श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वात्रिंश: सर्ग:
तत: शासनमाज्ञाय भ्रातु: शुभतरं प्रियम् ।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ।। 2.32.1 ।।
एवं निश्चितसीतालक्ष्मणानुयात्रस्य रामस्य यात्रादानं प्रस्तूयते द्वात्रिंशे–तत इत्यादि । आज्ञाय अङ्गीकृत्य । शुभतरं ब्राह्मणोपकारत्वात् । प्रियम् आत्मनोनुगमनाङ्गीकारफलत्वात् ।। 2.32.1 ।।
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् ।
सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिण: ।। 2.32.2 ।।
तमिति । अग्न्यगारस्थम् अग्निहोत्रशालास्थम् । दुष्करकारिण: दुष्करकर्मकारिण: । वेश्म अभ्यागच्छ कृत्यं च पश्येत्यर्थ: ।। 2.32.2 ।।
तत: सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह ।
जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ।। 2.32.3 ।।
तत इति । सन्ध्योपासनं माध्याह्निकम् अथवा सन्ध्यानियताग्निहोत्रम् । अग्न्यगारस्थमित्युक्ते: ।। 2.32.3 ।।
तमागतं वेदविदं प्राञ्जलि: सीतया सह ।
सुयज्ञमभिचक्राम राघवो ऽग्निमिवार्चितम् ।। 2.32.4 ।।
तमिति । अर्चितं हुतम् ।। 2.32.4 ।।
जातरूपमयैर्मुख्यैरङ्गदै: कुण्डलै: शुभै: ।
सहेमसूत्रैर्मणिभि: केयूरैर्वलयैरपि ।। 2.32.5 ।।
अन्यैश्च रत्नैर्बहुभि: काकुत्स्थ: प्रत्यपूजयत् ।
सुयज्ञं स तदोवाच राम: सीताप्रचोदित: ।। 2.32.6 ।।
जातरूपमयैरित्यादि । जातरूपमयै: स्वर्णमयै: । अङ्गदै: कूर्परोपरिधार्यै: बाहुभूषणै: । सहेमसूत्रैर्मणिभि: हेमसूत्रप्रोतैर्वैदूर्य्यपद्मरागमुक्तादिमणिभि: । “रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिके ऽपि च” इत्यमर: । केयूरै: भुजशिरोव्यापिफणाकारशिखरयुक्तबाहुभूषणै: । अथवा अङ्गदकेयूरयो: स्थूलत्वसूक्ष्मत्वाभ्यां भेद: । वलयै: कटकै: । “कटकं वलयो ऽस्त्रियाम्” इत्यमर: । रत्नै: भूषणप्रकरणात् भूषणश्रेष्ठैरित्यर्थ: । “रत्नं स्वजातिश्रेष्ठेपि” इत्यमर: ।। 2.32.56 ।।
हारं च हेमसूत्रं च भार्यायै सौम्य हारय ।
रशनां चाधुना सीता दातुमिच्छति ते सखे ।। 2.32.7 ।।
हारमिति । हेमसूत्रं हेममयं कण्ठसूत्रम् । रशनां च ते भार्यायै सीता दातुमिच्छति । तत्सर्वं हारय दापयेत्यर्थ: ।। 2.32.7 ।।
अङ्गदानि विचित्राणि केयूराणि शुभानि च ।
प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ।। 2.32.8 ।।
अङ्गदानीति । भार्यायै भार्याधारणार्थम् । तुभ्यं प्रतिग्रहीत्रे । प्रयच्छति । गच्छतीत्यत्र नुमभाव आर्ष: ।। 2.32.8 ।।
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् ।
तमपीच्छति वैदही प्रतिष्ठापयितुं त्वयि ।। 2.32.9 ।।
पर्यङ्कमिति । त्वयि प्रतिष्ठापयितुं तुभ्यं दातुमित्यर्थ: ।। 2.32.9 ।।
नाग: शत्रुञ्जयो नाम मातुलो ऽयं ददौ मम ।
तं ते गजसहस्रेण ददामि द्विजपुङ्गव ।। 2.32.10 ।।
नाग इति । मातुलो ददाविति दशरथीयशत्रुञ्जयव्यावृत्ति: ।। 2.32.10 ।।
इत्युक्त: स हि रामेण सुयज्ञ: प्रतिगृह्य तत् ।
रामलक्ष्मणसीतानां प्रयुयोजाशिष: शुभा: ।। 2.32.11 ।।
