25 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चविंश: सर्ग:

सा ऽपनीय तमायासमुपस्पृश्य जलं शुचि: ।

चकार माता रामस्य मङ्गलानि मनस्विनी ।। 2.25.1 ।।

तान्येव स्वस्त्ययनानि दर्शयतिसेत्यादि । आयासं क्लेशम् । अप्तनीय त्यक्त्वा । जलमुपस्पृश्य आचम्येत्यर्थ: । “उपस्पर्शस्त्वाचमनम्” इत्यमर: । रोदनस्याशुचिताहेतुत्वात् देवताप्रार्थनस्य शुचिना कर्त्तव्यत्वादुपस्पर्शनमुक्तम् । अत एव शुचिरित्युच्यते । मङ्गलानि मङ्गलाशासनानि ।। 2.25.1 ।।

न शक्यसे वारयितुं गच्छेदानीं रघूत्तम ।

शीघ्रं च विनिवर्त्तस्व वर्त्तस्व च सतां क्रमे ।। 2.25.2 ।।

नेति । शीघ्रं विनिवर्त्तस्व, चतुर्दशवर्षान्त इति शेष: । सतां क्रमे अभिषेचने ।। 2.25.2 ।।

यं पालयसि धर्मं त्वं धृत्या च नियमेन च ।

स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ।। 2.25.3 ।।

यमिति । पालयसि अप्रच्युतमनुतिष्ठसि । धृत्या प्रीत्या । नियमेन समग्रतया । स वै प्रसिद्धो धर्म: । राघवशार्दूल रघुकुलश्रेष्ठ अभिरक्षतु अभितो रक्षतु । पुनर्द्धर्मपदप्रयोगात् स एव रक्षत्वित्युच्यते ।। 2.25.3 ।।

येभ्य: प्रणमसे पुत्र चैत्येष्वायतनेषु च ।

ते च त्वामभिरक्षन्तु वने सह महर्षिभि: ।। 2.25.4 ।।

येभ्य इति । चैत्येषु चतुष्पथेषु । आयतनेषु देवतागृहेषु । ते देवा इति सिद्धम् ।। 2.25.4 ।।

यानि दत्तानि ते ऽस्त्राणि विश्वामित्रेण धीमता ।

तानि त्वामभिरक्षन्तु गुणै: समुदितं सदा ।। 2.25.5 ।।

पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा ।

सत्येन च महाबाहो चिरञ्जीवाभिरक्षित: ।। 2.25.6 ।।

समुदितं श्रेष्ठम् ।। 2.25.56 ।।

समित्कुशपवित्राणि वेद्यश्चायतनानि च ।

स्थण्डिलानि विचित्राणि शैला वृक्षा: क्षुपा ह्रदा: ।

पतङ्गा: पन्नगा: सिंहास्त्वां रक्षन्तु नरोत्तम ।। 2.25.7 ।।

समिदित्यादिसार्धश्लोक एकान्वय: । वन्या: समित्कुशादय: । प्रमादकृतप्रत्यवायसहिष्णव: सन्तो वने चरन्तं भवन्तं रक्षन्त्विति वाक्यार्थ: । पवित्राणि दर्भग्रन्थय: । वेद्य: अग्निधिष्ण्यानि, स्थण्डिलानि देवपूजास्थलानि तेषामलङ्कारभेदात् संस्थानभेदाच्च वैचित्र्यम् । वृक्षग्रहणं लतादेरप्युपलक्षणम् । क्षुपा: ह्रस्वशाखाशिफायुक्ता वृक्षविशेषा: । “ह्रस्वशाखाशिफ: क्षुप:” इत्यमर: । वृक्षविशेषणं वा । ह्रस्वशाखावृक्षेष्वेव प्रायशो देवतास्सन्निदधत इत्यैतिह्यात् । पतङ्गा: पक्षिण: ।। 2.25.7 ।।

स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षय: ।

स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा ।। 2.25.8 ।।

लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ।

ऋतवश्चैव पक्षाश्च मासास्संवत्सरा: क्षपा: ।। 2.25.9 ।।

स्वस्तीत्यादि । कुर्वन्त्वित्यनुषङ्ग: । स्वस्ति धोतेत्यादौ करोत्वित्यध्याहार: । साध्या: देवताविशेषा: । विश्वे विश्वेदेवा: । मरुत: वायव: । धातृविधातृशब्दौ देवताविशेषवाचकौ । पूषादिशब्दा: द्वादशसङ्ख्याकादित्यावान्तरभेदवाचका: ।। 2.25.89 ।।

