57 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तपञ्चाश: सर्ग:

कथयित्वा सुदु:खार्त: सुमन्त्रेण चिरं सह ।

रामे दक्षिणकूलस्थे जगाम स्वगृहं गुह: ।। 2.57.1 ।।

एवं रामस्य चित्रकूटगमनपर्यन्तवृत्तान्तमभिधाय गुहसुमन्त्रादिवृत्तान्तमृषि: प्रस्तौति–कथयित्वेति । गुहो रामे दक्षिणकूलस्थे सति सुदु:खार्त्तस्सन् सुमन्त्रेण सह चिरं कथयित्वा यावद्रामो ऽक्षिपथमतिक्रामति तावत्पर्यन्तं तत्रैव स्थित्वा रामगुणान् कथयित्वेत्यर्थ: । स्वगृहं जगाम तेन सह स्वगृहं जगामेत्यर्थ: ।। 2.57.1 ।।

भरद्वाजाभिगमनं प्रयागे च सहासनम् ।

आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ।। 2.57.2 ।।

भरद्वाजाभिगमनमिति । तेषां रामादीनाम् । भरद्वाजाभिगमनं भरद्वाजसेवनम् । प्रयागे भरद्वाजेन सहासनम् । आगिरेश्चित्रकूटपर्यन्तं गमनं च तत्रस्थै: श्रृङ्गिबेरपुरस्थैश्चारैरभिलक्षितं निवेदितम्, सुमन्त्रेण सम्यग्विदितमित्यर्थ: । गङ्गोत्तरणदिवसनिशा वनस्पतिमूले, द्वितीया भरद्वाजाश्रमे, तृतीया यमुनातीरे, चतुर्थे ऽहनि चित्रकूटगमनम्, पञ्चमे पुनरागम्य चारैर्निवेदनम् ।। 2.57.2 ।।

अनुज्ञात: सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् ।

अयोध्यामेव नगरीं प्रययौ गाढदुर्मना: ।। 2.57.3 ।।

अनुज्ञात इति । अथ रामवृत्तान्तश्रवणानन्तरम् । अनुज्ञात:, गुहेनेति शेष: । गाढदुर्मना: अत्यन्तदुर्मना: ।। 2.57.3 ।।

स वनानि सुगन्धीनि सरितश्च सरांसि च ।

पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ।। 2.57.4 ।।

स वनानीति । ग्रामाणि ग्रामान् ।। 2.57.4 ।।

तत: सायाह्नसमये तृतीये ऽहनि सारथि: ।

अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ।। 2.57.5 ।।

स शून्यामिव नि:शब्दां दृष्ट्वा परमदुर्मना: ।

सुमन्त्रश्चिन्तयामास शोकवेगसमाहत: ।। 2.57.6 ।।

कच्चिन्न सगजा साश्वा सजना सजनाधिपा ।

रामसन्तापदु:खेन दग्धा शोकाग्निना पुरी ।। 2.57.7 ।।

तत इति । तत: ग्रामनगरातिक्रमणानन्तरम् । तृतीये ऽहनि श्रृङ्गिबेरपुरान्निर्गमापेक्षया तृतीयादिवसे । यद्वा अहनि तृतीये सायाह्नसमये । अह्न: तृतीयकालभूते सायाह्नकाले । अयोध्यां समनुप्राप्य निरानन्दां तां ददर्श ।। 2.57.57 ।।

इति चिन्तापर: सूतो वाजिभि: शीघ्रपातिभि: ।

नगरद्वारमासाद्य त्वरित: प्रविवेश ह ।। 2.57.8 ।।

सुमन्त्रमभियान्तं तं शतशो ऽथ सहस्रश: ।

क्व राम इति पृच्छन्त: सूतमभ्यद्रवन्नरा: ।। 2.57.9 ।।

इतीति । त्वरित: प्रविवेश । नगरं जनसञ्चारशून्यं नि:शब्दं वर्त्तते । राजा कामवस्थां प्राप्त इति ज्ञातुं त्वरित: प्रविष्टवानित्यर्थ: ।। 2.57.89 ।।

तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् ।

अनुज्ञातो निवृत्तो ऽस्मि धार्म्मिकेण महात्मना ।। 2.57.10 ।।

तेषामिति । गङ्गायां गङ्गातीरे । निवृत्तो ऽस्मीति तेषां शशंसेति सम्बन्ध: ।। 2.57.10 ।।

