63 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिषष्टितम: सर्ग:

प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतन: ।

अथ राजा दशरथ: स चिन्तामभ्यपद्यत ।। 2.63.1 ।।

प्रतिबुद्ध इत्यादि ।। 2.63.1 ।।

रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् ।

आविवेशोपसर्गस्तं तम: सूर्यमिवासुरम् ।। 2.63.2 ।।

रामलक्ष्मणयोरिति । रामलक्ष्मणयोर्विवासात् उपसर्ग: महोपद्रव: पुत्रशोकरूप: । आसुरम् असुरसम्बन्धि तम: राहु: ।। 2.63.2 ।।

सभार्ये निर्गते रामे कौसल्यां कोसलेश्वर: ।

विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मन: ।। 2.63.3 ।।

सभार्य इति । विवक्षु:, अभूदिति शेष: । असितापाङ्गामित्यनेन निवृत्तक्रोधत्वमुक्तम् ।। 2.63.3 ।।

स राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम् ।

अर्धरात्रे दशरथ: संस्मरन् दुष्कृतं कृतम् ।। 2.63.4 ।।

स राजा पुत्रशोकार्त: स्मृत्वा दुष्कृतमात्मन: ।

कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ।। 2.63.5 ।।

स राजेति । रजनीमिति सप्तम्यर्थे द्वितीया । षष्ठीं रजनीं, प्राप्येति शेषो वा । संस्मरन् स्थित इति शेष: ।। 2.63.45 ।।

यदाचरति कल्याणि शुभं वा यदि वा ऽशुभम् ।

तदेव लभते भद्रे कर्ता कर्मजमात्मन: ।। 2.63.6 ।।

स्मृतमात्मदुष्कृतं वक्तुं तदनुकूलां लोकस्थितिं दर्शयति–यदिति । कल्याणीति सान्त्वोक्ति: । लोके पुरुष: शुभं वा अशुभं वा यदाचरति परस्य कर्मजं परशुभाशुभप्रापकपुण्यापुण्यात्मककर्मजम्, तदेव शुभं वा अशुभं वा फलम् आत्मनोपि लभते । तथाच ऋषे: पुत्रवियोगकरणेन ममापि पुत्रवियोग: प्राप्त इति भाव: ।। 2.63.6 ।।

गुरुलाघवमर्थानामारम्भे कर्मणां फलम् ।

दोषं वा यो न जानाति स बाल इति होच्यते ।। 2.63.7 ।।

अन्यामपि लोकस्थितिमाह–गुरुलाघवमिति । कर्मणामारम्भे आरम्भसमये । अर्थानां फलानां गुरुलाघवं गुरुत्वं लघुत्वं च फलं दोषं वा फलं फलहानिं वा । यद्वा सुखरूपतां दु:खरूपतां वा । यो न जानाति स: बाल: अज्ञ इत्युच्यते । अल्पफलकं बहुकर्मनिष्फलं च कर्मारभमाणो बुद्धिहीन: बहुफलकमल्पं कर्म सफलं कर्म चारभमाण: सुबुद्धिरित्यर्थ: । तथाचात्मविनोदरूपाल्पफलं पुत्रवियोगरूपमहाफलहानिकरं मृगयाकर्म कुर्वन्नहमज्ञ एवास्मीति भाव: ।। 2.63.7 ।।

कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति ।

पुष्पं दृष्ट्वा फले गृध्नु: स शोचति फलागमे ।। 2.63.8 ।।

फलतारतम्यविचारमन्तेरण कर्मणि प्रवृत्तस्योक्तं बालिशत्वं दृष्टान्तमुखेन विवृणोति–कश्चिदिति । लोके कश्चित्पुरुष: पुष्पं दृष्ट्वा फले गृध्नु: साभिलाष: सन् अधिकवर्णमहापुष्पवत्त्वात् तदनुगुणमहाफलं भविष्यतीति साभिलाष इत्यर्थ: । आम्रवणं चूतवनम् । अल्पनिर्वर्णपुष्पकम् । छित्त्वा पलाशोपरोधपरिहारार्थं छित्त्वा । पलाशांश्च किंशुकानेव निषिञ्चति जलसेचनादिना पोषयति स: फलागमे फलप्राप्तिकाले सति । अनुपभोग्यफलदर्शनात् शोचति ।। 2.63.8 ।।

