60 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदि0 श्रीमदयोध्याकायण्डे षष्टितम: सर्ग:

ततो भूतोपसृष्टेव वेपमाना पुन:पुन: ।

धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ।। 2.60.1 ।।

नय मां यत्र काकुत्स्थ: सीता यत्र च लक्ष्मण: ।

तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ।। 2.60.2 ।।

तत इति । भूतोपसृष्टेव धरण्यां वेपमाना भूतगृहीतेव भूमौ पतित्वा विवर्तमानेत्यर्थ: । गतसत्त्वेव गतप्राणेव । “द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु” इत्यमर: ।। 2.60.12 ।।

निवर्तय रथं शीघ्रं दण्डकान्नय मामपि ।

अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ।। 2.60.3 ।।

निवर्तयेति । अथ तान्नानुगच्छामि तान्नानुगच्छामि चेत् ।। 2.60.3 ।।

बाष्पवेगोपहतया स वाचा सज्जमानया ।

इदमाश्वासयन् देवीं सूत: प्राञ्जलिरब्रवीत् ।। 2.60.4 ।।

बाष्पवेगेति । सज्जमानया विक्लवया ।। 2.60.4 ।।

त्यज शोकञ्च मोहञ्च सम्भ्रमं दु:खजं तथा ।

व्यवधूय च सन्तापं वने वत्स्यति राघव: ।। 2.60.5 ।।

त्यजेति । मोहं रामस्य किं भविष्यतीत्यज्ञानम् । सम्भ्रमं व्याकुलत्वम् । सन्तापं शोकजनितदेहसन्तापम्, रामो दु:खितो भविष्यतीति सन्तापमित्यर्थ: । यस्माद्राघव: सन्तापं व्यवधूय वत्स्यति तस्माच्छोकादिकं त्यजेत्यन्वय: ।। 2.60.5 ।।

लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने ।

आराधयति धर्मज्ञ: परलोकं जितेन्द्रिय: ।। 2.60.6 ।।

लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति “राध साध संसिद्धौ” इति धातु: ।। 2.60.6 ।।

विजने ऽपि वने सीता वासं प्राप्य गृहेष्विव ।

विस्रम्भं लभते ऽभीता रामे संन्यस्तमानसा ।। 2.60.7 ।।

विजन इति । लभतेभीतेत्यत्र अभीतेति पदच्छेद: । विस्रम्भं प्रणयम् “विस्रम्भ: प्रणयेपि च” इत्यमर: ।। 2.60.7 ।।

नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते ।

उचितेव प्रवासानां वैदेही प्रतिभाति मा ।। 2.60.8 ।।

नगरोपवनं गत्वा यथा स्म रमते पुरा ।

तथैव रमते सीता निर्जनेषु वनेष्वपि ।। 2.60.9 ।।

नास्या इति । कृतं वनवासकृतम् । किञ्चिदित्यस्य विवरणं सुसूक्ष्ममिति । प्रवासानामुचितेव प्रवासानां योग्येव । अभ्यस्तवनवासप्रयासेवेत्यर्थ: ।। 2.60.89 ।।

बालेव रमते सीता ऽबालचन्द्रनिभानना ।

रामारामे ह्यधीनात्मा विजने ऽपि वेन सती ।। 2.60.10 ।।

बालेति । क्रीडैकरसत्वाद्बालादृष्टान्त:, दु:खापरिज्ञाने वा बालाहृष्टान्त: । अबालचन्द्रनिभाननेति च्छेद: । रामे अधीनात्मा आसक्तचित्तेत्यर्थ: । यद्वा रामारामे रामरूपा रामे ।। 2.60.10 ।।

तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् ।

अयोध्यापि भवेत्तस्या रामहीना तथा वनम् ।। 2.60.11 ।।

तद्गतमिति । यद्यस्मात्कारणात् । अस्या: सीताया: हृदयम् । तद्गतं रामगतम् । जीवितं च तदधीनम् । तस्माद्वनं रामसहितम् अयोध्या भवेत् । रामहीना अयोध्यापि तथा वनं भवेदित्यर्थ: ।। 2.60.11 ।।

पथि पृच्छति वैदेही ग्रामांश्च नगराणि च ।

गतिं दृष्ट्वा नदीनाञ्च पादपान् विविधानपि ।। 2.60.12 ।।

रामं वा लक्ष्मणं वापि पृष्ट्वा जानाति जानकी ।

अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ।। 2.60.13 ।।

पथीत्यादिना सीताया उल्लास उच्यते । दृष्ट्वेति सर्वत्रान्वेति । रामं लक्ष्मणं वा पृच्छति पृष्ट्वा जानाति च । अयोध्याया: क्रोशमात्रे विहारं क्रीडां संश्रितेव स्थिता । यद्वा विहरन्त्यस्मिन्निति विहार: तम् । अधिकरणे घञ् । उद्यानमित्यर्थ: ।। 2.60.1213 ।।

