33 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयस्त्रिंश: सर्ग:

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।जग्मतु: पितरं द्रष्टुं सीतया सह राघवौ ।। 2.33.1 ।।

पूर्वं पित्रानुज्ञातो ऽपि सीतालक्ष्मणयोरनुज्ञापनाय पुन: रामो दशरथसमीपं गच्छति–दत्त्वेत्यादि ।। 2.33.1 ।।

ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे ।

मालादामभिराबद्धे सीतया समलङ्कृते ।। 2.33.2 ।।

तत इति । तदायुधे तयोरायुधे, धनुषी इति यावत् । खङ्गादीनामप्युपलक्षणमेतत् । मालादामभि: मालानिचयैरित्यर्थ: । अलङ्कृते चन्दनादिभिरलङ्कृते ।। 2.33.2 ।।

तत: प्रासादहर्म्याणि विमानशिखराणि च ।

अधिरुह्य जन: श्रीमानुदासीनो व्यलोकयत् ।। 2.33.3 ।।

तत इति । प्रासादहर्म्याणि प्रासादो देवतानां भूभुजां चावास:, हर्म्याणि धनिनां मन्दिराणि । “हर्म्यादिर्धनिनां वास: प्रासादो देवभूभुजाम्” इत्यमर: । विमानशिखराणि विमानं सप्तभूमिसहितं सद्म “विमानो ऽस्त्री देवयाने सप्तभूमौ च सद्मनि” इति वैजयन्ती । उदासीन: निरुत्सुक:, निर्विण्ण इति यावत् ।। 2.33.3 ।।

न हि रथ्या: स्म शक्यन्ते गन्तुं बहुजनाकुला: ।

आरुह्य तस्मात् प्रासादान् दीना: पश्यन्ति राघवम् ।। 2.33.4 ।।

नहीति । तस्मात् रथ्या गमनस्याशक्यत्वात् । प्रासादानितिपाठ: । प्रासादादितिपाठे ल्यब्लोपे पञ्चमी क्लिष्टा ।। 2.33.4 ।।

पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जना: ।

ऊचुर्बहुविधा वाच: शोकोपहतचेतस: ।। 2.33.5 ।।

दीनत्वे हेतुमाह–पदातिमित्यादिना ।। 2.33.5 ।।

यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।

तमेकं सीतया सार्द्धमनुयाति स्म लक्ष्मण: ।। 2.33.6 ।।

यमिति । एकं मुख्यम् ।। 2.33.6 ।।

ऐश्वर्यस्य रसज्ञस्सन् कामिनां चैव कामद: ।

नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ।। 2.33.7 ।।

या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।

तामद्य सीतां पश्यन्ति राजमार्गगता जना: ।। 2.33.8 ।।

अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम् ।

वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्णताम् ।। 2.33.9 ।।

ऐश्वर्यस्येति । रसज्ञ: सङ्ग्रहसुखज्ञः । कामिनाम् अर्थकाङ्क्षिणां कामद: अभीष्टधनप्रद: । अनृतम् अनृतवचनम् । कर्तुं धर्मगौरवात् पितृशुश्रूषणवचनकरणविधेयत्वादिरूपधर्मविषयकबहुमानात् ।। 2.33.79 ।।

अद्य नूनं दशरथ: सत्त्वमाविश्य भाषते ।

न हि राजा प्रियं पुत्रं विवासयितुमिच्छति ।। 2.32.10 ।।

अद्येति । सत्त्वं जन्तुं “सत्त्वमस्त्री तु जन्तुषु” इत्यमर: । पिशाचमिति यावत् । आविश्य प्राप्य ।। 2.33.10 ।।

निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् ।

किंपुनर्यस्य लोको ऽयं जितो वृत्तेन केवलम् ।। 2.33.11 ।।

निर्गुणस्यापीति । वृत्तेन केवलं चरित्रमात्रेण । “वृत्तं पद्ये चरित्रे च” इत्यमर: । वृत्तेन केवलमित्युक्ति: दानमानादौ विद्यमानेपि चरित्रप्राधान्यात् ।। 2.33.11 ।।

आनृशंस्य मनुक्रोश: श्रुतं शीलं दम: शम: ।

राघवं शोभयन्त्येते षड्गुणा: पुरुषर्षभम् ।। 2.33.12 ।।

आनृशंस्यमिति । आनृशंस्यम् अहिंसकत्वम् । अनुक्रोशो दया “कृपा दयानुकम्पा स्यादनुक्रोश:” इत्यमर: । दम: इन्द्रियनिग्रह: । शम: चित्तप्रशान्ति: । “शमश्चित्तप्रशान्ति स्याद्दम इन्द्रियनिग्रहे” इति निर्वचनात् ।। 2.33.12 ।।

तस्मात्तस्योपघातेन प्रजा: परमपीडिता: ।

औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ।। 2.33.13 ।।

तस्मादिति । तस्मात् षाङ्गुण्ययुक्तत्वात् । तस्य रामस्य । उपघातेन हिंसनेन । औदकानि उदकजीवनानि । शैषिको ऽण् ।। 2.33.13 ।।

पीडया पीडितं सर्वं जगदस्य जगत्पते: ।

मूलस्येवोपघातेन वृक्ष: पुष्पफलोपग: ।। 2.33.14 ।।

पीडयेति । अस्य जगत्पते: रामस्य । पीडया विवासनरूपया । पुष्पफलैरुपगमो यस्य स पुष्पफलोपगो वृक्ष इव “अन्येष्वपि दृश्यते” इति डप्रत्यय: ।। 2.33.14 ।।