इतीति । प्रतिगृह्येत्यनेन न्यासभूतत्वं व्यावर्त्त्यते ।। 2.32.11 ।।
अथ भ्रातरमव्यग्रं प्रियं राम: प्रियंवद: ।
सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ।। 2.32.12 ।।
अथेति । त्रिदिशेश्वरम् इन्द्रम् ।। 2.32.12 ।।
अगस्त्यं कौशिकञ्चैव तावुभौ ब्राह्मणोत्तमौ ।
अर्चयाहूय सौमित्रे रत्नै: सस्यमिवाम्बुभि: ।। 2.32.13 ।।
अगस्त्यमिति । अगस्त्यम् अगस्त्यपुत्रम् । कौशिकं विश्वामित्रपुत्रम् । रत्नै: श्रेष्ठवस्तुभि: ।। 2.32.13 ।।
तर्पयस्व महाबाहो गोसहस्रैश्च मानद ।
सुवर्णै रजतैश्चैव मणिभिश्च महाधनै: ।। 2.32.14 ।।
रत्नैरर्चनं विवृणोति–तर्पयस्वेति ।। 2.32.14 ।।
कौसल्यां च य आशीर्भिभक्त: पर्युपतिष्ठति ।
आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ।। 2.32.15 ।।
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय ।
कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विज: ।। 2.32.16 ।।
कौसल्यामित्यादिश्लोकद्वयमेकान्वयम् । तैत्तिरीयाणां तित्तिरिसम्बन्धिशाखाध्येतृ़णाम् । आचार्य: अध्यापयिता । अभिरूप: बुध: ‘प्राप्तरूपसुरूपाभिरूपाबुधमनोज्ञयो:’ इति विश्व: ।। कौशेयानि कृमिकोशोत्थानि । “कौशेयं कृमिकोशोत्थम्” इत्यमर: । यावत् यावत्पर्यन्तम् तुष्यति तावत्सम्प्रदापयेति सम्बन्ध: ।। 2.32.1516 ।।
सूतश्चित्ररथश्चार्य्य: सचिव: सुचिरोषित: ।
तोषयैनं महार्हेश्च रर्त्नैर्वस्त्रैर्धनैस्तथा ।
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ।। 2.32.17 ।।
सूत इत्यादिसार्धश्लोक एकान्वय: । सूत: सुमन्त्रतुल्य: कश्चिच्चित्ररथनामा । सुचिरोषित: चिरकालमस्मद्गृहे स्थित: । पशुकाभि: । अल्पार्थे कन्प्रत्यय: । अजादिभिरित्यर्थ: ।। 2.32.17 ।।
ये चेमे कठकालापा बहवो दण्डमाणवा: ।। 2.32.18 ।।
नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किञ्चन ।
अलसा: स्वादुकामाश्च महतां चापि सम्मता: ।
तेषामशीतियानानि रत्नपूर्णानि दापय ।। 2.32.19 ।।
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ।
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ।। 2.32.20 ।।
ये चेत्यादि उपाकुर्वित्यन्तमेकं वाक्यम् । कठेन प्रोक्तमधीयते कठा: । कठशब्दात्प्रोक्तार्थे वैशम्पायनान्तेवासित्वाण्णिनि: । तस्य “कठचरकात्–” इतिलुक् । तत: “तदधीते तद्वेद” इत्यण् । तस्य “प्रोक्ताल्लुक्” इति लुक् । कलापिना प्रोक्तमधीयते कालापा: । कलापिशब्दात् प्रोक्तार्थे “कलापिनो ऽण्” इत्यण् । “सब्रह्मचारिपीठसर्पि” इत्यादिना टिलोप: । तत: ‘तदधीते’ इत्याद्यण् । तस्य प्रोक्ताल्लुक् । कठप्रोक्तशाखाध्यायिन: कलापिप्रोक्तशाखाध्यायिनश्चेत्यर्थ: । कठाश्च कालापाश्च कठकालापा: । “दण्डप्रधाना: माणवा: दण्डमाणवा:” इति काशिकायाम् । सदा पलशदण्डधारिणो ब्रह्मचारिण इत्यर्थ: । किञ्चन आहारार्थयत्नादिकम् । न केवलं नित्यस्वाध्यायशीलत्वात् किञ्चिन्न कुर्वन्ति किंत्वालस्याच्चेत्याशयेनाह अलसा इति । गोसहस्रप्रदानहेतुत्वेनाह स्वादुकामाश्चेति । रसवत्पदार्थकाङ्क्षिण इत्यर्थ: । महतां चापि सम्मता: अतीव साध्वाचारा इत्यर्थ: । रत्नपूर्णानि रत्नालङ्कारपूर्णानि । अशीतियानानीत्युक्त्या दण्डमाणवाश्चाशीतिसङ्ख्याका इतिगम्यते । रत्नवाहानुष्ट्रानिति वा । शालिवाहसहस्रं शालिधान्यवाहकबलीवर्दसहस्रम् । भद्रकान् । अल्पार्थे कन्प्रत्यय: । कर्षणयोग्याननडुह इत्यर्थ: । धान्यविशेषानित्यपरे । व्यञ्जनार्थं क्षीरदधिघृतार्थम् । उपाकुरु ददस्वेत्यर्थ: ।। 