22 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे

द्वाविंश: सर्ग:

अथ तं व्यथया दीनं सविशेषममर्षितम् ।

श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ।। 2.22.1 ।।

आसाद्य राम: सौमित्रिं सुहृदं भ्रातरं प्रियम् ।

उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ।। 2.22.2 ।।

अथ राम: सौमित्रे: कैकेयीविषयं रोषमुपशमयति–अथेत्यादिश्लोकद्वयमेकं वाक्यम् । सविशेषमन्तरङ्गजनापेक्षया सातिशयम् । अमर्षितं प्राप्तासहनम् । रोषविस्फारितेक्षणं क्रोधविस्तारितनयनम् । आसाद्य अभिमुखीकृत्य । सुहृत्त्वादिविशेषणं कोपेप्यनुपेक्षणीयत्वाय । सत्त्वं सर्वविषयकं स्वं बलम् । धैर्येण धारयन् अप्रकटयन् । आत्मवान् प्रशस्तमना:, वश्यमनस्क इत्यर्थ: ।। 2.22.12 ।।

निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् ।

अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ।। 2.22.3 ।।

उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे ।

सर्वं विसर्जयक्षिप्रं पुरु कार्यं निरत्ययम् ।। 2.22.4 ।।

निगृह्येत्युपक्लृप्तमिति च श्लोकद्वयमेकान्वयम् । रोषं पित्रादि विषयम् । शोकं मद्विषयम् । रोषशोकयोर्निग्रहे हेतुमाह धैर्ममाश्रित्येति । केवलमिति धैर्यनैरन्तर्यमुच्यते । अवमानम् आरब्धाभिषेकत्यागपूर्वकवनगमनम् । निरस्य निजदौर्बल्यकृतत्वाभावान्निवार्य । उत्तमं हर्षं सत्यपरिपालनेन पितरं तारयिष्याम इति बुद्धिजन्यम् । मे ऽभिषेकार्थमुपक्लृप्तं सम्पादितं यत्किञ्चिदलङ्कारादिकं तत्सर्वं विसर्ज्जय । निरत्ययं निरपायं, सत्यपरिपालनोपयुक्तं । कार्यं वल्कलधारणादिकं कुरु ।। 2.22.3,4 ।।

सौमित्रे यो ऽभिषेकार्थे मम सम्भारसम्भ्रम: ।

अभिषेकनिवृत्त्यर्थे सो ऽस्तु सम्भारसम्भ्रम: ।। 2.22.5 ।।

सौमित्र इति । सम्भारसम्भ्रम: सम्भारसम्पादनविषयोत्साह: । अभिषेकनिवृत्त्यर्थे अभिषेकनिवृत्तिरूपवनवासार्थे । स सम्भारसम्भ्रमो ऽस्तु वनवासोचितसाधनसम्पादनविषयो भवत्वित्यर्थ: ।। 2.22.5 ।।

यस्या मदभिषेकार्थे मानसं परितप्यते ।

माता मे सा यथा न स्यात् सविशङ्का तथा कुरु ।। 2.22.6 ।।

यस्या इति । मदभिषेकार्थे मदभिषेकप्रयोजनविषये । माता कैकेयी सविशङ्का लक्ष्मणेन सम्मन्त्र्य राज्यं पुन: किं रामो ग्रहिष्यतीति शङ्कावती ।। 22.22.6 ।।

तस्या: शङ्कामयं दु:खं मुहूर्त्तमपि नोत्सहे ।

मनसि प्रतिसञ्जातं सौमित्रे ऽहमुपेक्षितुम् ।। 2.22.7 ।।

तस्या: कैकेय्या: । शङ्कामयं शङ्कारूपम् । स्वार्थे मयट् । प्राचुर्ये वा ।। 2.22.7 ।।

न बुद्धिपूर्वं नाबुद्धंस्मरामीह कदाचन ।

मातृ़णां वा पितुर्वाहं कृतमल्पं च विप्रियम् ।। 2.22.8 ।।

नेति । मातृ़णां पितुर्वा विषये कदाचन कृतं बुद्धिपूर्वमपि विप्रियं न स्मरामि । अबुद्धम् अबुद्धिपूर्वकमपि विप्रियं न स्मरामि ।। 2.22.8 ।।

