58 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टपञ्चाश: सर्ग:

प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागत: पुन: ।

अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ।। 2.58.1 ।।

प्रत्यागत: सूतस्याभिमुखागत: ।। 2.58.1 ।।

अथ सूतो महा राजं कृताञ्जलिरुपस्थित: ।

राममेवानुशोचन्तं दु:खशोकसमन्वितम् ।। 2.58.2 ।।

वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् ।

विनिश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ।। 2.58.3 ।।

अथेत्यादिश्लोकद्वयमेकं वाक्यम् । नवग्रहं सद्यो गृहीतम् । अस्वस्थं व्याधिग्रस्तम् ।। 2.58.23 ।।

राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम् ।

अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ।। 2.58.4 ।।

रजसा ध्वस्ताङ्गं धूसरिताङ्गम् । धूमं कम्पितम् । परमार्तवत् परमार्त इव, दीन इत्यर्थ: ।। 2.58.4 ।।

क्वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रित: ।

सो ऽत्यन्तसुखित: सूत किमशिष्यति राघव: ।। 2.58.5 ।।

पूर्वसर्गे यथोक्तमित्युक्तं विवरीतुं प्रश्नमवतारयति–क्वनु वत्स्यतीत्यादिना ।। 2.58.5 ।।

दु:खस्यानुचितो दु:खं सुमन्त्रशयनोचित: ।

भूमिपालात्मजो भूमौ शेते कथमनाथवत् ।। 2.58.6 ।।

यं यान्तमनुयान्ति स्म पदातिरथकुञ्जरा: ।

स वत्स्यति कथं रामो विजनं वनमाश्रित: ।। 2.58.7 ।।

दु:खमित्येतत् क्रियाविशेषणम् । शयनोचित: महार्हशयनोचित: ।। 2.58.67 ।।

व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् ।

कथं कुमारौ वैदेह्या सार्द्धं वनमुपस्थितौ ।। 2.58.8 ।।

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।

राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ।। 2.58.9 ।।

सिद्धार्थ: खलु सूत त्वं येन दृष्टौ ममात्मजौ ।

वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् ।। 2.58.10 ।।

किमुवाच वचो राम: किमुवाच च लक्ष्मण: ।

सुमन्त्र वनमासाद्य किमुवाच च मैथिली ।। 2.58.11 ।।

व्यालैरजगरादिभि: । मृगै: सिंहव्याघ्रादिदुष्टमृगै: । उपस्थितौ उपाश्रितौ । आसितमित्यादौ भावे निष्ठा ।। 2.58.811 ।।

आसितं शयितं भुक्तं सूत रामस्य कीर्तय ।

जीविष्याम्यहमेतेन ययातिरिव साधुषु ।। 2.58.12 ।।

आसितं आसनम् । शायितं शयनम् । भुक्तं भोजनं च कीर्तया एतेन रामसम्बन्ध्यासनादिकीर्तनेन अहं साधुषु

ययातिरिव जीविष्यामि । ययाति: सत्सुपतेयमितीन्द्रं प्रार्थ्य स्वर्गाद्भ्रष्ट: साधुसमागमं प्राप्य यथा निवृत्तदु:खो ऽभूत् तद्वदहमपि निवृत्तदु:खो भविष्यामीत्यर्थ: ।। 2.58.12 ।।

इति सूतो नरेन्द्रेण चोदित: सज्जमानया ।

उवाच वाचा राजानं सबाष्परिरब्धया ।। 2.58.13 ।।

अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।

अञ्जलिं राघव: कृत्वा शिरसाभिप्रणम्य च ।। 2.58.14 ।।

इतीति । बाष्पपरिरब्धया कण्ठगतबाष्परुद्धयेत्यर्थ: । अत एव सज्जमानया स्खलन्त्या “षस्ज गतौ” इति धातु: । धातोरनेकार्थत्वादत्र स्खलनार्थक: ।। 2.58.1314 ।।

सूत मद्वचनात्तस्य तातस्य विदितात्मन: ।

शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मन: ।। 2.58.15 ।।

सूतेति । वन्द्यौ वन्दनीयौ ।। 2.58.15 ।।

सर्वमन्त:पुरं वाच्यं सूत मद्वचनात्त्वया ।

आरोग्यमविशेषेण यथार्हं चाभिवादनम् ।। 2.58.16 ।।

अन्त:पुरम् आरोग्यमभिवादनं च वाच्यम् । ब्रूञो द्विकर्मकत्वादप्रधानकर्मण्यन्त:पुरे प्रथमा । कृताभिहितत्वात् । एवमुत्तरश्लोके ऽपि ।। 2.58.16 ।।

