श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनचत्वारिंश: सर्ग:
ताश्चापि स तथैवार्ता मातृ़र्दशरथात्मज: ।
धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलि: ।। 2.39.37 ।।
ता इति । तथैवार्त्ता: कौसल्येव दु:खिता: ।। 2.39.37 ।।
संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् ।
तन्मे समनुजानीत सर्वाश्चामन्त्रयामि व: ।। 2.39.38 ।।
संवासादिति । संवासात् एकत्र सहवासात्, चिरपरिचयादित्यर्थ: । समनुजानीत क्षान्तमित्यनुज्ञां कुरुतेत्यर्थ: । आमन्त्रयामि आपृच्छामि ।। 2.39.38 ।।
वचनं राघवस्यैतद्धर्मयुक्तं समाहितम् ।
शुश्रुवुस्ता: स्त्रिय: सर्वा: शोकोपहतचेतस: ।। 2.39.39 ।।
जज्ञे ऽथ तासां सन्नाद: क्रौञ्चीनामिव निस्वन: ।
मानवेन्द्रस्य भार्याणामेवं वदति राघवे ।। 2.39.40 ।।
वचनमिति । समाहितं समीचीनार्थयुक्तमित्यर्थ: ।। 2.39.3940 ।।
मुरजपणमवेघघोषवद्दशरथवेश्म बभूव यत् पुरा ।
विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदु:खितम् ।। 2.39.41 ।।
मुरजपणवेति । मुरजपणवा एव मेघास्तेषां घोषास्तद्वत् । यद्वा मुरजादिसहपाठात् मेघोपि वाद्यविशेष: । मुरजश्च पणवश्च मेघश्च मुरजपणवमेघम् । “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इत्येकवद्भाव: । तद्धोषात् । विलपितपरिदेवनाकुलं विविधानि लपितानि रामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानि यस्मिंस्तद्विलपितं परिदेवनं रोदनशब्द: तेनाकुलम् । व्यसनगतम् आपद्गतम् अत एव दु:खितमभूत् ।। 2.39.41 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनचत्वारिंश: सर्ग: ।। 39 ।।
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनचत्वारिंश: सर्ग: ।। 39 ।।