2.32.1820 ।।
मेखलीनां महासङ्घ: कौसल्यां समुपस्थित: ।
तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय ।। 2.32.21 ।।
मेखलीनामिति । मेखला मौञ्जी, तद्वतां ब्रह्मचारिणामित्यर्थ: । आर्षो दीर्घ: । सहस्रं गोसहस्रम् प्रकृतत्वात् तासाम् ।। 2.32.21 ।।
अम्बा यथा च सा नन्देत् कौसल्या मम दक्षिणाम् ।
तथा द्विजातींस्तान् सर्वाल्लँक्ष्मणार्चय सर्वश: ।। 2.32.22 ।।
ममाम्बेत्यन्वय: । दक्षिणां पूर्वोक्तदानाङ्गभूताम् । सर्वश: वस्त्रधान्यादिसर्वप्रकारै: ।। 2.32.22 ।।
तत: स पुरुषव्याघ्रस्तद्धनं लक्ष्मण: स्वयम् ।
यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ।। 2.32.23 ।।
तत इति । यथोक्तं रामोक्तमनतिक्रम्य अददात् धनदो यथेति । धनदस्य दातृत्वं ‘धनदेन समस्त्यागे’ इति बालरामायण् एवोक्तम् । ब्राह्मणेन्द्राणामिति चतुर्थ्यर्थे षष्ठी ।। 2.32.23 ।।
अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविन: ।
सम्प्रदाय बहुद्रव्यमेकैकस्योपजीवनम् ।। 2.32.24 ।।
अथेति । बाष्पं कलन्ति मुञ्चतीति बाष्पकला: तान् उपजीविनं प्रति एकैकस्योपजीविनो बहुद्रव्यं सम्प्रदायाब्रवीत् ।। 2.32.24 ।।
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ।
अशून्यं कार्यमेकैकं यावदागमनं मम ।। 2.32.25 ।।
अशून्यं कार्य्यं, यथापूर्वं भवद्भिरुपविश्य रक्षणीयमित्यर्थ: । एकैकं पृथक् पृथक् ।। 2.32.25 ।।
इत्युक्त्वा दु:खितं सर्वं जनं तमुपजीविनम् ।
उवाचेदं धनाध्यक्षं धनमानीयतामिति ।। 2.32.26 ।।
इतीति । धनाध्यक्षं कोशगृहाधिकृतम् ।। 2.32.26 ।।
ततो ऽस्य धनमाजह्रु: सर्वमेवोपजीविन: ।
स राशि: सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ।। 2.32.27 ।।
तत इति । अस्य रामस्य ।। 2.32.27 ।।
तत: स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मण: ।
द्विजेभ्यो बालवृद्धेभ्य: कृपणेभ्यो ह्यदापयत् ।। 2.32.28 ।।
तत इति । बालवृद्धेभ्य: बालेभ्यो वृद्धेभ्यश्चेत्यर्थ: ।। 2.32.28 ।।
तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विज: ।
उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ।। 2.32.29 ।।
तत्रेति । तत्र तस्मिन् काले देशे वा । पिङ्गल: पिङ्गलवर्ण इति दारिद्र्यलक्षणोक्ति: । पिङ्गलकेशो वा । गार्ग्य: गर्गमुनिवंश्य: । उञ्छवृत्ति: उञ्छेन एकैकशो धान्यग्रहणेन वृत्तिर्जीवनं यस्य तथा । क्षतवृत्तिरितिपाठे–क्षतेन खननेन जीवनं यस्येत्यर्थ: । खननलब्धकन्दमूलादिजीवन इत्यर्थ: । फालकुद्दाललाङ्गली फल्यते अनेनेति फाल: द्वैधीकरणसाधनं कुठारशङ्कुलादिकम् । कुद्दाल: खननसाधनम्, खनित्रमिति यावत् । लाङ्गलं हलाकार: फलाकर्षणसाधनभूतो दण्डविशेष: तद्वान् । एवं वनवासी कश्चिद्दरिद्रो गृहस्थ: दैवात्तत्र नगरे तदानीं सङ्गतो ऽभूदिति भाव: ।। 2.32.29 ।।
