51 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकपञ्चाश: सर्ग:

तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् ।

गुह: सन्तापसन्तप्तो राघवं वाक्यमब्रवीत् ।। 2.51.1 ।।

तं जाग्रतमित्यादि । अदम्भेन अकृत्रिमेण । अर्थाय रक्षणाय । सन्तापसन्तप्त: रामदुर्दशादर्शनसन्तापेन सन्तप्त: । राघवं लक्ष्मणम् ।। 2.51.1 ।।

इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।

प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ।। 2.51.2 ।।

इयमिति । प्रत्याश्वसिहि विश्रान्तो भवेति यावत् ।। 2.51.2 ।।

उचितो ऽयं जन: सर्व: क्लेशानां त्वं सुखोचित: ।

गुप्त्यर्थं जागरिष्याम: काकुत्स्थस्य वयं निशाम् ।। 2.51.3 ।।

न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।

ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ।। 2.51.4 ।।

अयं जन: वनचारित्वेन क्लेशसहोजन: ।। 2.51.34 ।।

अस्य प्रसादादाशंसे लोके ऽस्मिन् सुमहद्यश: ।

धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ।। 2.51.5 ।।

अस्येति । आशंसे प्रार्थये । केवलामर्थावाप्तिम् अर्थावाप्तिमेवेत्यर्थ: । केचित्तु केवलमिति पठित्वा केवलं प्रसादादिति योजयन्ति ।। 2.51.5 ।।

सो ऽहं प्रियतमं रामं शयानं सह सीतया ।

रक्षिष्यामि धनुष्पाणि: सर्वतो ज्ञातिभि: सह ।। 2.51.6 ।।

स इति । सर्वत: सर्वदिक्षु ।। 2.51.6 ।।

न हि मे ऽविदितं किञ्चिद्वनेस्मिंश्चरत: सदा ।

चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि ।। 2.51.7 ।।

लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ ।

नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ।। 2.51.8 ।।

न हीति । अविदितमिति पदच्छेद: । किंचित् विरोध्यागमनस्थानम् । बलं परकीयम् । प्रसहेमहीत्येतदात्मनि बहुवचनं जात्यपेक्षया ।। 2.51.78 ।।

कथं दाशरथौ भूमौ शयाने सहसीतया ।

शक्य निद्रा मया लब्धुं जीवितं वा सुखानि वा ।। 2.51.9 ।।

भीत्यभावे किमर्थं जागरणमित्याह–कथमिति । निद्रा न लभ्यत इति भाव: । जीवितम् आश्वासनम् । निद्रैव न लभ्यते जीवितसुखानां का कथेति भाव: ।। 2.51.9 ।।

यो न देवासुरै: सर्वै: शक्य: प्रसहितुं युधि ।

तं पश्य सुखसंविष्टं तृणेषु सह सीतया ।। 2.51.10 ।।

य इति । प्रसहितुमिति “तीषसह–” इत्यादिना पाक्षिक इट् । संविष्टं शयानम् ।। 2.51.10 ।।

यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमै: ।

एको दशरथस्येष्ट: पुत्र: सदृशलक्षण: ।। 2.51.11 ।।

य इति । मन्त्रतपसा मन्त्रयुक्ततपसा, मन्त्रतपोभ्यामित्यर्थ: । परिश्रमै: यज्ञादिभि: । एक: मुख्य: । “एके मुख्यान्यकेवला:” इत्यमर: । सदृशलक्षण: स्वसदृशलक्षण: ।। 2.51.11 ।।

अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति ।

विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ।। 2.51.12 ।।

अस्मिन्निति । वर्तयिष्यति जीविष्यति । विधवा पतिरहिता ।। 2.51.12 ।।

विनद्य सुमहानादं श्रमेणोपरता: स्त्रिय: ।

निर्घोषोपरतं चातो मन्ये राजनिवेशनम् ।। 2.51.13 ।।

विनद्येति । उपरता: भविष्यन्तीति शेष: । अत एव निर्घोषोपरतम् उपरतनिर्घोषं भविष्यतीति मन्ये ।। 2.51.13 ।।

कौसल्या चैव राजा च तथैव जननी मम ।

नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ।। 2.51.14 ।।

कौसल्येति । सर्वे जीवन्ति जीविष्यन्तीति नाशंसे, यदि जीवन्ति इमां शर्वरीमेव ।। 2.51.14 ।।

जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।

तद्दु:खं यत्तु कौसल्या वीरसूर्विनशिष्यति ।। 2.51.15 ।।

शत्रुघ्नस्यान्ववेक्षया शत्रुघ्नस्नेहेनेत्यर्थ: । पुन:पुनर्दर्शनेन वा । वीरं पुत्रं सूत इति तथा कौसल्या विनशिष्यतीति यद्दु:खं तद्दुस्सहमित्यर्थ: ।। 2.51.15 ।।

