरन्तरे” इत्यमर: ।। 2.15.33 ।।

मुक्तामणिभिराकीर्णं चन्दनागरुधूपितम् ।

गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा ।। 2.15.34 ।।

दार्दुरं मलयसंनिकृष्टश्चन्दनोत्पत्तिस्थानभूतो गिरिर्दर्दुर:, तत्सम्बन्धि दार्दुरम् ।। 2.15.34 ।।

सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ।

सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ।। 2.15.35 ।।

सुकृतेहामृगाकीर्णं द्वारभित्तिस्तम्भादिषु सुष्ठु रचितै: ईहामृगै: वृकै: आकीर्णं “कोकस्त्वीहामृगो वृक:” इत्यमर: । भक्तिभि: सुकीर्णं सुष्ठु रचितम् ।। 2.15.35 ।।

मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा ।

चन्द्रभास्करसङ्काशं कुबेरभवनोपमम् ।। 2.15.36 ।।

तिग्मतेजसा तीव्रतेजसा “तिग्मं तीव्रं खरम्” इत्यमर: । अतिशयिततेजसेत्यर्थ: ।। 2.15.36 ।।

महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ।

मेरुश्रृङ्गसमं सूतो रामवेश्म ददर्श ह ।। 2.15.37 ।।

रामवेश्म ददर्श हेति पुनर्वचनस्य सामान्योक्तस्य विशेषणविशेषकथनार्थत्वान्न पुनरुक्ति: । भगवतो वाल्मीकेरियं हि शैली ।। 2.15.37 ।।

उपस्थितै: समाकीर्णं जनैरञ्जलिकारिभि: ।

उपादाय समाक्रान्तैस्तथा जानपदैर्जनै: ।। 2.15.38 ।।

उपस्थितैरिति । उपादाय उपायनानीति शेष: । समाक्रान्तै: समागतै: ।। 2.15.38 ।।

रामाभिषेकसुमुखैरुन्मुखै: समलंकृतम् ।

महामेघसमप्रख्यमुदग्रं सुविभूषितम् ।। 2.15.39 ।।

उन्मुखै: उत्सुकै: । उदग्रम् उन्नतम् ।। 2.15.39 ।।

नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ।। 2.15.40 ।।

कुब्जकैरातकावृतं किरातानां स्वल्पशरीरकाणां समूह: कैरातकं “पृश्निरल्पशरीर: स्यात्किरात: स च कथ्यते” इति हलायुध: । उपस्थितै: समाकीर्णमित्यादिकमपि रामवेश्मेत्यनेन सम्बध्यते ।। 2.15.40 ।।

स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन् ।

वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि रञ्जयत् ।। 2.15.41 ।।

स वाजियुक्तेनेति । वरूथिना रथगुप्तिमता । “रथगुप्तिर्वरूथो ना” इत्यमर: । पुरस्य पुरस्थजनस्य । रञ्जयत् अरञ्जयत् ।। 2.15.41 ।।

तत: समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथि: ।

मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव ।। 2.15.42 ।।

तत इति । समाकुलोल्बणम् इतस्तत: समाकुलैर्जनैरुल्बणम् अतिशयेनोल्बणं वा । वरार्हस्य श्रेष्ठवस्त्वर्हस्य, रामस्येति शेष: ।। 2.15.42 ।।

स तत्र कैलासनिभा: स्वलंकृता: प्रविश्य कक्ष्यास्त्रिदशालयोपमा: ।

प्रियान्नरान् राममते स्थितान् बहूनपोह्य शुद्धान्तमुपस्थितो रथी ।। 2.15.43 ।।

स इति । अपोह्य अतिक्रम्य । शुद्धान्तम् अन्त:पुरम् ।। 2.15.43 ।।

स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृता जनानाम् ।

नरेन्द्रसूनोरभिमङ्गलार्थास्सर्वस्य लोकस्य गिर: प्रहृष्ट: ।। 2.15.44 ।।

स इति । रामाभिषेकार्थकृता रामाभिषेकार्थं प्रयुक्ता इत्यर्थ: । अभिमङ्गलार्था: अभितो मङ्गलप्रतिपादनप्रयोजना: ।। 2.15.44 ।।

महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम् ।

ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्र: ।। 2.15.45 ।।

महेन्द्रसद्मप्रतिममिति । वेश्म रामावासभूतं गृहराजम् ।। 2.15.45 ।।

उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैश्च मर्त्यै: ।

कोट्या परार्द्धैश्च विमुक्तयानै: समाकुलं द्वारपथं ददर्श ।। 2.15.46 ।।

उपस्थितैरिति । कोट्या कोटिसङ्ख्यया । परार्द्धै: परार्द्धसङ्ख्यया च सङ्ख्येयै:, सर्वान्तसङ्ख्या परार्द्ध: ।। 2.15.46 ।।

ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमप्रसह्यम् ।

रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम् ।। 2.15.47 ।।

तत इति । प्रभिन्नं मत्तम् । “प्रभिन्नो गर्जितो मत्त:” इत्यमर: ।। 2.15.47 ।।

स्वलंकृतान् साश्वरथान् सकुञ्जरानमात्यमुख्यान् शतशश्च वल्लभान् ।

व्यापोह्य सूत: सहितान् समन्तत: समृद्धमन्त:पुरमाविवेश ।। 2.15.48 ।।

स्वलंकृतानिति । वल्लभान् राजप्रियान् ।। 2.15.48 ।।

तदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत् ।

अवार्यमाण: प्रविवेश सारथि: प्रभूतरत्नं मकरो यथार्णवम् ।। 2.15.49 ।।

तदिति । अद्रिकूटाचलमेघसन्निभम् अद्रिशिखरेण निश्चलमेघेन च सदृशम् । महाविमानोत्तमवेश्मसङ्घवत् महाविमानसहितोत्तमवेश्मसमूहयुक्तम् “विमानो ऽस्त्री देवयाने सप्तभूमौ च सद्मनि” इति निघण्टु: ।। 2.15.49 ।।

इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे पञ्चदश: सर्ग: ।। 15 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने प़ञ्चदशस्सर्ग: ।। 15 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.