सत्य: सत्याभिसन्धश्च नित्यं सत्यपराक्रम: ।

परलोकभयाद्भीतो निर्भयो ऽस्तु पिता मम ।। 2.22.9 ।।

सत्य इति । सत्य: सत्यवचन: । सत्याभिसन्ध: सत्यप्रतिज्ञ: । सत्यपराक्रम: अमोघपराक्रम: । परलोकभयात् परलोकसम्बन्धिभयहेतो:, परलोकहानेरिति यावत् । निर्भयो ऽस्तु प्रतिष्ठितसत्यत्वादिति भाव: ।। 2.22.9 ।।

तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते ।

सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ।। 2.22.10 ।।

तस्येति । तस्य दशरथस्यापि । अस्मिन्नभिषेककर्मणि । अप्रतिसंहृते अनिवर्तिते सति । सत्यं नेति मम वरदानविषयसत्यं नेति मनस्तापो भवेत्, तस्य ताप: मां तपेत् तापयेदित्यर्थ: ।। 2.22.10 ।।

अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण ।

अन्वगेवाहमिच्छामि वनं गन्तुमित: पुन: ।। 2.22.11 ।।

अभिषेकेति । अन्वक् अनुपदमेव । “अन्वगन्वक्षमनुगेनुपदम्” इत्यमर: । इत: अस्मान्नगरात् ।। 2.22.11 ।।

मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा ।

सुतं भरतमव्यग्रमभिषेचयिता तत: ।। 2.22.12 ।।

अभिषेचयिता । लुट् ।। 2.22.12 ।।

मयि चीराजिनधरे जटामण्डलधारिणि ।

गते ऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ।। 2.22.13 ।।

मयीति । स्पष्टम् ।। 2.22.13 ।।

बुद्धि: प्रणीता येनेयं मनश्च सुसमाहितम् ।

तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् ।। 2.22.14 ।।

बुद्धिरिति । येन मया इयं बुद्धि: वनवासबुद्धि: । प्रणीता शिक्षिता । मनश्च सुसमाहितं स्थिरीकृतम् । तं मां संक्लेष्टुं क्लेशयितुं नार्हामि, अत: प्रव्रजिष्यामि माचिरं मास्तु विलम्ब: ।। 2.22.14 ।।

कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने ।

राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ।। 2.22.15 ।।

पूर्वसर्गे धर्मो ऽस्तीत्युक्तम्, अधुना प्रसङ्गाद्धर्मातिरिक्तं दैवं किञ्चिदस्ति फलप्रदमिति दर्शयन् अस्मत्प्रवासे न कैकेयीनिमित्तम्, अत: सा न निन्दितव्येत्याहकृतान्त इत्यादिना । कृतान्त: दैवम् । “कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु” इति निघण्टु: । दैवं च प्राक्तनाहृष्टमित्येके । ईश्वर एवेत्याचार्या: । द्रष्टव्य: कारणत्वेनेति शेष: । वितीर्णस्य दत्तस्य ।। 2.22.15 ।।

कैकेय्या: प्रतिपत्तिर्हि कथं स्यान्मम पीडने ।

यदि भावो न दैवो ऽयं कृतान्तविहितो भवेत् ।। 2.22.16 ।।

कृतान्त एवत्येव कारव्यवच्छेद्यमाह–कैकेय्या इति । दैव: देवीसम्बन्धी कैकेयीसम्बन्धी । अयं भाव: अयमभिप्राय: । कृतान्तविहितो यदि न भवेत् तदा मम पीडने कैकेय्या: प्रतिपत्ति: बुद्धि: कथं स्यात् । पीडनमिति लक्ष्मणबुद्ध्या ।। 2.22.16 ।।