अनुरक्तजनाकीर्णा सुखा लोकप्रियावहा ।

राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ।। 2.51.16 ।।

कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यत: ।

शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मन: ।। 2.51.17 ।।

विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।

अनन्तरं च मातापि मम नाशमुपैष्यति ।। 2.51.18 ।।

राजव्यसनसंसृष्टा राजमरणनिमित्तव्यसनसंयुक्तेत्यर्थ: ।। 2.51.1618 ।।

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।

राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ।। 2.51.19 ।।

अतिक्रान्तमिति । मे पिता राज्ये राममनिक्षिप्य अत एव मनोरथमनवाप्य विनशिष्यतीति यत् तस्मात् अतिक्रान्तमतिक्रान्तं सर्वं प्रयोजनमतीत्य गतमित्यर्थ: । अथवा अतिक्रान्तमतिक्रान्तं मनोरथमनवाप्य पुन:पुनर्वर्धमानं मनोरथमनवाप्य रामो जात: वर्धिष्यते उद्वाहं करिष्यति राज्यं प्राप्स्यतीत्येवमभिवृद्धं मनोरथमित्यर्थ: । मनोरथातिक्रान्तिमेवाह राज्ये राममनिक्षिप्येति ।। 2.51.19 ।।

सिद्धार्था: पितरं वृत्तं तस्मिन् कालेप्युपस्थिते ।

प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ।। 2.51.20 ।।

सिद्धार्था इति । तस्मिन् काले मरणकाले उपस्थिते । प्रेतकार्येष्वप्युपस्थितेषु । वृत्तम् अतीतम्, मृतमिति यावत् । “वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तुले” इत्यमर: । भूमिपं पितरम् । सिद्धार्था: कृतार्था: संस्करिष्यन्ति । वयं त्वकृतार्था इति भाव: ।। 2.51.20 ।।

राम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।

हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम् ।। 2.51.21 ।।

रथाश्वगजसम्बाधां तूर्यनादविनादिताम् ।

सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ।। 2.51.22 ।।

आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम् ।

सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ।। 2.51.23 ।।

रम्यचत्वरसंस्थानामिति । रम्यचत्वरसंस्थानां रमणीयाङ्गणसंस्थानाम् । सुविभक्तमहापथां गृहपङ्क्तिभि: सम्यक्विभक्तराजमार्गाम् । हर्म्यप्रासादसम्पन्नां हर्म्यैर्धनिनां वासै:, प्रासादैर्देवभूभुजां वासैश्च सम्पुर्णाम् । “हर्म्यादिर्धनिनां वास: प्रासादो देवभूभुजाम्” इत्यमर: । रथाश्वगजसम्बाधाम्, सम्बाधां निबिडाम् । नादितां सञ्जातनादाम् । सर्वकल्याणसम्पूर्णां सर्वै: पुत्रजन्मोत्सवप्रभृतिभि: सम्पन्नाम् । आरामोद्यानसम्पन्नाम् आरामा: उद्यानानि च उपवनानि राज्ञ: क्रीडार्हवनानि च । समाजोत्सवशालिनीं समाजै: सङ्घै: क्रियमाण उत्सव: समाजोत्सव:, देवोत्सव इत्यर्थ: ।। 2.51.2123 ।।

अपि जीवेद्दशरथो वनवासात् पुनर्वयम् ।

प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ।। 2.51.24 ।।

अपीति । अपि: सम्भावनायाम् ।। 2.51.24 ।।

अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम् ।

निवृत्तवनवासे ऽस्मिन्नयोध्यां प्रविशेमहि ।। 2.51.25 ।।

अपि सत्यप्रतिज्ञेनेति । सत्यप्रतिज्ञेन, पित्रेति शेष: । अस्मिन् रामे । प्रविशेमहीत्याशंसायां लिङ् ।। 2.51.25 ।।

परिदेवयमानस्य दु:खार्त्तस्य महात्मन: ।

तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ।। 2.51.26 ।।

परिदेवयमानस्येति । परिदेवयमानस्येत्यादौ सम्बन्धसामान्ये षष्ठी । एवमिति शेष: ।। 2.51.26 ।।

तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुह: ।

मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुर: ।। 2.51.27 ।।

तथेति । सत्यं वास्तवम् नरेन्द्रपुत्रे लक्ष्मणे । गुरुसौहृदात् गुरुषु पित्रादिषु सौहृदात् स्नेहात् । ज्वरातुरो नागो गज इव व्यथातुरो गुह इत्यन्वय: ।। 2.51.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकपञ्चाश: सर्ग: ।। 51 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकपञ्चाश: सर्ग: ।। 51 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.