दिनानि च मुहूर्त्ताश्च स्वस्ति कुर्वन्तु ते सदा ।

स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वत: ।। 2.25.10 ।।

मुहूर्त: दिनस्य त्रिंशो भाग: । स्मृति: ध्यानम् । धृति: ऐकाग्र्यम्, निष्पन्नयोग इति यावत् । धर्म: श्रुतिस्मृत्युदित: । यं पालयसीत्यत्र पितृवाक्यपरिपालनज एवोक्त इति न पुनरुक्ति: ।। 2.25.10 ।।

स्कन्दश्च भगवान् देव: सोमश्च सबृहस्पति: ।

सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वत: ।। 2.25.11 ।।

स्कन्द इति । स्कन्द: सनत्कुमार: “तं स्कन्द इत्याचक्षते” इति दहरविद्यायां तथाभिधानात् । कुमारो वा ।। 2.25.11 ।।

याश्चापि सर्वत: सिद्धा दिशश्च सदिगीश्वरा: ।

स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यश: ।। 2.25.12 ।।

याश्चापीति । सर्वत: सिद्धा: प्रसिद्धा: ।। 2.25.12 ।।

शैला: सर्वे समुद्राश्च राजा वरुण एव च ।

द्यौरन्तरिक्षं पृथिवी नद्य: सर्वास्तथैव च ।। 2.25.13 ।।

नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवता: ।

अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ।। 2.25.14 ।।

शैला इति । शैला: कुलपर्वता: । समुद्रसन्निधानात् शैला वृक्षा इत्यत्र क्षुद्रपर्वता: । राजा कुबेर: । ग्रहा: कुजादय: । सहदेवता: तदभिमानिदेवतासहिता: । अहोरात्रे तदभिमानिदेवते । अतो न पुनरुक्ति: ।। 2.25.1314 ।।

ऋतवश्चैव षट् पुण्या मासा: संवत्सरास्तथा ।

कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ।। 2.25.15 ।।

ऋतव इति । ऋतुमासादिशब्दास्तदधिदेवतापरा: केचिदाहु: । अस्मिन् प्रकरणे प्रायश: पुनरुक्तय: पुत्ररक्षणविषयप्रेमपारवश्यकृता: इति । शर्म सुखम् । “शर्मशातसुखानि च” इत्यमर: ।। 2.25.15 ।।

महावने विचरतो मुनिवेषस्य धीमत: ।

तवादित्याश्च दैत्याश्च भवन्तु सुखदास्सदा ।। 2.25.16 ।।

महावन इति । आदित्या: देवा: ।। 2.25.16 ।।

राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् ।

क्रव्यादानाञ्च सर्वेषां माभूत्पुत्रक ते भयम् ।। 2.25.17 ।।

राक्षसानामिति । राक्षसादिसम्बन्धि भयम् । सम्बन्धसामान्ये षष्ठी । तेभ्यो भयमित्यर्थ: ।। 2.25.17 ।।

प्लवगा वृश्चिका दंशा मशकाश्चैवकानने ।

सरीसृपाश्च कीटाश्च माभूवन् गहने तव ।। 2.25.18 ।।

प्लवगा इति । प्लवगा: वानरा: । दंशा: वनमक्षिका: । “दंशस्तु वनमक्षिका” इत्यमर: । सरीसृपा: गिरिसर्पा: । गहने वने । माभूवन् हिंसका माभूवन्नित्यर्थ: ।। 2.25.28 ।।

महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिण: ।

महिषा: शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ।। 2.25.19 ।।

महाद्विपा इति । ऋक्षा: भल्लूका: । न ते द्रुह्यन्तु “क्रुधद्रुह–” इत्यादिना चतुर्थी ।। 2.25.19 ।।

नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातय: ।

मा च त्वां हिंसिषु: पुत्र मया संपूजितास्त्विह ।। 2.25.20 ।।

नृमांसभोजना इति । सत्त्वजातय: सत्त्वस्य जातिर्जन्म येषु ते सत्त्वजातय: । क्रूरजन्तव इत्यर्थ: ।। 2.25.20 ।।