जानासि हि यथा सौम्य न मातृषु ममान्तरम् ।

भूतपूर्वं विशेषो वा तस्या मयि सुते ऽपि वा ।। 2.22.17 ।।

जानासीति । हे सौम्य अपि । मयि वा सुते भरते वा विशेषो यथा न भूतपूर्व: तथा जानासि हि ।। 2.22.17 ।।

सोभिषेकनिवृत्त्यर्थै: प्रवासार्थैश्च दुर्वचै: ।

उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये ।। 2.22.18 ।।

स इति । सो ऽहम् एवमनुभूततद्वात्सल्यो ऽहम् । वाक्यैरिति हेतौ तृतीया । दैवादन्यत् बुद्धिभेदकारणं न समर्थये न निश्चिनोमि ।। 2.22.18 ।।

कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ।

ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ।। 2.22.19 ।।

कथमिति । प्रकृति: साधुस्वभाव: । “प्रकृति पञ्चभूतेषु स्वभावे मूलकारणे” इति निघण्टु: । प्रकृतिसम्पन्ना साधुस्वभावसम्पन्ना । राजपुत्री महाकुलप्रसूता । तथागुणा पूर्वानुभूतदयादिसद्गुणा । सा कैकेयी प्राकृतेव स्त्री दुष्प्रकृतिका दुष्कुला गुणलेशशून्या क्षुद्रा स्त्रीव । भर्तृसन्निधौ न तु यस्य कस्यचित् सन्निधौ, न तु दूत्यादिमुखेन । मत्पीडां मम निरवधिकस्नेहपात्रस्य पीडां, न त्वप्रियमात्रं कथं ब्रूयात् व्यक्तं वदेत् न तु सूचयेत्, तस्माद्दैवमेवात्र कारणमिति ।। 2.22.19 ।।

यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते ।

व्यक्तं मयि च तस्यां च पतितो हि विपर्यय: ।। 2.22.20 ।।

यदिति । यदचिन्त्यम् अचिन्त्यप्रभावं दैवं । तदेव सर्वेष्यपि भूतेषु न हन्यते सर्वत्राप्यप्रतिहतफलप्रदानस्वभावं वर्तते व्यक्तम् अत्र संशयो नास्ति । अत एव हि मयि तस्यांच विपर्यय: वैपरीत्यम् । मयि हस्तगतराज्यभ्रंशरूप:, तस्यां पूर्वस्थितवात्सल्यापगमरूप: । पतित: प्राप्त: ।। 2.22.20 ।।

कश्च दैनेव सौमित्रे योद्धुमुत्सहते पुमान् ।

यस्य न ग्रहणं किञ्चित् कर्मणो ऽन्यत्र दृश्यते ।। 2.22.21 ।।

एवं प्रबलमपि दैवं पौरुषेण निवर्त्यतामित्यत्राह–क इति । क्रियत इति कर्म कार्यम् । फलरूपकार्यतो ऽन्यत्र यस्य ग्रहणं ज्ञानसाधनम् । न दृश्यते कार्यैकानुमेयं यस्य स्वरूपमित्यर्थ: । तेन फलात्पूर्वमज्ञायमानेन दैवेन । क: पुमान् योद्धुमुत्सहते, कस्तं निवारयितुं समर्थ इत्यर्थ: ।। 2.22.21 ।।

सुखदु:खे भयक्रोधौ लाभालाभौ भवाभवौ ।

यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ।। 2.22.22 ।।

ननु कर्मणो ऽन्यत्रेत्युक्तं किं तत्कर्म तत्राह–सुखदु:खे इति । अत्र भयशब्देन शान्तिरुच्यते । भवाभवौ उत्पत्तिविनाशै । यच्च किञ्चित्तथाभूतम् अचिन्त्यकारणकं लोके दृश्यते । तत्सर्वं दैवस्य कर्म कार्यम् ननु हीत्यर्थ: ।। 2.22.22 ।।