अविज्ञाय फलं यो हि कर्मत्वेवानुधावति ।

स शोचेत् फलवेलायां यथा किंशुकसेचक: ।। 2.63.9 ।।

दृष्टान्तोक्तं दार्ष्टान्तिके दर्शयति–अविज्ञायेति । भाविफलमविज्ञाय कर्मत्वेवानुधावति कर्मैवानुसरति तदनुकूलहिंसां तु न पश्यतीत्यर्थ: ।। 2.63.9 ।।

सो ऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् ।

रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मति: ।। 2.63.10 ।।

एवं सदृष्टान्तमुक्तस्य प्रकृतोपयोगं दर्शयति–सोहमिति । आम्रवणच्छेदनपूर्वकपलाशसेचकतुल्योहमित्यर्थ: । आम्रवणं छित्त्वेत्यनेन अभिषेकविघातपूर्वकरामविवासनं लक्ष्यते । पलाशांश्च न्यषेचयमित्यनेन कैकेयीप्रियकरणं लक्ष्यते ।। 2.63.10 ।।

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।

कुमार: शब्दवेधीति मया पापमिदं कृतम् ।। 2.63.11 ।।

एतद्दु:खानुभवस्य निदानं वक्तुमुपक्रमते–लब्धशब्देनेति । कुमार: शब्दवेधीति लब्ध शब्देन प्राप्तख्यातिना मया । इदं वक्ष्यमाणं पापं मुनिकुमारवधरूपं कर्म कृतमिति सम्बन्ध: । यद्वा लब्धशब्देन लब्धगजतुल्यमुनिपुत्रशब्देन मया शब्दवेधी कुमार इत्यभिमानेन इदं वक्ष्यमाणं मुनिकुमारवधरूपं पापं कृतम् ।। 2.63.11 ।।

तदिदं मे ऽनुसंप्राप्तं देवि दु:खं स्वयंकृतम् ।

सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम् ।। 2.63.12 ।।

शुभं वा अशुभं वा पुरुषकृतं कर्म लोकान्तरे जन्मान्तरे वा फलाय भवेत् मत्कृतकर्मणस्त्वत्युत्कटत्वादिहैव तत्फलं प्राप्तमित्याह–तदिदमिति । इह लोके बालेन संमोहात् भक्षितं विषं यथा दु:खरूपं स्यात्तथैव स्वयं कृतम् तदिदं दुष्कृतं मे दु:खरूपम् अनुसंप्राप्तं जातमित्यर्थ: ।। 2.63.12 ।।

यथान्य: पुरुष: कश्चित् पलाशैर्मोहितो भवेत् ।

एवं ममाप्याविज्ञातं शब्दवेध्यमयं फलम् ।। 2.63.13 ।।

उक्तमर्थं संग्रहेण दर्शयन्नुपसंहरति–यथान्य इत्यादिना । अन्य: प्राकृत: कश्चित् पलाशै: पलाशपुष्पै: । “फले लुक्” । यथा मोहितो भवेत् यादृशं पुष्पं तादृशं फलं भविष्यतीति मोहं प्राप्तो भवेत् । एवं ममापि मयापि शब्दो वेध्यो लक्ष्यं यस्य स शब्दवेध्य: शर: शब्दवेध्यमयं शब्दवेध्यविकारभूतं तद्धेतुकमित्यर्थ: । फलमविज्ञातं शब्दवेधित्वख्यातिमात्रमेव जानता मया भाव्यनर्थफलं न विज्ञातमित्यर्थ: ।। 2.63.13 ।।

देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ।

तत: प्रावृडनुप्राप्ता मदकामविवर्धनी ।। 2.63.14 ।।

एतादृशशब्दवेधनं कदा प्राप्तमित्याकाङ्क्षायामाह–देवीत्यादिना । अनूढा अकृतविवाहा । युवत्वे सति राजा युवराज: भवामि अभवम् । प्रावृट् वर्षाकाल: ।। 2.63.14 ।।

उपास्य हि रसान् भौमांस्तप्त्वा च जगदंशुभि: ।

परेताचरितां भीमां रविराविशते दिशम् ।। 2.63.15 ।।

उपास्येति । उपास्य गृहीत्वा । रसान् जलानि । जगद्भूमिम् । परेताचरितां प्रेताचरिताम् अत एव भीमां दिशं दक्षिणामित्यर्थ: । आविशते आविशते स्म ।। 2.63.15 ।।

उष्णमन्तर्दधे सद्य: स्निग्धा ददृशिरे घना: ।

ततो जहृषिरे सर्वे भेकसारङ्गबर्हिण: ।। 2.63.16 ।।

उष्णमिति । स्निग्धा: शीतला: । भेका: मण्डूका: । सारङ्गा हरिणाश्चातका वा ।। 2.63.16 ।।

क्लिन्नपक्षोत्तरा: स्नाता: कृच्छ्रादिव पतत्ित्रण: ।

वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ।। 2.63.17 ।।

क्लिन्नपक्षोत्तरा इति । क्लिन्नपक्षोत्तरा सिक्तपक्षोपरिभागा: । अत एव स्राता इव स्थिता: । वृष्टिवातावधूताग्रान् वृष्टिवाताभ्यां कम्पिताग्रानपि पादपान् । कृच्छ्रात् क्लिन्नपक्षत्वेन यत्नात् अभिपेदिरे आरूढा: ।। 2.63.17 ।।

पतितेनाम्भसा च्छन्न: पतमानेन चासकृत् ।

आबभौ मत्तसारङ्गस्तोयराशिरिवाचल: ।। 2.63.18 ।।

पतितेनेति । पतितेन पतमानेन च निरन्तरेणेत्यर्थ: । अम्भसा वर्षजलेन छन्न: मत्त सारङ्ग: मत्तगज: । “सारङ्गो हरिणे भृङ्गे चातके शबले गजे” इति निघण्टु: । अचलो गिरि: । अचलो निश्चल: निस्तरङ्ग: तोयराशि: समुद्र इवाबभौ । अचलपदस्यावृत्त्या एकस्य गिरिपदस्य विशेष्यत्वम्, अन्यस्य तोयराशिविशेषणत्वमिति ध्येयम् ।। 2.63.18 ।।

पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि ।

सुस्रुवुर्गिरिधातुभ्य: सभस्मानि भुजङ्गवत् ।। 2.63.19 ।।

पाण्डुरारुणवर्णानीति । गिरिधातुभ्यो हेतुभ्य: विमलान्यपि स्रोतांसि पाण्डुरारुणवर्णानि पाण्डुरधातुसंयोगात् पाण्डुरवर्णानि अरुणधातुसंयोगात् अरुणवर्णनि । सभस्मानि दावानलभस्म सहितानि । भुजङ्गवत् नानावर्णयुक्तसर्पा इव कुटिलानि सुस्रुवु: ।। 2.63.19 ।।

तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी ।

व्यायामकृतसङ्कल्प: सरयूमन्वगां नदीम् ।। 2.63.20 ।।

निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् ।

अन्यं वा श्वापदं कञ्चिज्जिघांसुरजितेन्द्रिय: ।। 2.63.21 ।।

तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । व्यायामकृतसङ्कल्प: मृगयाविहारे कृतसङ्कल्प इत्यर्थ: । निपीयते अस्मिन्निति निपानम् नद्यवतारस्थलं तस्मिन् । श्वापदं व्याघ्रादिदुष्टमृगम् ।। 2.63.2021 ।।

अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यत: ।

अचक्षुर्विषये घोषं वारणस्येव नर्दत: ।। 2.63.22 ।।

अथान्धकार इति । पूर्यत इति शत्रन्तत्वमार्षम् ।। 2.63.22 ।।

ततो ऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् ।

शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।। 2.63.23 ।।

ततो ऽहमिति । गजप्रेप्सु: गजरूपवेध्यं प्राप्तुमिच्छु:, हननेच्छुरित्यर्थ: । शब्दं प्रति शब्दं लक्ष्यं कृत्वा । अभिलक्ष्य शब्दकर्तृभूतो राज एतावन्मात्रे तिष्ठतीति लक्षीकृत्येत्यर्थ:, शरमपातयमिति सम्बन्ध: ।। 2.63.23 ।।

अमुञ्चं निशितं बाणमहमाशीविषोपमम् ।

तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकस: ।

हाहेति पततस्तोये बाणाभिहतमर्मण: ।। 2.63.24 ।।

अमुञ्चमिति । यत्र बाणममुञ्चं तत्र वनौकस: वनम् ओक: स्थानं यस्य तस्य, तपस्विन इति यावत् । व्यक्ता वाक् प्रादुरासीदिति सम्बन्ध: ।। 2.63.24 ।।

तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।

कथमस्मद्विधे शस्त्रं निपते त्तु तपस्विनि ।। 2.63.25 ।

प्रविविक्तां नदीं रात्रावुदाहारो ऽहमागत: ।

इषुणाभिहत: केन कस्य वा किं कृतं मया ।। 2.63.26 ।।

विशिष्यवागुदितेत्याह–तस्मिन्नित्यादि अस्मद्विधे अजातशत्रौ । प्रविविक्तां प्रकर्षेण निर्जनाम् । रात्रौ अपररात्रौ । उदकमाहारयतीत्युदाहार: “मन्थौदन–” इत्यादिना उदकशब्दस्योदादेश: । यद्यपि हारशब्दे परे उदादेशो विहित: तथापि “एकदेशविकृतमनन्यवद्भवति” इति दीर्घ: छान्दसो वा । किंकृतं किमनिष्टं कृतम् ।। 2.63.2526 ।।

ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवत: ।

कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ।। 2.63.27 ।।

जटाभारधरस्यैव वल्कलाजिनवासस: ।

को वधेन ममार्थी स्यात् किं वास्यापकृतं मया ।। 2.63.28 ।।

न्यस्तदण्डस्य उपरतवाङ्मन:कायसम्बन्धिपरहिंसस्य । “दण्डो ऽस्त्री शासने राज्ञां हिंसायां दमसैन्ययो:” इति विश्व । अर्थी प्रयोजनवान् ।। 2.63.2728 ।।

एवं निष्फलमारब्धं केवलानर्थसंहितम् ।

न कश्चित् साधु मन्येत यथैव गुरुतल्पगम् ।। 2.63.29 ।।

नाहं तथानुशोचामि जीवितक्षयमात्मन: ।

मातरं पितरं चोभावनुशोचामि मद्वधे ।। 2.63.30 ।।

तदेतन्मिथुनं वृद्धं चिरकालभृतं मया ।

मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति ।। 2.63.31 ।।

गुरुतल्पगं गुरुदारगम् । “तल्पं शय्याट्टदारेषु” इत्यमर: ।। 2.63.2931 ।।

वृद्धौ च मातापितरावहं चैकेषुणा हत: ।

केन स्म निहता: सर्वे सुबालेनाकृतात्मना ।। 2.63.32 ।।

हत इत्येतन्मातापितरावित्यत्र वचनविपरिणामेन योजनीयम् । सर्वे निहता इत्युक्तिर्मातापितृजीवनहेतुभूतस्य स्वस्य वधात् । अकृतात्मना अनिश्चितबुद्धिना । इति वागभूदिति पूर्वेणान्वय: ।। 2.63.32 ।।