मूलं ह्येष मनुष्याणां धर्मसारो महाद्युति: ।

पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जना: ।। 2.33.15 ।।

मूलमिति । मनुष्याणां प्राणिनाम् । उपलक्षणमेतत् । धर्म एव सारो यस्य स: धर्मसार: ।। 2.33.15 ।।

ते लक्ष्मण इव क्षिप्रं सपत्न्य: सहबान्धवा: ।

गच्छन्तमनुगच्छामो येन गच्छति राघव: ।। 2.33.16 ।।

त इति । ते वयं सपत्न्य: सपत्नीका: । समासान्तविधेरनित्यत्वेन “नद्यृतश्च” इति कबभाव: । येन मार्गेण गच्छति तेनेति शेष: ।। 2.33.16 ।।

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।

एकदु:खसुखा राममनुगच्छाम धार्मिकम् ।। 2.33.17 ।।

उद्यानानीति । उद्यानानि राजार्होद्यानसहृशक्रीडावनानि । एकदु:खसुखा: समानसुखदु:खा: ।। 2.33.17 ।।

समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।

उपात्तधनधान्यानि हृतसाराणि सर्वश: ।। 2.33.18 ।।

रजसाभ्यवकीर्णानि परित्यक्तानि दैवतै: ।

मूषकै: परिधावद्भिरुद्बिलैरावृतानि च ।। 2.33.19 ।।

अपेतोदकधूमानि हीनसंमार्जनानि च ।

प्रणष्टबलिकर्मेज्या मन्त्रहोमजपानि च ।। 2.33.20 ।।

दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ।

अस्मात्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ।। 2.33.21 ।।

समुद्धृतनिधानानीत्यादि । समुद्धृतनिधानानि सम्यगुद्धृतनिक्षेपाणि । परिध्वस्ताजिराणि भग्नाङ्गणानि “अङ्गणं चत्वराजिरे” इत्यमर: । उपात्तधनधान्यानि अत्र धन शब्देन गवादिकं निक्षिप्तभूषणनिष्कादिकं चोच्यते । साराणि शय्यासनादीनि । दैवतै: गृहदैवतै: । उद्बिलै: उद्भिन्नबिलै: । उदकम् उदकसेचनम् । हीनसम्मार्जनानि सम्मार्जनहीनानि । दुष्कालेन क्षामक्षोभयुक्तकालेन । भाजनं भाण्डादि ।। 2.33.1821 ।।

वनं नगरमेवास्तु येन गच्छति राघव: ।

अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ।। 2.33.22 ।।

वनमिति । येन वनेन हेतुना ।। 2.33.22 ।।

बिलानि दंष्ट्रिण: सर्वे सानूनि मृगपक्षिण: ।

त्यजन्त्यस्मद्भयाद्भीता गजा: सिंहा वनान्यपि ।। 2.33.23 ।।

बिलानीति । दंष्ट्रिण: सर्प्पाद्या: । अस्माद्भयात् अस्मत्प्रयुक्तभयहेतो: ।। 2.33.23 ।।

अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ।। 2.33.24 ।।

अस्मत्त्यक्तमिति । अस्माभिस्त्यक्तं पुरम्, सेव्यमानं वनमित्यर्थसिद्धम् । अत्र कर्त्तार: पूर्वोक्तदंष्ट्र्यादय: ।। 2.33.24 ।।

तृणमांसफलादानां देशं व्यालमृगद्विजम् ।

प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवै: ।

राघवेण वने सर्वे सह वत्स्याम निर्वृता: ।। 2.33.25 ।।

तृणेति । तृणमांसफलादानां तृणादा: हरिणादय:, मांसादा: व्याघ्रादय:, फलादा: वायसादय: । व्यालमृगद्विजम् व्याला: क्रूरा: मृगद्विजा: यस्मिंस्तादृशं देशम् । इदमेव नगरं तादृशं भविष्यतीति भाव: । निर्वृता: सुखिता: ।। 2.33.25 ।।

इत्येवं विविधा वाचो नानाजनसमीरिता: ।

शुश्राव राम: श्रुत्वा च न विचक्रे ऽस्य मानसम् ।। 2.33.26 ।।

स तु वेश्म पितुर्दूरात् कैलासशिखरप्रभम् ।

अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रम: ।। 2.33.27 ।।

विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।

ददर्शावस्थितं दीनं सुमन्त्रमविदूरत: ।। 2.33.28 ।।

इतीति । श्रुत्वा अवस्थितस्येति शेष: । न विचक्रे न विकारं प्राप ।। 2.33.2628 ।।

प्रतीक्षमाणो ऽपि जनं तदार्तमनार्तरूप: प्रहसन्निवाथ ।

जगाम राम: पितरं दिदृक्षु: पितुर्निदेशं विधिवच्चिकीर्षु: ।। 2.33.29 ।।

प्रतीक्षमाण इति । निदेशं नियोगम् ।। 2.33.29 ।।

तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् वनमार्त्तरूपम् ।

व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ।। 2.33.30 ।।

तत्पूर्वमिति । तत्पूर्वं तत्प्रथमम् । महात्मा महाधैर्य: । प्रतिहारणार्थं स्वागमननिवेदनार्थम् ।। 2.33.30 ।।

पितुर्निदेशेन तु धर्मवत्सलो वनप्रदेशे कृतबुद्धिनिश्चय: ।

स राघव: प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदय स्वागमनं नृपाय मे ।। 2.33.31 ।।

पितुरिति । अस्यान्ते इतिकरणं द्रष्टव्यम् ।। 2.33.31 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयस्त्रिंश: सर्ग: ।। 33 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने  त्रयिस्त्रिंश: सर्ग: ।। 33 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.