ऋषयोप्युग्रतपसो दैवेनाभिप्रपीडिता: ।

उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभि: ।। 2.22.23 ।।

दैवप्राबल्यमेव दृढयति–ऋषय इति । ऋषय: विश्वामित्रादय: । नियमान् व्रतोपवासादीन् । काममन्युभिरिति व्यक्तिबहुत्वात् बहुवचनम् । भ्रश्यन्ते, ऋषित्वादिति शेष: ।। 2.22.23 ।।

असङ्कल्पितमेवेह यदकस्मात् प्रवर्त्तते ।

निवर्त्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ।। 2.22.24 ।।

यच्च किञ्चित्तथाभूतमित्येतद्विशदयति–असङ्कल्पितमिति । इह अस्मिन् लोके । आरब्धम् उपक्रान्तम् । आरम्भं कार्यं निवर्त्य असङ्कल्पितम् अचिन्तितमेव यत्कार्यम् अकस्मात् झटिति प्रवर्त्तते तद्दैवस्य कर्म ।। 2.22.24 ।।

एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना ।

व्याहते ऽप्यभिषेके मे परितापो न विद्यते ।। 2.22.25 ।।

तस्मादपरिताप: संस्त्वमप्यनुविधाय माम् ।

प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ।। 2.22.26 ।।

उपदेशफलमाह–एतयेत्यादिश्लोकद्वयेन । तत्त्वया अबाधितया एतया बुद्ध्या । आत्मानम् अन्त:करणम् । आत्मना स्वयमेव उपदेशं विनेत्यर्थ: । संस्तभ्य निश्चलीकृत्य । स्थितस्य मे अभिषेके व्याहतेपि परितापो न विद्यते । तस्मात् तत्त्वस्यैवंरूपत्वात् । अनुविधाय अनुसृत्य । आभिषेचनिकीम् अभिषेकप्रयोजनिकां क्रियाम् अलङ्करणादि । प्रतिसंहारय निवर्त्तय ।। 2.22.2526 ।।

एभिरेव घटै: सर्वैरभिषेचनसम्भृतै: ।

मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ।। 2.22.27 ।।

एभिरिति । तापस्ये तापसयोग्ये कर्मणीत्यर्थ: । अभिषेचनसम्भृतै: अभिषेचनाय सम्पादितै: ।। 2.22.27 ।।

अथवा किं ममैतेन राजद्रव्यमतेन तु ।

उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ।। 2.22.28 ।।

घटस्थजलै: तापस्यव्रतस्नाने क्रियमाणेपि राज्यलिप्सया स्नानं कृतवानिति कैकेय्या: शङ्का माभूदिति स्नानं निषेधति–अथवेति । राजद्रव्यमतेन राजद्रव्यत्वेन सम्मतेन । राज्यद्रव्यमयेनेतिपाठे–राज्यार्थमङ्गलद्रव्यप्रचुरेणेत्यर्थ: । व्रतादेशं व्रतनियमम् ।। 2.22.28 ।।

मा च लक्ष्मण सन्तापं कार्षिर्लक्ष्म्या विपर्यये ।

राज्यं वा वनवासो वा वनवासो महोदय: ।। 2.22.29 ।।

मा चेति । राज्यं वा वनवासो वा उभावपि तुल्यौ । विचार्यमाणे वनवास एव महोदय: महाफल:, राज्यव्यापारक्लेशाभावात् अपूर्वदर्शनसौख्याच्चेति भाव: ।। 2.22.29 ।।

न लक्ष्मणास्मिन् खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया ।

दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथा प्रभावम् ।। 2.22.30 ।।

महता प्रबन्धेनोक्तं संग्रहेण दर्शयति–नेति । यवीयसी कनिष्ठा । कानिष्ठ्यं महिषीत्रयापेक्षया, न ते ऽम्बा मध्यमेत्यत्र मध्यमात्वं सर्वराजपत्न्यपेक्षया । दैवाभिपन्ना दैवाविष्टा । तथाप्रभावं तादृशप्रभावयुक्तम्, अप्रतिहतप्रभावमित्यर्थ: ।। 2.22.30 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वाविंश: सर्ग: ।। 22 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वाविंश: सर्ग: ।। 22 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.