तां गिरं करुणां श्रुत्वा मम धर्मानुकांक्षिण: ।

कराभ्यां सशरं चापं व्यथितस्यापद्भुवि ।। 2.63.33 ।।

तामिति । सशरं चापमित्यनेन शरे मुक्तेपि हस्तलाघवाच्छरान्तरं धनुषि संहितवानित्यवगम्यते । करुणां गिरं श्रुत्वा करुणाजनकं वच: श्रुत्वा, स्थितस्येति शेष: ।। 2.63.33 ।।

तस्याहं करुणं श्रुत्वा निशि लालपतो बहु ।

सम्भ्रान्त: शोकवेगेन भृशमासं विचेतन: ।। 2.63.34 ।।

तस्येति । लालपत इति यङ्लुगन्ताच्छतृप्रत्यय: । प्रलपत इत्यर्थ: । विलपनमित्यर्थसिद्धम् ।। 2.63.34 ।।

तं देशमहमागम्य दीनसत्त्व: सुदुर्मना: ।

अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ।। 2.63.35 ।।

अवकीर्णजटाभारं प्रविद्धकलशोदकम् ।

पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ।। 2.63.36 ।।

तमिति । दीनसत्त्व: दीनहृदय: । सुदुर्मना: अत्यन्तदु:खितमना: । प्रविद्धकलशोदकं पर्यस्तकलशोदकमित्यर्थ: । नतु ध्वस्तकलशोदकमिति । “ततस्तं घटमादाय पूर्णं परमवारिणा” इति वक्ष्यमाणविरोधात् । पांसुशोणितदिग्धाङ्गं पांसुविशिष्टशोणितेन लिप्ताङ्गम् । शल्यपीडितं शराग्रपीडितम् ।। 2.63.3536 ।।

स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् ।

इत्युवाच तत: क्रूरं दिधक्षन्निव तेजसा ।। 2.63.37 ।।

स मामुद्वीक्ष्येति । त्रस्तं भीतम् अत एवास्वस्थचेतसं व्याकुलचित्तम् ।। 2.63.37 ।।

किं तवापकृतं राजन् वने निवसता मया ।

जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया ।। 2.63.38 ।।

एकेन खलु बाणेन मर्मण्यभिहते मयि ।

द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ।। 2.63.39 ।।

किं तवेति । जिहीर्षु: आहर्तुमिच्छु: । गुर्वर्थं मातापितृनिमित्तम् ।। 2.63.38.39 ।।

तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ ।

चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यत: ।। 2.63.40 ।।

ताविति । आशाकृतां पुत्रो मे जलमाहरिष्यतीत्याशासहिताम् । तृष्णां पिपासाम् । कष्टां दु:सहाम् ।। 2.63.40 ।।

न नूनं तपसो वास्ति फलयोग: श्रुतस्य वा ।

पिता यन्मां न जानाति शयानं पतितं भुवि ।। 2.63.41 ।।

न नूनमिति । तपस: श्रुतस्य वेत्यत्र मामकस्येति विशेषणं देयम् ।। 2.63.41 ।।

जान्ननपि च किं कुर्यादशक्तिरपरिक्रम: ।

भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् ।। 2.63.42 ।।

जानन्निति । अपरिक्रम: असञ्चार:, पङ्गुरिति यावत् । भिद्यमानं वातादिनेति शेष: ।। 2.63.42 ।।

पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ।

न त्वामनुदहेत् क्रुद्धो वनं वह्निरिवैधित: ।। 2.63.43 ।।

पितुरिति । राघवेति संबोधनात् सरयूतीरे बहुशो मृगयापर्यटनेन पूर्वमेव दशरथं ज्ञातवानित्यवगम्यते । न त्वामनुदहेदिति अन्यथा दहेदिति भाव: ।। 2.63.43 ।।

