45 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चचत्वारिंश: सर्ग:

अनुरक्ता महात्मानं रामं सत्यपराक्रमम् ।

अनुजग्मु: प्रयान्तं तं वनवासाय मानवा: ।। 2.45.1 ।।

एवं सुमित्रया कौसल्याश्वासनपर्यन्तं कथासङ्घट्टनं परिसमाप्य सम्प्रति रामगमनवृत्तान्तं प्रस्तौति–अनुरक्ता इत्यादि ।। 2.45.1 ।।

निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजनि ।

नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ।। 2.45.2 ।।

अयोध्यानिलयानां हि पुरुषाणां महा यशा: ।

बभूव गुणसम्पन्न: पूर्णचन्द्र इव प्रिय: ।। 2.45.3 ।।

निवर्तित इति । सुहृद्वर्गे राजसुहृद्भूतावरोधवर्गे । राजनि च सचिवसहिते राजनि च । ते पौरजना: ।। 2.45.23 ।।

स याच्यमान: काकुत्स्थ: स्वाभि: प्रकृतिभिस्तदा ।

कुर्वाण: पितरं सत्यं वनमेवान्वपद्यत ।। 2.45.4 ।।

स इति । याच्यमान: निवर्तस्वनिवर्त्तस्वेति प्रार्थ्यमान: । सत्यं सत्यप्रतिज्ञम् ।। 2.45.4 ।।

अवेक्षमाण: सस्नेहं चक्षुषा प्रपिबन्निव ।

उवाच राम: स्नेहेन ता: प्रजा: स्वा: प्रजा इव ।। 2.45.5 ।।

अवेक्षमाण इति । स्वा: प्रजा इव स्वान्यपत्यानीव ।। 2.45.5 ।।

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् ।

मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ।। 2.45.6 ।।

स हि कल्याणचारित्र: कैकेय्यानन्दवर्द्धन: ।

करिष्यति यथावद्व: प्रियाणि च हितानि च ।। 2.45.7 ।।

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वित: ।

अनुरूप: स वो भर्त्ता भविष्यति भयापह: ।। 2.45.8 ।।

स्वेन पितृवचनपरिपालनस्यावश्यकर्त्तव्यत्वात् प्रजानुरागेण ताभ्यो हितमुपदिशति–या प्रीतिरित्यादिना ।। 2.45.68 ।।

स हि राजगुणैर्युक्तो युवराज: समीक्षित: ।

अपि चापि मया शिष्टै: कार्यं वो भर्तृशासनम् ।। 2.45.9 ।।

स हीति । हि यस्मात् कारणात् भरतो व: युष्माकं युवराज: समीक्षित:, राज्ञेति शेष: । अतो मया शिष्टैरवशिष्टै: लक्ष्मणशत्रुघ्नादिभि: सर्वैरपि भर्तृशासनं कार्यम् । अपि चेति वक्तव्यान्तरसमुच्चये ।। 2.45.9 ।।

न च तप्येद्यथा चासौ वनवासं गते मयि ।

महाराजस्तथा कार्यो मम प्रियचिकीर्षया ।। 2.45.10 ।।

नेति । मयि वनं गते सति असौ महाराज: यथा न सन्तप्येत् मम प्रियचिकीर्षया तथा कार्य: ।। 2.45.10 ।।

यथायथा दाशरथिर्धर्म एव स्थितो ऽभवत् ।

तथातथा प्रकृतयो रामं पतिमकामयन् ।। 2.45.11 ।।

यथेति । धर्मे पितृवचनपरिपालनरूपे धर्मे । तथातथा प्रकृतयो रामं पतिमकामयन् आदौ राजा ज्येष्ठं भवन्तमेव अस्मद्रक्षणार्थं युवराजत्वेन कल्पितवान् । अयमर्थो भवता अस्माभिश्च कर्त्तव्य इति राममेव पुन:पुन: पतिमकामयन्तेत्यर्थ: ।। 2.45.11 ।।