माता च मम कौसल्या कुशलं चाभिवादनम् ।

अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वच: ।। 2.58.17 ।।

अप्रमादं धर्मे भर्त्तरि च । इदं वक्ष्यमाणम् ।। 2.58.17 ।।

धर्म्मनित्या यथाकालमग्न्यगारपरा भव ।

देवि देवस्य पादौ च देववत् परिपालय ।। 2.58.18 ।।

अभिमानञ्च मानञ्च त्यक्त्वा वर्त्तस्व मातृषु ।

अनु राजानमार्यां च कैकेयीमम्बकारय ।। 2.58.19 ।।

कुमारे भरते वृत्तिर्वर्त्तितव्या च राजवत् ।

अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ।। 2.58.20 ।।

अभिमानं गर्वं “गर्वो ऽभिमानो ऽहङ्कार:” इत्यमर: । कुलाभिमानमित्यर्थ: । मान: चित्तसमुन्नति: । जेष्ठपत्नीत्वनिबन्धना चित्तसमुन्नतिमित्यर्थ: । अनु राजानमार्यां च कारय, अनुकारयेत्यर्थ: । “व्यवहिताश्च” इति व्यवहितप्रयोग: । अन्विति तुल्यार्थे । “पश्चात्सादृश्ययोरनु” इत्यमर: । राजानं कैकेयीं च तुल्यमनुवर्तस्वेत्यर्थ: । राजवत् राज्ञीव । वृत्तिर्वर्तितव्या, उपचार: कर्तव्य इत्यर्थ: । अर्थज्येष्ठा: अर्थेनैव ज्येष्ठा: न तु वयसेत्यर्थ: ।। 2.58.1820 ।।

भरत: कुशलं वाच्यो वाच्यो मद्वचनेन च ।

सर्वास्वेव यथान्यायं वृत्तिं वर्त्तस्व मातृषु ।। 2.58.21 ।।

भरत इति । भरत: कुशलं वाच्य:, त्वयेति शेष: । वाच्यो मद्वचनेन च मयोक्तमित्यपि वाच्य इत्यर्थ: । यद्वा भरतो मद्वचनेन कुशलं वाच्य: । सर्वास्वेव मातृषु । यथान्यायं यथाक्रमम् । वृत्तिं वर्तस्व वृत्तिं कुरु, शुश्रूषस्वेत्यर्थ: । इति वाच्यश्चेति द्वितीयवाच्यपदान्वय: ।। 2.58.21 ।।

वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दन: ।

पितरं यौवराज्यस्थो राज्यस्थमनुपालय ।। 2.58.22 ।।

अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुध: ।

कुमारराज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात् ।। 2.58.23 ।।

वक्तव्य इति । राज्यस्थं प्रधानराज्यस्थम् । मा व्यवरोरुध: अवरुद्धं मा कार्षी: । अतिक्रान्तवयस्कत्वादिति तत्र हेतु: । कुमारराज्ये यौवराज्ये । जीवभोगान् भुङ्क्ष्वेत्यर्थ: । इति च वक्तव्य इत्यन्वय: ।। 2.58.2223 ।।

अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् ।

मातेव मम माता ते द्रष्टव्या पुत्रगर्द्धिनी ।। 2.58.24 ।।

इत्येवं मां महाराज ब्रुवन्नेव महायशा: ।

रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ।। 2.58.25 ।।

अब्रवीदिति । अश्रूणि वर्तयन् करिष्यमाणमातृविषयपीडस्मरणादिति हृदयम् । स्वस्य मातृविषयशुश्रूषाया अलाभाद्वा अश्रुवर्तनम् । मम माता स्वमातेव त्वया द्रष्टव्या इति भरतमुद्दिश्य मां ब्रुवन्नेव भृशमश्रूण्यवर्त्तयत् । शोकजनितरक्तिमानमाह राजीवताम्राक्ष इति । अनन्तरमश्रुमोचनं ततो वक्तव्यस्यानुचितत्वात्, अमुमाशयमुत्तरत्र सीतापहरणानन्तरमुद्घाटयिष्यति ‘सुप्तप्रमत्तकुपितानां वचनैर्भावज्ञानं द्रष्टव्यम्’ इति न्यायेन ।। 2.58.2425 ।।