आगमास्ते शिवा: सन्तु सिद्ध्यन्तु च पराक्रमा: ।

सर्वसम्पत्तये राम स्वस्तिमान् गच्छ पुत्रक ।। 2.25.21 ।।

आगमा इति । आगम्यन्त इति आगमा: मार्गा: । सर्वसम्पत्तये वन्यफलमूलादिसम्पत्तये ।। 2.25.21 ।।

स्वस्ति ते ऽस्त्वान्तरिक्षेभ्य: पार्थिवेभ्य: पुन:पुन: ।

सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिन: ।। 2.25.22 ।।

स्वस्तीति । आन्तरिक्षेभ्य: अन्तरिक्षचारिभ्य: । पार्थिवेभ्य: पृथिवीवर्तिभ्य: सकाशात् । परिपन्थिन: शत्रव: ।। 2.25.22 ।।

गुरु: सोमश्च सूर्यश्च धनदो ऽथ यमस्तथा ।

पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ।। 2.25.23 ।।

गुरुरित्यादि । पृथक्पृथक् मिलिताश्च रक्षन्त्वित्यर्थ इति न पुनरुक्ति: ।। 2.25.23 ।।

अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युता: ।

उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ।। 2.25.24 ।।

ऋषिमुखाच्च्युता: निर्गता: । त्वया गृहीताश्चेति शेष: ।। 2.25.24 ।।

सर्वलोकप्रभुर्ब्रह्मा भूतभर्त्ता तथर्षय: ।

ये च शेषा: सुरास्ते त्वां रक्षन्तु वनवासिनम् ।। 2.25.25 ।।

सर्वलोकप्रभुरिति । भूतभर्त्ता नारायण: ।। 2.25.25 ।।

इति माल्यै: सुरगणान् गन्धैश्चापि यशस्विनी ।

स्तुतिभिश्चानुकूलाभिरानर्चायतलोचना ।। 2.25.26 ।।

ज्वलनं समुपादाय ब्राह्मणेन महात्मना ।

हावयामास विधिना राममङ्गलकारणात् ।। 2.25.27 ।।

इतीति । इतीत्यत्र मत्वेति शेष: ।। 2.25.2627 ।।

घृतं श्वेतानि माल्यानि समिध: श्वेतसर्षपान् ।

उपसम्पादयामास कौसल्या परमाङ्गना ।। 2.25.28 ।।

घृतमिति । उपसम्पादयामास । होमायेति शेष: ।। 2.25.28 ।।

उपाध्याय: स विधिना हुत्वा शान्तिमनामयम् ।

हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ।। 2.25.29 ।।

उपाध्याय इति । शान्तिं सर्वोपद्रवशान्तिम् । अनामयम् आरोग्यञ्च, उद्दिश्येति शेष: । हुतहव्यावशेषेण हुतहविश्शेषेण । बाह्यं होमस्थानाद्बहिर्भवम् ।। 2.25.29 ।।

मधुदध्यक्षतघृतै: स्वस्ति वाच्य द्विजांस्तत: ।

वाचयामास रामस्य वने स्वस्त्ययनक्रिया: ।। 2.25.30 ।।

मध्विति । मध्वादिद्रव्यदक्षिणाभिर्दत्ताभि: । द्विजान् स्वस्ति वाच्य पुण्याहं वाचयित्वेत्यर्थ: । स्वस्त्ययनक्रिया: स्वस्त्ययनक्रियाप्रतिपादकमन्त्रानित्यर्थ: ।। 2.25.30 ।।

ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ।

दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ।। 2.25.31 ।।

तत इति । काम्याम् अभीष्टाम् ।। 2.25.31 ।।

यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।

वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ।। 2.25.32 ।।

यन्मङ्गलं सुपर्णस्य विनता ऽकल्पयत् पुरा ।

अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ।। 2.25.33 ।।

अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।

अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ।। 2.25.34 ।।

यन्मङ्गलमिति । वृत्रनाशे वृत्रनाशनिमित्ते ।। 2.25.3234 ।।

त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजस: ।

यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ।। 2.25.35 ।।

त्रीनिति । विक्रमान् पादविक्षेपान् ।। 2.25.35 ।।

ऋतव: सागरा द्वीपा वेदा लोका दिशश्चते ।

मङ्गलानि महाबाहो दिशन्तु शुभमङ्गला: ।। 2.25.36 ।।

ऋतव इति । शुभमङ्गला: मङ्गलानामपि मङ्गला:, मङ्गलद्रव्याणामप्यतिशयदायका इत्यर्थ: ।। 2.25.36 ।।

इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी ।

गन्धैश्चापि समालभ्य राममायतलोचना ।। 2.25.37 ।।

ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।

चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ।। 2.25.38 ।।

इतीति । शेषान् अक्षतानि । गन्धैश्च समालभ्य विलिप्य । “समालम्भो विलेपनम्” इत्यमर: । सिद्धार्थां दृष्टफलाम् । विशल्यकरणीं च अन्तर्गतशल्यनिर्गमनकारिणीं च । ओषधीं मूलिकां मन्त्रैरभिमन्त्र्य रक्षां चकार, रक्षाहेतुत्वेन हस्ते बबन्धेत्यर्थ: । पुनर्जजाप च ।। 2.25.3738 ।।

उवाचातिप्रहृष्टेव सा दु:खवशवर्त्तिनी ।

वाङ्मात्रेण न भावेन वाचा संसज्जमानया ।। 2.25.39 ।।

उवाचेति । अतिप्रहृष्टेव दु:खवशवर्तिन्यपि पुत्रमुखोल्लासार्थमतिसन्तुष्टेव भावयन्तीत्यर्थ: । असंसज्जमानया स्खलन्त्येत्यर्थ: ।। 2.25.39 ।।

आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।

अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम् ।। 2.25.40 ।।

केन प्रकारेणोवाचेत्यत्राह–आनम्येति । आनम्य आनमय्य । सिद्धार्थ: सिद्धप्रयोजन: । गच्छेत्यत्रेतिकरणं द्रष्टव्यम् ।। 2.25.40 ।।

अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।

पश्यामि त्वां सुखं वत्स सुस्िथतं राजवर्त्त्मनि ।। 2.25.41 ।।

अरोगमिति । सर्वसिद्धार्थं सिद्धसर्वप्रयोजनम् । पश्यामि द्रक्ष्यामि ।। 2.25.41 ।।

प्रणष्टदु:खसङ्कल्पा हर्षविद्योतितानना ।

द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम् ।। 2.25.42 ।।

भद्रासनगतं राम वनवासादिहागतम् ।

द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वच: ।। 2.25.43 ।।

प्रणष्टेति । प्रणष्टदु:खसङ्कल्पा सङ्कल्प: मानसं कर्म, वने रामस्य किम्भविष्यतीति चिन्तात्मक इत्यर्थ: ।। 2.25.4243 ।।

मङ्गलैरुपसम्पन्नो वनवासादिहागत: ।

वध्वा मम च नित्यं त्वं कामान् संवर्द्ध याहि भो ।। 2.25.44 ।।

मयार्चिता देवगणा: शिवादयो महर्षयो भूतमहासुरोरगा: ।

अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव ।। 2.25.45 ।।

मङ्गलैरिति । वध्वा: स्नुषाया: सीताया: । कामान् काम्यमानवस्त्राभरणादीनि ।। 2.25.4445 ।।

इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि ।

प्रदक्षिणं चैव चकार राघवं पुन:पुनश्चापि निपीड्य सस्वजे ।। 2.25.46 ।।

तदा कौसल्योक्तस्य वाचामगोचरत्वादाह–इतीवेत्यादि । इतीव एवंविधमित्यर्थ: । प्रदक्षिणं अनुकूलम् । रक्षामिति यावत् ।। 2.25.46 ।।

तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुन:पुन: ।

जगाम सीतानिलयं महायशास्स राघव: प्रज्वलित: स्वयाश्रिया ।। 2.25.47 ।।

तथेति । निपीड्य निपीडनपूर्वकमभिवाद्येत्यर्थ: । स्वया स्वतस्सिद्धया ।। 2.25.47 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चविंश: सर्ग: ।। 25 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चविश: सर्ग: ।। 25 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.