तं वृद्धं तरुणी भार्या बालानादाय दारकान् ।
अब्रवीद्ब्राह्मणं वाक्यं दारिद्र्येणाभिपीडिता ।। 2.32.30 ।।
तमिति । दारकान् पुत्रकान् ।। 2.32.30 ।।
अपास्य फालं कुद्दालं कुरुष्व वचनं मम ।
रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि ।। 2.32.31 ।।
अपास्येति । कुद्दालमिति लाङ्गलस्याप्युपलक्षणम् । दर्शयेति भार्यापुत्रसहितमात्मानमित्यर्थ: । “गतिबुद्धि–” इत्यादिना द्विकर्मकत्वम् । यदि दर्शयसि तदा किञ्चिदवाप्स्यसीत्यर्थ: । किञ्चिदिति स्वभाग्यहान्यपेक्षयोक्तम् ।। 2.32.31 ।।
स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।
स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ।। 2.32.32 ।।
स इति । दुश्छदाम् अतिजीर्णत्वादाच्छादयितुमशक्याम् । रामदर्शनार्थमाच्छादनयत्न: । यत्र यन्मार्गाश्रितवीथ्याम् ।। 2.32.32 ।।
भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि ।
आ पञ्चमाया: कक्ष्याया: नैनं कश्चिदवारयत् ।। 2.32.33 ।।
भृग्वङ्गिरेति । अङ्गिरेत्यत्र अकारान्तत्वमार्षम् ।। 2.32.33 ।।
स राजपुत्रमासा़ त्रिजटो वाक्यमब्रवीत् ।
निर्द्धनो बहुपुत्रो ऽस्मि राजपुत्र महायश: ।
उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ।। 2.32.34 ।।
स इत्यादि । प्रत्यवेक्षस्व कटाक्षयेत्यर्थ: ।। 2.32.34 ।।
तमुवाच ततो राम: परिहाससमन्वितम् ।। 2.32.35 ।।
तमिति । परिहाससमन्वितं लीलास्मितसमन्वितम्, बहुकुटुम्बिनो दरिद्रस्य अस्य कियती धनाशेति जिज्ञासया सस्मित इत्यर्थ: ।। 2.32.35 ।।
गवां सहस्रमप्येकं न तु विश्राणितं मया ।
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ।। 2.32.36 ।।
गवामिति । अनेकगोसहस्राणां मध्ये एकमपि सहस्रं न विश्राणितमित्यर्थ: । यद्वा असङ्ख्यातानां गवां मध्ये एकमपि सहस्रं मया न विश्राणितं न दत्तम् । तुभ्यमिति शेष: । अपि तु दण्डेन यावत्परिक्षिपसि गवाकीर्णं यावन्तं देशं परिक्षिपसि तावदवाप्स्यसि, तावद्देशस्थं गोजातमवाप्स्यसीत्यर्थ: । एकं गोसहस्रमात्रं न दत्तम् अन्यत् सर्वं दत्तमिति नार्थ: । ‘बहुसाहस्रे’ इत्यादि वक्ष्यमाणेन विरोधात् अपिशब्दास्वारस्याच्च ।। 2.32.36 ।।
स शाटीं त्वरित: कट्यां सम्भ्रान्त: परिवेष्ट्य ताम् ।
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगित: ।। 2.32.37 ।।
स शाटीमिति । कट्यां परिवेष्टनं बलोत्तम्भनाय । आविध्य भ्रामयित्वा । सर्वप्राणेन सर्वशक्त्या । “शक्ति: पराक्रम: प्राण:” इत्यमर: ।। 2.32.37 ।।
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युत: ।
गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ ।। 2.32.38 ।।
स इति । उक्षणसन्निधौ उक्षसन्निधौ “वष्टिभागुरि:” इत्यादिरीत्या अकारान्तत्वम् ।। 2.32.38 ।।
तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात् ।