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जना: ।

अहो धिगिति निश्वस्य हा रामेति च चुक्रुशु: ।। 2.57.11 ।।

त इति । ते रामादय: ।। 2.57.11 ।।

शुश्राव च वचस्तेषां वृन्दंवृन्दं च तिष्ठताम् ।

हता: स्म खलु येनेह पश्याम इति राघवम् ।। 2.57.12 ।।

शुश्रावेति । वृन्दंवृन्दं च तिष्ठतां सङ्घश: तिष्ठताम् । हता इति ये वयम् इह अस्मिन् रथे राघवं न पश्याम: इति अस्माद्धेतो: ते हता: स्मेति सम्बन्ध: ।। 2.57.12 ।।

दानयज्ञविवाहेषु समाजेषु महत्सु च ।

न द्रक्ष्याम: पुनर्जातु धार्मिकं राममन्तरा ।। 2.57.13 ।।

दानयज्ञविवाहेष्विति । दानादिषु अन्तरा मध्ये नायकमणिवत् वर्तमानं रामम् पुन: जातु कदाचिदपि न द्रक्ष्याम: किमिति काकु: । येन केनापि दाने क्रियमाणे राम: स्वयं तत्र गत्वा तिष्ठति । किमर्थम् ? देशे काले पात्रे च दापयितुम् । यज्ञेपि गच्छति । किमर्थम् ? न्यायार्जितधनै: कारयितुं तत्तत्कर्मसन्देहविच्छेदविस्मृतज्ञापनादिकं कर्तुं च । विवाहे च मध्ये गच्छति । किमर्थम् ? उभयवर्गसङ्घटनायासंमतानामभिमतद्रविणप्रदानाय अस्खलितं कर्मणामनुष्ठापनाय च । समाजेषु महत्सु अन्यत्रापि महासदस्सु, दीर्घसत्रेष्वपीत्यर्थ: । यत्रकुत्राप्यदृष्टकार्येष्विति वा । अत्र सर्वत्र हेतुर्धार्मिकमिति ।। 2.57.13 ।।

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।

इति रामेण नगरं पितृवत्परिपालितम् ।। 2.57.14 ।।

किमिति । अस्य जनस्य किं समर्थं किं क्षेमंकरं वस्तु किं प्रियं किं सुखावहमिति, रामेण तत्तदभिमतवस्तुप्रदात्रा रामेण पित्रेव नगरं परिपालितम् । नगरशब्देन नगरस्थजना लक्ष्यन्ते । इति वच: शुश्रावेति पूर्वेण सम्बन्ध: ।। 2.57.14 ।।

वातायनगतानां च स्त्रीणामन्वन्तरापणम् ।

रामशोकाभितप्तानां शुश्राव परिदेवनम् ।। 2.57.15 ।।

वातायनगतानामिति । अन्वन्तरापणं शुश्राव । उभयपार्श्वस्थानामापणानां मध्येमध्ये शुश्रावेत्यर्थ: । विभक्त्यर्थे ऽव्ययीभाव: ।। 2.57.15 ।।

स राजमार्गमध्येन सुमन्त्र: पिहितानन: ।

यत्र राजा दशरथस्तदेवोपययौ गृहम् ।। 2.57.16 ।।

स राजमार्गमध्येनेति । पिहितानन: जनदर्शनाक्षमतया ।। 2.57.16 ।।

सो ऽवतीर्य्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।

कक्ष्या: सप्ताभिचक्राम महाजनसमाकुला: ।। 2.57.17 ।।

सो ऽवतीर्येति । राजनिर्गमाभावेन महाजनसङ्कुलत्वम् ।। 2.57.17 ।।

हर्म्यैर्विमानै: प्रासादैरवेक्ष्याथ समागतम् ।

हाहाकार कृता नार्यो रामादर्शनकर्शिता: ।। 2.57.18 ।।

हर्म्यैरिति । हर्म्यैर्धनिनां वासै: । विमानै: सप्तभूमिगृहै: । “विमानो ऽस्त्री देवयाने सप्तभूमिगृहे ऽपि च” इति वैजयन्ती । प्रासादै: महाराजार्हगृहविशेषै: । उपलक्षिता: नार्य: समागतं रामेण विना समागतं सुमन्त्रमवेक्ष्य हाहाकारकृता: कृत हाहाकारा:, बभूवुरिति शेष: ।। 2.57.18 ।।

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतै: ।

अन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततरा: स्त्रिय: ।। 2.57.19 ।।

ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्तत: ।

रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ।। 2.57.20 ।।

आयतैरिति । अव्यक्तम् अस्पष्टमिति क्रियाविशेषणम् ।। 2.57.1920 ।।

सह रामेण निर्यातो विना राममिहागत: ।

सूत: किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ।। 2.57.21 ।।

यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।

आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ।। 2.57.22 ।।

सत्यरूपं तु तद्वाक्यं राज्ञ: स्त्रीणां निशामयन् ।

प्रदीप्त इव शोकेन विवेश सहसा गृहम् ।। 2.57.23 ।।

सह रामेणेत्यादिश्लोकत्रयमेकं वाक्यम् । यत्रेति । विभक्तिप्रतिरूपको निपात: प्रथमार्थे वर्त्तते । यथा “क इत्था वेद यत्र स:” इत्यत्र यथा येन प्रकारेण । अस्मज्जीवितं दुर्जीवं दु:खेन जीवनार्हं मन्ये, एवमेव कौसल्या, पुत्रे निर्याते सति आच्छिद्य प्रसह्य जीवति यत्र जीवतीति यत् तत् न सुकरं दुस्सम्पादं ध्रुवं मन्य इत्येकैकव्यक्त्यपेक्षया एकवचनम्, विभक्तिप्रतिरूपकमव्ययं वा । निशामयन् निशमयन् । दीर्घश्छान्दस: । श्रृण्वन्नित्यर्थ: ।। 2.57.2123 ।।

स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् ।

पुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे ।। 2.57.24 ।।

अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च ।

सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ।। 2.57.25 ।।

स प्रविश्येति । परिद्यूनं क्षीणम् । “दिवो विजिगीषायाम्” इति निष्ठानत्वम् । पाण्डर इति विशेषणाद्राजलक्ष्मीर्नास्तीत्युच्यते ।। 2.57.2425 ।।

स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतन: ।

मूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडित: ।। 2.57.26 ।।

स तूष्णीमिति । तूष्णींभावे हेतु: विभ्रान्तचेतन इति ।। 2.57.26 ।।

ततो ऽन्त:पुरमाविद्धं मूर्च्छिते पृथिवीपतौ ।

उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ।। 2.57.27 ।।

सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।

उत्थापयामास तदा वचनं चेदमब्रवीत् ।। 2.57.28 ।।

तत इति । आविद्धं शोकेनाभिहतम्, अभूदिति शेष: । मूर्च्छिते आविद्धमासीत् पतिते बाहू उद्धृत्य चुक्रोशेति विशेष: ।। 2.57.2728 ।।

इमं तस्य महाभाग दूतं दुष्करकारिण: ।

वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ।। 2.57.29 ।।

इममिति । दूतं सन्देशहरम् । दुष्करकारिण: दुष्करकार्य्यकारिण: ।। 2.57.29 ।।

अद्येममनयं कृत्वा व्यपत्रपसि राघव ।

उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता ।। 2.57.30 ।।

अद्येममिति । इममनयं पुत्रविवासनम् । सुकृतं शोभनम् । शोके विषये सहायता न स्यात्, शोकानुवर्तनं मा कृथा इत्यर्थ: ।। 2.57.30 ।।

देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।

नेह निष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ।। 2.57.31 ।।

व्यसनानुशयकृततूष्णींभावे हेत्वन्तरं कल्पयति–देवेति । कैकेयी, सेति शेष: । विस्रब्धं सविश्वासम्, नि:शङ्कमिति यावत् ।। 2.57.31 ।।

सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।

धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ।। 2.57.32 ।।

सेति । बाष्पेण विप्लुतं विलुप्तं सगद्गदं यथा भवति तथा भाषिणी ।। 2.57.32 ।।

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।

पतिं चावेक्ष्य ता: सर्वा: सुस्वरं रुरुदु: स्त्रिय: ।। 2.57.33 ।।

एवमिति, पतितमिति शेष: ।। 2.57.33 ।।

ततस्तमन्त:पुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवा: ।

स्त्रियश्च सर्वा रुरुदु: समन्तत: पुरं तदासीत् पुनरेव सङ्कुलम् ।। 2.57.34 ।।

तत इति । समीक्ष्नय श्रुत्वा । पुनरेव सङ्कुलं रामगमनकाल इव व्याकुलमासीत् ।। 2.57.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तपञ्चाश: सर्ग: ।। 57 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तपञ्चाश: सर्ग: ।। 57 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.