इयमेकपदी राजन् यतो मे पितुराश्रम: ।

तं प्रसादय गत्वा त्वं न त्वां स कुपित: शपेत् ।। 2.63.44 ।।

इयमिति । एकपदी एकपदन्यासमात्रयुक्ता सरणिरित्यर्थ: । “वर्तन्येकपदी” इत्यमर: । यत: यत्रैकपद्याम् ।। 2.63.44 ।।

विशल्यं कुरु मां राजन् मर्म मे निशित: शर: ।

रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ।। 2.63.45 ।।

सशल्य: क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।

इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ।। 2.63.46 ।।

विशल्यमिति । मर्म रुणद्धि पीडयतीत्यर्थ: । मृदु सिकतामयम् । सोत्सेधम् औन्नत्यवत् । अम्बुरय: नदीवेग: ।। 2.63.4546 ।।

दु:खितस्य च दीनस्य मम शोकातुरस्य च ।

लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ।। 2.63.47 ।।

दु:खितस्येति । दु:खितस्य महदकृत्यं प्राप्तमिति दु:खितस्य । शोकातुरस्य ब्रह्महत्या भविष्यतीति भिया शोकेन पीडितस्य ।। 2.63.47 ।।

ताम्यमान: स मां कृच्छ्रादुवाच परमार्तवत् ।

सीदमानो विवृत्ताङ्गो वेष्टमानो गत: क्षयम् ।। 2.63.48 ।।

ताम्यमान इति । क्षयं गत: नाशं प्राप्तुमुपक्रान्त: ।। 2.63.48 ।।

संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् ।

ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ।। 2.63.49 ।।

न द्विजातिरहं राजन् माभूत्ते मनसो व्यथा ।

शूद्रायामस्मि वैश्येन जातो जनपदाधिप ।। 2.63.50 ।।

संस्तभ्येत्यादिश्लोकद्वयस्य इति मामुवाचेत्यनेनान्वय: । स्थिरचित्तो भवाम्यहमित्यत्र स्थिरचित्तो भवानघेति च पाठ: । शूद्रायां वैश्येन जात: करण इत्यर्थ: । “शूद्राविशोस्तु करण:” इत्यमर: ।। 2.63.4950 ।।

इतीव वदत: कृच्छ्राद्बाणाभिहतमर्मण: ।

विघूर्णतो विचेष्टस्य वेपमानस्य भूतले ।। 2.63.51 ।।

तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् ।

स मामुद्वीक्ष्य सन्त्रस्तो जहौ प्राणांस्तपोधन: ।। 2.63.52 ।।

इतीति । विघूर्णत: कदाचिदतीव वेपमानस्येत्यर्थ: । विचेष्टस्य कदाचिदिति शेष: । वेपमानस्य कदाचिदीषत्कम्पमानस्येत्यर्थ: । आनम्यमानस्य व्यथया सङ्कुचिताङ्गस्येत्यर्थ: । नानद्यमानस्येति पाठे–अतिशयेन नदत इत्यर्थ: । उद्धरम् उदहरम् । अडभावो ऽनित्यत्वात् ।। 2.63.5152 ।।

जलार्द्रगात्रं तु विलप्य कृच्छ्रान्मर्मव्रणं सन्ततमुच्छ्वसन्तम् ।

तत: सरय्वां तमहं शयानं समीक्ष्य भद्रे ऽस्मि भृशं विषण्ण: ।। 2.63.53 ।।

जलार्द्रगात्रमिति । अयं श्लोक: प्रथमदृष्टानुवाद: । मर्मणि प्राणस्थाने व्रण: यस्य तम् । सरय्वां सरयूतीरे । विषण्णोस्मि विषण्णो ऽभवम् ।। 2.63.53 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिषष्टितम: सर्ग: ।। 63 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिषष्टितम: सर्ग: ।। 63 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.