आनयामास ता गोपैस्त्रिजटायाश्रमं प्रति ।। 2.32.39 ।।
तमिति । आ तस्मादित्यत्राभिविधिवाचकस्याङ: सरयूतटादित्यनेन सम्बन्ध: । आनयामास नाययामासेत्यर्थ: ।। 2.32.39 ।।
उवाच च ततो राम: तं गार्ग्यमभिसान्त्वयन् ।
मन्युर्न खलु कर्त्तव्य: परिहासो ह्ययं मम ।। 2.32.40 ।।
उवाचेति । परिहासो ह्ययं मम अयं दण्डक्षेपणप्रचोदना । परिहास: विनोदार्थ इत्यर्थ: ।। 2.32.40 ।।
इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया ।
इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति ।। 2.32.41 ।।
परिहासमेव विवृणेति–इदमिति । तेज: बलम् । दुरत्ययं निरतिशयमित्यर्थ: । यद्वा जिज्ञासितुं ज्ञातुमित्यर्थ: । यद्वा जिज्ञासितुं मीमांसितुम् । “मानेर्जिज्ञासायाम्” इति मीमांसार्थे जिज्ञासाशब्दप्रयोगात् । इममर्थं दण्डप्रक्षेपणरूपम् । अपरं किञ्चिद्व्यवस्यति अभिलषति चेत् तद्वृणीष्व ।। 2.32.41 ।।
ब्रवीमि सत्येन न ते ऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात् ।
भवत्सु सम्यक् प्रतिपादनेन तन्मयार्जितं प्रीतियशस्करं भवेत् ।। 2.32.42 ।।
इदं च पूर्ववन्न परिहासरूपमित्याह–ब्रवीमीति । यन्त्रणा निरोध इत्यर्थ: । मम यद्यद्धनमस्ति तत्सर्वं विप्रकारणात् विप्रार्थमेव आर्जितम्, भवत्सु भवादृशेषु विप्रेषु । सम्यक् करणत्रयपूणकम् प्रदानेन मम प्रीतियशस्करं भवेत् ।। 2.32.42 ।।
तत: सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदित: ।
यशोबलप्रीतिसुखोपबृंहिणीस्तदाशिष: प्रत्यवदन्महात्मन: ।। 2.32.43 ।।
तत इति । मोदित इत्यनेन गोभ्योन्यन्नापेक्षितवानित्यवगम्यते । उपबृंहणी: वर्द्धनी: । तदा गमनकाले । महात्मन: रामस्य ।। 2.32.43 ।।
स चापि राम: प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम् ।
नियोजयामास सुहृज्जने चिराद्यथार्हसम्मानवच: प्रचोदित: ।। 2.32.44 ।।
स इति । धर्मबलै: धर्मप्रयुक्तपराक्रमै: । नियोजयामास प्रतिपादयामास । सुहृज्जने विषये यथार्हसम्मानवच:प्रचोदित: । आहिताग्न्यादित्वान्निष्ठाया: परनिपात: । तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थ: ।। 2.32.44 ।।
द्विज: सुहृद्भृत्यजनो ऽथवा तदा दरिद्रभिक्षाचरणश्च यो ऽभवत् ।
न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमै: ।। 2.32.45 ।।
द्विज इति । द्विज: ब्राह्मण: । सुहृत् द्विजत्वाभावेपि सुहृत् । द्विजत्वसुहृत्त्वाभावेपि भृत्यजन:, तथात्वाभावेपि दरिद्रभिक्षाचरण: । भिक्षां चरतीति भिक्षाचरण: । “कृत्यल्युटो बहुलम्” इति कर्त्तरि ल्युट् । कर्मधारयसमास: । तत्र तेषु मध्ये । कश्चिदपि यथार्हसम्माननदानसम्भ्रमै: सम्भ्रमस्त्वरा । “आरम्भ: सम्भ्रमस्त्वरा” इत्यमर: । न तर्पितो न बभूव । त्वरया क्रियमाणैरपि सम्मानदानै: सर्वेपि तर्पिता बभूवुरित्यर्थ: ।। 2.32.45 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वात्रिंश: सर्ग: ।। 32 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने द्वात्रिंश: सर्ग: ।। 32 ।।