लक्ष्मणस्तु सुसंक्रुद्धो निश्वसन् वाक्यमब्रवीत् ।

केनायमपराधेन राजपुत्रो विवासित: ।। 2.58.26 ।।

लक्ष्मणस्त्विति । तुशब्देन रामवन्न सर्वथा हृदयं जुगोपेत्युक्तम् ।। 2.58.26 ।।

राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।

कृतं कार्य्यमकार्यं वा वयं येनाभिपीडिता: ।। 2.58.27 ।।

राज्ञेति । येन विवासनेन वयमभिपीडिता: तद्विवासनम् अकार्यं तु अकार्यमेव । राज्ञा तु कैकेय्या: लघु शासनमाश्रित्य कार्यं वा कार्यमिव कृतं खलु । यद्वा राज्ञा खलु लघु तुच्छं कैकेय्या: शासनमाश्रित्याकार्यमेव कार्यं कृतम्, येन कार्येण वयमभिपीडिता: ।। 2.58.27 ।।

यदि प्रव्राजितो रामो लोभकारणकारितम् ।

वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ।। 2.58.28 ।।

प्रतिज्ञातार्थप्रदानस्य कथमकार्यत्वम् ? तत्राह–यदीति । राम: प्रव्राजितो यदि प्रव्राजित इति यत् । एतत् लोभकारणकारितं वरदाननिमित्तं वा कैकेय्या: प्रतिश्रुतवरदाननिमित्तं वा । सर्वथा दुष्कृतं कृतम्, वरदानसमये वरद्वयस्य भरताभिषेकरामनिष्कासनरूपेण विनियोगाभावात् । यदिशब्दस्वारस्यानुरोधेनेत्थं वा योजनीयम्–लोभकारणकारितमिति क्रियाविशेषणम् । राम: लोभकारणकारितं वा वरदाननिमित्तं वापि यदि प्रव्राजित: तथापि सर्वथा दुष्कृतम् अकार्यं राज्ञा कृतम्, न राज्यं दास्यामीति प्रतिज्ञातुं शक्यत्वात् ज्येष्ठपुत्रविवासनस्यानुचितत्वाच्चेति भाव: । “न त्वेकपुत्रं दद्यान्नत्वेव ज्येष्ठपुत्रम्” इति हि स्मर्यते । लोभकारणकारित इति पाठे–रामविशेषणम् । लोभरूपकारणेन प्रेरित इत्यर्थ: ।। 2.58.28 ।।

इदं तावद्यथाकाममीश्वरस्य कृते कृतम् ।

रामस्य तु परित्यागे न हेतुमुपलक्षये ।। 2.58.29 ।।

इदमिति । रामस्य परित्यागे हेतुं नोपलक्षये, किन्तु ईश्वरस्य कृते स्वतन्त्रव्यापारे स्थितेन राज्ञेति शेष: । इदं रामप्रव्राजनं यथाकामं तावत् यथेच्छमेव कृतम् । यद्वा इदं रामविवासनम् ईश्वरस्य कृत ईश्वरप्रयोजनाय । यथाकामं कृतं केवलमीश्वरप्रेरणेन शास्त्रमनवेक्ष्य कृतमित्यर्थ: । हि यस्माद्रामस्य परित्यागे हेतुं नोपलक्षये । परित्यागहेतुदोषसद्भावे हि पुत्रविवासनं शास्त्रीयं स्यात् । अयं चोपसंहारश्लोक: ।। 2.58.29 ।।

असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् ।

जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् ।। 2.58.30 ।।

यथेष्टकरणं चेत् कथमनुतप्तवान् राजेत्यत्राह–असमीक्ष्येति । विरुद्धम् अत एव असमीक्ष्य अनालोच्य बुद्धिलाघवात् समारब्धं कृतम् । राघवस्य विवासनं संक्रोशं दु:खम् । जनयिष्यति जनयति, अतो राज्ञोनुताप इति भाव: ।। 2.58.30 ।।

अहं तावन्महाराजे पितृत्वं नोपलक्षये ।

भ्राता भर्त्ता च बन्धुश्च पिता च मम राघव: ।। 2.58.31 ।।

पिता कथं निन्द्य इत्यत्राह–अहमिति । ‘गुरोरप्यवलिप्तस्य कार्याकार्यमजानत: । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ।।’ इति वचनादिति भाव:। भ्राता राघव एव मम पिता “ज्येष्ठो भ्राता पितृसम:” इत्युक्ते:। तस्य पितृत्वाभावेपि भर्तृत्वमस्त्येवेत्याशङ्क्याह भर्ता चेति। स्वामीत्यर्थ:। किं बहुना बन्धु: सर्वविधोऽपि राघव एव। एतेन परमैकान्तिभि: प्राकृत पित्रादय: परित्याज्या: भगवानेव निरुपाधिक: पिता भर्ता बन्धुश्चेत्युक्तं भवति ।। 2.58.31 ।।