इदमेव स्मराम्यस्या: सहसैवोपजल्पितम् ।

कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ।। 2.60.14 ।।

अयोध्यानिर्गमकालिकं कैकेयीविषयकं सीताया: परुषं वचनं कौसल्याया: प्रियमिति वक्तुमुपक्रम्य तस्य वृद्धयोर्जीवननिराशाहेतुत्वं मत्वा नोचितमिदं वक्तुमित्यस्मरणव्याजेनोपारमतेत्याह–इदमेवेत्यादि । अस्या: सीताया: सम्बन्धि इदमेव स्मरामि प्रस्तुतवृत्तान्तमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं सहसा उपजल्पितं हठात्सीतयोक्तं वाक्यम् । इदानीं मा मां प्रति न भातीति सूत: प्रमादात् इदं गोपनीयमित्यवधानाभावात् पर्युपस्थितं सीतावचनत्वेन वक्तुमुपक्रान्तं तद्वाक्यं ध्वंसयित्वा प्रच्याव्य देव्या: ह्लादनम् आह्लादनकरम् उपक्रान्तवाक्यवद्देव्यास्सन्तापाहेतुभूतं मधुरं वचनमब्रवीदिति पदयोजना । सहसा त्वरया । उपजल्पितम् अक्रमेणोक्तमित्यस्मरणहेतूपदर्शनम् । कैकेयीसंश्रितमित्युपक्रान्तांश: इदं स्मरामीति पुन: स्मरेति चोदनावकाशाप्रदानम्, इदानीं भवद्दु:खदर्शनसमये मा मां प्रति न भातीति ध्वंसनप्रकार: ।। 2.60.14 ।।

ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम् ।

ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ।। 2.60.15 ।।

ध्वंसनहेतुं कविरनुवदति–ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितमिति । ह्लादनमित्यनेनोपस्थितवचनस्य तापहेतुत्वं द्योत्यते । ननु कैकेयीनिन्दारूपत्वे ऽपि देव्यास्तापकारणमवश्यं मोपनीयम् । कीदृशं तद्वाक्यं स्यात्किंचिदिदमित्युक्तौ तत्र किं प्रमाणं स्यात् ? उच्यते–अवधेहि, एवं विधं हि कार्यवशात् गुप्तं कुत्रचित्कविर्न विवृणोति चेत् सर्वज्ञोपि तत्कथमिदमित्यभिदध्यात् । अत्रेमं च प्रमादादुपस्थितं ध्वंसितं वृद्धयो: सन्तापकरं कैकेयीविषयकं वृत्तान्तं कविरुत्तरत्र व्यक्तीकरिष्यति । युद्धकाण्डे सीतामधिकृत्य “विजगर्हे ऽत्र कैकेयीं क्रोशन्ती कुररी यथा” इत्युक्त्वा कैकेयीविषयकं सीता वचनमेवाह “सकामा भव कैकेयि हतो ऽयं कुलनन्दन:” इति । इदं सीताहृदयम् । कैकेय्या: राज्यलाभेनैवाभीष्टसिद्धे: । रामविवासनाभ्यर्थनस्येदमाकूतम् । रामविवासने हि तद्वियोगं क्षणमपि सोढुमक्षमा सीताप्येनमनुगच्छेत् सा च लोकोत्तरसुन्दरी केनाप्यपह्रियेत तस्यां च हृतायां राम: स्वत एव नश्येत् ततो मे राज्यं सुप्रतिष्ठितं स्यात्, अन्यथा लब्धेनापि राज्येन न किञ्चित्प्रयोजनम्, यतो रामगुणपरवश: सर्वोपि जन: तद्विधेय: स्यात् तस्माद्रामोपि विनाशाय विवासनीय इति । इदमेव सीतोक्तं रामोप्यारण्यकाण्डे ‘सुप्तप्रमत्तकुपितानां वचनैर्भावज्ञानं दृष्टम्’ इति न्यायेन वक्ष्यति “कच्चित्सकामा कैकेयी सुखिता सा भविष्यति । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ।।” अन्यत्र च “यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्। कैकेय्यास्तत्सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ।।” इति । इममेवार्थं पूर्वसर्गान्ते सूचितवान्– “जानकी तु महाराज निश्वसन्ती तपस्विनी । भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता । अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी । तेन दु:खेन रुदती नैव मां किञ्चिदब्रवीत् । उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता । मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ।।” इति। अत्र रोदनमवचनं परिशुष्यता मुखेन भर्तृवीक्षणं पुन: सुमन्त्रवीक्षणं बाष्पमोचनं च कुर्वन्त्या पूर्वोक्तार्थस्मरणम्, तत एव स्तब्धता, भर्तृमुखवीक्षणेन वक्तुमनर्हत्वज्ञानं बाष्पमोचनेन सूतवीक्षणेन च श्वश्रूं प्रत्यकथनीयत्वद्योतनं चेति व्यज्यते। तत्र सीतयोक्तं प्रामादिकमिति जुगोप। अत्र तु स्वस्यैव प्रमादोत्थं व्याजेन परिहृतवान् ।। 2.60.15 ।।

