62 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विषष्टितम: सर्ग:

एवं तु क्रुद्धया राजा राममात्रा सशोकया ।

श्रावित: परुषं वाक्यं चिन्तयामास दु:खित: ।। 2.62.1 ।।

चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रिय: ।

अथ दीर्घेण कालेन संज्ञामाप परन्तप: ।। 2.62.2 ।।

एवमिति । चिन्तयामास अनया सत्यमेव कथितम् मया चान्यैरकृतपूर्वं महदकृत्यं कृतं किमत: परं करोमीति चिन्तयामासेत्यर्थ: ।। 2.62.12 ।।

स संज्ञामुपलभ्यैव दीर्घमुष्णञ्च निश्वसन् ।

कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ।। 2.62.3 ।।

स संज्ञामिति । पुनश्चिन्तामुपागमत् “अत्युत्कटै: पुण्यपापैरिहैव फलमश्नुते” इति न्यायेन प्रियपुत्रविश्लेषजं

महदु:खमनुभवामि । एतद्धेतुभूतं किं कर्म कृतमिति पुनश्चिन्तां प्राप्तवानित्यर्थ: ।। 2.62.3 ।।

तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।

यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ।। 2.62.4 ।।

तस्येति । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म प्रत्यभात् प्रतीतमभूत् । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी, राजा बाणो वा ।। 2.62.4 ।।

अमनास्तेन शोकेन रामशोकेन च प्रभु: ।

द्वाभ्यामपि महाराज: शोकाभ्यामन्वतप्यत ।। 2.62.5 ।।

अमना इति । अमना: अस्वस्थचित्त:, क्षुभितान्त:करण इत्यर्थ: । तेन मुनिकुमारवधजनितेन ।। 2.62.5 ।।

दह्यमान: स शोकाभ्यां कौसल्यामाह भूपति: ।

वेपमानो ऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुख: ।। 2.62.6 ।।

दह्यमान इति । अवाङ्मुख: अवनतमुख: स्वकृतकौसल्याविषयाप्रियजन्यया लज्जया भीत्या चेति भाव: ।। 2.62.6 ।।

प्रसादये त्वां कौसल्ये रचितो ऽयं मयाञ्जलि: ।

वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ।। 2.62.7 ।।

भर्त्ता तु खलु नारीणां गुणवान्निर्गुणोपि वा ।

धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ।। 2.62.8 ।।

प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि । ।। 2.62.78 ।।

सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा ।

नार्हसे विप्रियं वक्तुं दु:खितापि सुदु:खितम् ।। 2.62.9 ।।

सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने परावरौ उत्कर्षापकर्षौ यया सा तथोक्ता । सुदु:खितं मां प्रतीति शेष: ।। 2.62.9 ।।

तद्वाक्यं करुणं राज्ञ: श्रुत्वा दीनस्य भाषितम् ।

कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ।। 2.62.10 ।।

तद्वाक्यमिति । प्रणाली प्रासादादिषु दार्वादिनिर्मितजलनिर्गममार्ग: । “द्वयो: प्रणाली पयस: पदव्याम्” इत्यमर: । नवोदकं वर्षजलम् ।। 2.62.10 ।।

सा मूर्ध्नि बध्वा रुदती राज्ञ: पद्ममिवाञ्जलिम् ।

सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वच: ।। 2.62.11 ।।

सेति । राज्ञ: अञ्जलिं पद्ममिव मूर्ध्नि बध्वा पाणिभ्यां गृहीत्वा । मूर्ध्नि बद्ध्वेत्यर्थ: । त्रस्ता धर्माद्भीता ।। 2.62.11 ।।

प्रसीद शिरसा याचे भूमौ निपतितास्मि ते ।

याचितास्मि हता देव हन्तव्याहं नहि त्वया ।। 2.62.12 ।।

प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मीत्यर्थ: । कुत: ? यत: ते याचिता त्वया याचिताहं हतास्मि अत: त्वयाहं हन्तव्या नहि संहर्तव्या नहि । एतदपराधशान्तये मम प्रहार एव त्वया कर्तव्यो न संहारो दास्या इवेत्यर्थ: ।। 2.62.12 ।।

नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।

उभयोर्लोकयोर्वीर पत्या या सम्प्रसाद्यते ।। 2.62.13 ।।

नैषेति । श्लाघनीयेन स्वयंप्रसाद्येन पत्या लोके या संप्रसाद्यते सा स्त्री उभयोर्लोकयोर्न भवति । ऐहिकामुष्मिकसुखभागिनी न भवतीत्यर्थ: ।। 2.62.13 ।।

जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।

पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ।। 2.62.14 ।।

शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।

शोको नाशयते सर्वं नास्ति शोकसमो रिपु: ।। 2.62.15 ।।

जानामीति । किमपि अविचारितम् अनुचितं च तत् क्षन्तव्यमिति शेष: ।। 2.62.1415 ।।

शक्य आपतित: सोढुं प्रहारो रिपुहस्तत: ।

सोढुमापतित: शोक: सुसूक्ष्मोपि न शक्यते ।। 2.62.16 ।।

शक्य इति । आपतित: हठात्प्राप्त: ।। 2.62.16 ।।

वनवासाय रामस्य पञ्चरात्रो ऽद्य गण्यते ।

य: शोकहतहर्षाया: पञ्चवर्षोपमो मम ।। 2.62.17 ।।

शोकस्य नूतनत्वादशक्यत्वमाह–वनवासायेति । वनवासाय वने वासं कर्तुम् । प्रस्थितस्य रामस्य पञ्चरात्रोद्य गण्यते वने पञ्चरात्रो वासो गण्यते । अत्र केचित् प्रथमायां रात्रौ तमसातीरे, द्वितीयरात्रौ जाह्नवीतीरे, तृतीयरात्रौ गङ्गादक्षिणकूलस्थे वनस्पतौ, चतुर्थरात्रौ प्रयागे, पञ्चमरात्रौ यमुनातीरे । तत: सुमन्त्र: षष्ठदिवसे रामश्चित्रकूटं गमिष्यतीति वृत्तान्तं ज्ञात्वा तदहस्सायाह्नसमये अयोध्यां प्राप्तवान् ततो ऽत्र पञ्चरात्रगणनमुपपद्यत इत्यूचिरे । अन्ये त्वाहु:–गङ्गातरणपर्यन्तं वनवासत्वाभावात् तत:परं वनस्पतिभरद्वाजाश्रमयमुनातीरचित्रकूटेषु चतस्त्रो रात्रय: चतुर्थ्यां सुमन्त्रस्य निर्गभ: पञ्चम्यामिदं वचनमिति, एवंसत्यद्यपदस्वारस्यमिति । ननु सप्तपञ्चाशे सर्गे “भरद्वाजाभिगमनं प्रयागे च सहासनम् । आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् । अनुज्ञात: सुमन्त्रोथ योजयित्वा हयोत्तमान् ।।” इत्याद्यनन्तरं “तत: सायाह्नसमये तृतीयेऽहनि सारथि:। अयोध्यां समनुप्राप्य निरानन्दां ददर्शह ।।” इत्युक्त्या अयोध्यानिर्गमदिवसमारभ्य षष्ठे ऽहनि किल रामस्य चित्रकूटप्रवेश: अथ चारेभ्य: सप्तमे अष्टमे वा सूतस्य तद्वृत्तान्तश्रवणं ततस्तृतीये ऽहनि सूतस्यायोध्याप्रवेश: तत्कथं पञ्चरात्रय इति परिगण्यते ? उच्यते–तृतीये ऽहनीत्यत्र अह्नस्तृतीयभाग इत्यर्थ: । आगिरेर्गमनमित्यत्र गमनोद्योगमित्यर्थ: । तथाच “गुहेन सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् । आशया यदि मां राम: पुन:शब्दापयेदिति” इत्यत्र बहूनित्युक्त्या दिनत्रयं श्रृङ्गिबेरपुरे सूतस्य वास: । चतुर्थे दिने ऋजुमार्गेण दिवारात्रमागतचारमुखात् रामस्य चित्रकूटप्रवेशोद्योगं निशम्य तद्दिवससायंकाले वेगेनायोध्याप्रवेश:, तस्मिन् दिने कौसल्याह पञ्चरात्रोद्यगण्यत इति, अतो न किंचिदनुपपन्नम् ।। 2.62.17 ।।

तं हि चिन्तयमानाया: शोको ऽयं हृदि वर्द्धते ।

नदीनामिव वेगेन समुद्रसलिलं महत् ।। 2.62.18 ।।

तमिति । नदीवेगेन समुद्रवृद्धिरिति लोकवाद: ।। 2.62.18 ।।

एवं हि कथयन्त्यास्तु कौसल्याया: शुभं वच: ।

मन्दरश्मिरभूत् सूर्यो रजनी चाभ्यवर्तत ।। 2.62.19 ।।

तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृप: ।

शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ।। 2.62.20 ।।

एवमिति । कथयन्त्या: कथयन्त्यामित्यर्थ: । शुभं वच: अतिदु:खितावस्थायामपि पत्यनुनयपरत्वात् वचस: शुभत्वम् ।। 2.62.1920 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विषष्टितम: सर्ग: ।। 62 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विषष्टितम: सर्ग: ।। 62 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.