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।

सर्वलोको ऽनुरज्येत कथं त्वा ऽनेन कर्मणा ।। 2.58.32 ।।

कथं मुख्यं पितरं विहाय गौणमनुवर्तसे ? तत्राह–सर्वलोकप्रियमिति । अनेन कर्मणा प्रियपुत्रप्रव्राजनरूपक्रूरकर्मणा । सर्वलोकहिते रतं सर्वलोकप्रियं रामं त्यक्त्वा अनेन कर्मणोपलक्षितं सर्वलोकाहिते रतं सर्वलोकाप्रियमित्यर्थ: । त्वा त्वां प्रति । सर्वलोक: कथमनुरज्येत ?

कश्चिद्भरततुल्यो ऽनुरज्यताम्, नतु सर्वोपीति भाव: । सर्वलोकनिरुपाधिकबन्धुं त्यक्त्वा सोपाधिकबन्धुं त्वां कथमाश्रयेयमिति हृदयम् ।। 2.58.32 ।।

सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्म्मिकम् ।

सर्वलोकं विरुद्ध्येमं कथं राजा भविष्यसि ।। 2.58.33 ।।

अनेनेत्युक्तं प्रपञ्चयति–सर्वप्रजाभिराममिति । कथं राजा भविष्यसीत्येवं राजानं ब्रूहीत्यब्रवीदिति पूर्वेणान्वय: । सुमन्त्रप्रेषणवेलायां लक्ष्मणादिवाक्याश्रवणेप्यत्र सिद्धवदनुवादसामर्थ्यात् तदानीमेवमुक्तमित्यवगन्तव्यम् ।। 2.58.33 ।।

जानकी तु महाराज निश्वसन्ती मनस्विनी ।

भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ।। 2.58.34 ।।

जानकी त्विति । तुशब्देन लक्ष्मणाद्वैषम्यमुच्यते । लक्ष्मणो रामशोकविकारमालक्ष्य हृदयनिहितं वचसोद्घाटितवान् । सीता तु न तथेति मयोच्यमानं सीताशोकानुभावमाकार्ण्य क्षुब्धहृदयेन त्वया न भवितव्यमिति द्योतयितुं महाराजेति सम्बोधनम् । हृदयस्थशोकातिरेकेण । निश्वसन्ती मनस्विनी गम्भीरमनस्का । भूतोपहतचित्तेव विष्ठिता स्तिमिता । विस्मिता विस्मितेवोत्फुल्लनयना स्थिता ।। 2.58.34 ।।

अदृष्टपूर्वव्यसमा राजपुत्री यशस्विनी ।

तेन दु:खेन रुदती नैव मां किञ्चिदब्रवीत् ।। 2.58.35 ।।

अदृष्टपूर्वव्यसनेति । अदृष्टपूर्वव्यसना अननुभूतपूर्वव्यसना । तत्र हेतु: राजपुत्रीति । यशस्विनीति तदानीमप्यनुदितकैकेयीनिन्दात्वेन कीर्तिमती । तेन दु:खेन भर्तृदु:खदर्शनजदु:खेन । रुदती रोदनानुभाववती सती मां किञ्चिदपि नैवाब्रवीत्, केनचित्सम्भाषणस्याप्यसह्यत्वात् ।। 2.58.35 ।।

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता ।

मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ।। 2.58.36 ।।

तथैव रामो ऽश्रुमुख: कृताञ्जलि: स्थितोभवल्लक्ष्मणबाहुपालित: ।

तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ।। 2.58.37 ।।

उद्वीक्षमाणेति । ततो भर्तारमश्रुमुखमुद्वीक्षमाणा सती परिशुष्यता मुखेन उपलक्षिता मां प्रयान्तमुद्वीक्ष्य सहसा बाप्पं मुमोच । रथे गते कथं पद्भ्यामेव क्रूरं कान्तारं चरिष्यति राम इति हृदयं धारयितुमशक्ता अश्रूणि मुमोचेत्यर्थ: ।। 2.58.3637 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टपञ्चाश: सर्ग: ।। 58 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टपञ्चाश: सर्ग: ।। 58 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.