अध्वना वातवेगेन सम्भ्रमेणातपेन च ।

न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ।। 2.60.16 ।।

अध्वनेति । अध्वना अध्वगमनेन । सम्भ्रमेण व्याघ्रादिदर्शनजन्यव्याकुलत्वेन । न विगच्छति न विकरोति ।। 2.60.16 ।।

सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् ।

वदनं तद्वदान्याया वैदेह्या न विकम्पते ।। 2.60.17 ।।

सदृशमिति । शतपत्रस्य पद्मस्य । पूर्णचन्द्रोपमप्रभं पूर्णचन्द्रसदृशप्रभम् । वदान्याया: वल्गुवाच: । “वदान्यो वल्गुवागपि” इत्यमर: । न विकम्पते न विचलति । स्वाभाविकप्रभां न जहातीत्यर्थ: ।। 2.60.17 ।।

अलक्तरसरक्ताभावलक्तरसवर्जितौ ।

अद्यापि चरणौ तस्या: पद्मकोशसमप्रमौ ।। 2.60.18 ।।

अलक्तेति । अद्यापि वनगमनेपि ।। 2.60.18 ।।

नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी ।

इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा ।। 2.60.19 ।।

नूपुरेति । तद्रागात् भूषणविषयस्नेहात् । न्यस्यभूषणा चरणाद्यवयवेष्वर्पितभूषणा । वैदेही नूपुरोद्घुष्टहेलेव नूपुरोत्पन्नस्वनानुकारिलीलायुक्तेव । खेलं सलीलं गच्छति । सीताया: सर्वदा साभरणत्वं ‘मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे’ इत्युत्तरत्र भरतवचनादवगम्यते । यद्वा तद्रागात् रामेण सह गमनकौतुकात् । न्यस्तभूषणा उत्सृष्टनूपुरापि नूपुरोत्कृष्टहेलेव नूपुरसञ्चितविलासेव (नूपुरोत्कृष्टहेलेवेति पाठ:) ।। 2.60.19 ।।

गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता ।

नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ।। 2.60.20 ।।

गजमिति । गजं दर्शनमात्रेण भीषणमहाकायं वीक्ष्य न तु श्रुत्वा, सिंहं तमपि तृणाय मत्वा । व्याघ्रं वा जन्तुमात्रहिंसकतया सिंहादप्यतिक्रूरं सिंहदर्शनादपि व्याघ्रदर्शनमतिक्रूरमिति न तत्प्रकर्ष: । वनमाश्रिता विनापि सिंहादीन् स्वत एव भयङ्करं प्रदेशमवगाहमानापि । नाहारयति नारोपयति । आहारयतेरारोपार्थकत्वात् भयभावनामात्रमपि न करोतीत्यर्थ: । नाहारयति सन्त्रासं स्त्रीत्वप्रयुक्तस्वाभाविकभीतिरपि निर्गता । तत्र हेतुमाह बाहू रामस्य संश्रिता । परिघान्तर्गता: किं बिभ्यतीति भाव: ।। 2.60.20 ।।

न शोच्यास्ते न चात्मान: शोच्यो नापि जनाधिप: ।

इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ।। 2.60.21 ।।

न शोच्या इति । ते रामादय: । आत्मान: वयम् । इदं चरितं पितृवचनपरिपालनरूपं चरित्रम् शाश्वतम् आचन्द्रार्कम् ।। 2.60.21 ।।

विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिता: ।

वनेरता वन्यफलाशना: पितु: शुभां प्रतिज्ञां परिपालयन्ति ते ।। 2.60.22 ।।

विधूयेति । महर्षियाते महर्षिभि: प्राप्ते ।। 2.60.22 ।।

तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता ।

न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ।। 2.60.23 ।।

तथापीत्युक्तं विवृणोति–सूतेनेत्यादिना । सुयुक्तवादिना सूतेन तथा निवार्यमाणापि सुतशोककर्शितत्वात् देवी प्रियेत्यादिकूजितान्न विरराम ।। 2.60.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदि0 श्रीमदयोध्याकायण्डे षष्टितम: सर्ग: ।। 60 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षष्टितम: सर्ग: ।। 60 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.