बाष्पेण पिहितं दीनं राम: सौमित्रिणा सह ।

चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम् ।। 2.45.12 ।।

बाष्पेणेति । सौमित्रिणा सहेत्यनेन रामस्येव लक्ष्मणस्यापि गुणपौष्कल्यमस्तीति द्योत्यते । गुणैरेव गुणै: पाशैरिति श्लिष्टरूपकम् ।। 2.45.12 ।।

ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा ।

वय:प्रकम्पशिरसो दूरादूचुरिदं वच: ।। 2.45.13 ।।

वहन्तो जवना रामं भो भो जात्या स्तुरङ्गमा: ।

निवर्त्तध्वं न गन्तव्यं हिता भवत भर्त्तरि ।। 2.45.14 ।।

त इति । त्रिविधमिति क्रियाविशेषणम् । ओजसा तपोबलेन । वयसा प्रकम्पं चञ्चलं शिरो येषां ते तथा ।। 2.45.1314 ।।

कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमा: ।

यूयं तस्मान्निवर्त्तध्वं याचनां प्रतिवेदिता: ।। 2.45.15 ।।

कर्णवन्तीति । याचनां प्रतिवेदिता: प्रार्थनां ज्ञापिता: । अस्माभिरिति शेष: । ।। 2.45.15 ।।

धर्मत: स विशुद्धात्मा वीर: शुभदृढव्रत: ।

उपवाह्यस्तु वो भर्त्ता नापवाह्य: पुराद्वनम् ।। 2.45.16 ।।

धर्म इति । उपवाह्य: पुरसमीपे वाह्य: ।। 2.45.16 ।।

एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान् ।

अवेक्ष्य सहसा रामो रथादवततार ह ।। 2.45.17 ।।

एवमिति । आर्तप्रलापान् प्रलपत: आर्तवाक्यानि प्रयुञ्जानानित्यर्थ: ।। 2.45.17 ।।

पद्भ्यामेव जगामाथ ससीत: सहलक्ष्मण: ।

सन्निकृष्टपदन्यासो रामो वनपरायण: ।। 2.45.18 ।।

पद्भ्यामिति । सन्निकृष्टपदन्यास: पद्भ्यां जगामेति ब्राह्मण वाक्यश्रवणानन्तरं रथगमने दोषो भवतीति प्रतिनिवृत्त्य ब्राह्मणाश्वासने व्रतभङ्गो भवतीति धिया रथादवतीर्य तदागमनपर्यन्तं मन्दं मन्दं जगामेत्यर्थ: ।। 2.45.18 ।।

द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सल: ।

न शशाक घृणाचक्षु: परिमोक्तुं रथेन स: ।। 2.45.19 ।।

रथादवतीर्य किमर्थं पादगमनं कृतवानित्याशङ्क्याह–द्विजातीनिति । रथेन द्विजातीन् परिमोक्तुं न शशाक रथेनोपलक्षित: सन् सावरोधं दशरथमिवाञ्जल्यादिना द्विजातीन् निवर्त्तयितुं न शशाकेत्यर्थ: । घृणाचक्षु: दयार्द्रचक्षुरित्यर्थ: ।। 2.45.19 ।।

गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतस: ।

ऊचु: परमसन्तप्ता रामं वाक्यमिदं द्विजा: ।। 2.45.20 ।।

गच्छन्तमिति । गच्छन्तमेव बहुशो निवृत्ति हेतुप्रदर्शनेपि पितृवचनचिकीर्षया गच्छन्तमेवेत्यर्थ: ।। 2.45.20 ।।

ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति ।

द्विजस्कन्धाधिरूढास्त्वामग्नयोप्यनुयान्त्यमी ।। 2.45.21 ।।

दु:खप्रलापादिनाप्यनिवृत्तं रामं सह वनगमनलक्षणं महाभारमारोप्य निवर्तयितुमुद्युञ्जते–ब्राह्मण्यमित्यादिना । ब्राह्मण्यं ब्राह्मणसमूह: “ब्राह्मणमाणववाडवाद्यत्” इति यत्प्रत्यय: । ब्रह्मसु ब्राह्मणेषु साधु: ब्रह्मण्य: तम् । अग्नय: अरण्यारोपिता:, केवलानां द्विजस्कन्धाधिरूढत्वासम्भवात् ।। 2.45.21 ।।

वाजपेयसमुत्थानि छत्राण्येतानि पश्य न: ।

पृष्ठतो ऽनुप्रयातानि मेघानिव जलात्यये ।। 2.45.22 ।।

वाजपेयेति । वाजपेयसमुत्थानि वाजपेथानुष्ठानसम्भृतानि । जलात्यये शरदि ।। 2.45.22 ।।

अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते ।

एभिश्छायां करिष्याम: स्वैश्छत्रैर्वाजपेयिकै: ।। 2.45.23 ।।

अनवाप्तेति । वाजपेयिकै: वाजपेयप्राप्तै: । “यावज्जीवं न कञ्चन प्रत्यवरोहेत् बृहस्पतिसवेन वा प्रत्यवरोहणीयेन यजेत श्वेतच्छत्री भवतीति विज्ञायते” इति वाजपेययाजिनां श्वेतच्छत्रधारणविधानादिति भाव: ।। 2.45.23 ।।

या हि न: सततं बुद्धिर्वेदमन्त्रानुसारिणी ।

त्वत्कृते सा कृता वत्स वनवासानुसारिणी ।। 2.45.24 ।।

अस्माकं बुद्धिरेतावन्तं कालं निश्चिन्ततया मन्त्रविषयाभूत् । इदानीं त्वत्कृतवनवासविषयाभूदिति रामे महान्तं भारमारोपयन्ति–या हीत्यादिना ।। 2.45.24 ।।

हृदयेष्वेव तिष्ठन्ति वेदा ये न: परं धनम् ।

वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिता: ।। 2.45.25 ।।

ब्राह्मणानां धनभूतं वेदं परित्यज्य सहधर्मचारिदारसंरक्षणमप्यकृत्वा कथमस्माभि: सह गम्यत इत्याकाङ्क्षायामाह–हृदयेष्विति । न: परं धनम् उत्कृष्टधनभूता ये वेदास्ते हृदयेष्वेव तिष्ठन्ति, अनुच्चारणे तेषां न कापि हानिरिति भाव: । चारित्रेण पातिव्रत्येन रक्षिता दाराश्च गृहेष्वेव तिष्ठन्ति । चारित्राणामेव तद्रक्षकत्वान्नास्मद्रक्ष्यास्त इति भाव: ।। 2.45.25 ।।

न पुनर्निश्चय: कार्यस्त्वद्गतौ सुकृता मति: ।

त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम् ।। 2.45.26 ।।

अद्य मत्प्रार्थनया निवर्त्तध्वमित्यत्राह–नेति । त्वद्गतौ त्वन्निवर्त्तनरूपगतौ । मति: सुकृता सुष्ठु कृता । निश्चय: वनगमननिश्चय: । पुनर्न कार्य:, त्वयेति शेष: । त्वयि धर्मव्यपेक्षे पितृवचनपरिपालनरूपधर्मसापेक्षे सति । अस्माभि: धर्ममपेक्षितुं पालयितुं किं निमित्तं स्यात्, त्वयि वनं गते ऽस्माभिर्धर्म एव त्यक्तव्य इति भाव: । यद्वा त्वयि धर्मपरायणे त्वयि तु धर्मव्यपेक्षे सति ब्राह्मणप्रार्थनाकरणरूपधर्मनिरपेक्षे सति किंभूतं धर्ममपेक्षितुं स्यात् न किमपीत्यर्थ: ।। 2.45.26 ।।

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहै: ।

शिरोभिर्निभृताचार महीपतनपांसुलै: ।। 2.45.27 ।।

ज्ञान वयस्तपोवृद्धा अपि द्विजा विश्लेषासहिष्णुतया प्रणामेनापि निवर्त्तयितुमुद्युञ्जते–याचित इति । हे निभृताचार निश्चलधर्मानुष्ठान हंसशुक्लशिरोरुहै: पलितकेशै: । महीपतनपांसुलै: कृतसाष्टाङ्गप्रणामै: । न: अस्माकम् शिरोभिर्याचितो निवर्त्तस्व । वृद्धब्राह्मणानां क्षत्रियकुमारप्रणाम: परत्वबुद्ध्या ।। 2.45.27 ।।

बहूनां वितता यज्ञा द्विजानां य इहागता: ।

तेषां समाप्तिरायत्ता तव वत्स निवर्त्तने ।। 2.45.28 ।।

बहूनामिति । ये द्विजा इहागतास्तेषां ये यज्ञा: वितता: विस्तृता:, सम्भृतसम्भारा इति यावत् । तेषां यज्ञानां समाप्तिस्तव निवर्त्तने आयत्ता, त्वन्निवर्त्तनाधीनेत्यर्थ: । एवं न कृतञ्चेत्सर्वे यज्ञास्त्वयैव विघ्निता: स्युरिति भाव: ।। 2.45.28 ।।

भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च ।

याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ।। 2.45.29 ।।

न केवलं वयमेव, तिर्यक्स्थावराण्यपि त्वन्निवृत्तिमपेक्षन्त इत्याह–भक्तिमन्तीति । भक्तिं स्नेहम् । दर्शय सफलयेत्यर्थ: ।। 2.45.29 ।।

अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिन: ।

उन्नता वायुवेगेन विक्रोशन्तीव पादपा: ।। 2.45.30 ।।

अनुगन्तुमिति । मूलै: पादस्थानीयैस्त्वामनुगन्तुमशक्ता: । उद्धतवेगिन: प्रतिहतवेगिन: । वायुवेगेन उन्नता: ऊर्ध्वबाहव इव स्थिता इति भाव: । पादपा: विक्रोशन्तीव, क्रन्दन्तीव वायुवेगोत्थशब्दैरिति भाव: । उद्धतवेगिभिरित्यपि पाठ: ।। 2.45.30 ।।

निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिता: ।

पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ।। 2.45.31 ।।

निश्चेष्टेति । चेष्टा चलनादिकम् आहार: सञ्चाराश्च येभ्यो निर्गतास्ते तथोक्ता: । प्रयाचन्ते प्रार्थयन्ते, निवृत्तिमिति शेष: । एवं तिर्यक्स्थावराणामपि खेदो रामस्य सर्वशरीरित्वात् शरीरिणो वैपरीत्ये हि शरीरव्यथा दृष्टा ।। 2.45.31 ।।

एवं विक्रोशतां तेषां द्विजातीनां निवर्त्तने ।

ददृशे तमसा तत्र वारयन्तीव राघवम् ।। 2.45.32 ।।

एवमिति । निवर्तने विषये । यद्वा द्विजातीनामिति सम्बन्धसामान्ये षष्ठी । द्विजातिभि: प्रार्थ्यमानरामनिवर्त्तन

इत्यर्थ: ।। 2.45.32 ।।

तत: सुमन्त्रो ऽपि रथाद्विमुच्य श्रान्तान् हयान् सम्परिवर्त्त्य शीघ्रम् ।

पीतोदकांस्तोयपरिप्लुताङ्गानचारयद्वै तमसाविदूरे ।। 2.45.33 ।।

तत इति । संपरिवर्त्त्य अध्यश्रमनिवृत्त्यर्थं परिवेष्टनं कारयित्वा अचारयत् भक्षितयवसानकरोत् ।। 2.45.33 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चचत्वारिंश: सर्ग: ।। 45 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चचत्वारिंश: सर्ग: ।। 45 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.