65 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चषष्टितम: सर्ग:

अथ रात्र्यां व्यतीतायां प्रातरेवापरे ऽहनि ।

वन्दिन: पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् ।। 2.65.1 ।।

सूता: परमसंस्कारामङ्गलाश्चोत्तमश्रुता: ।

गायका: स्तुतिशीलाश्च निगदन्त: पृथक् पृथक् ।। 2.65.2 ।।

अथेत्यादिश्लोकद्वयमेकवाक्यम् । रात्र्यां रात्रिशेषे । परमसंस्कारा: व्याकरणाद्युत्तमसंस्कारयुक्ता: श्रेष्ठालङ्कारयुक्ता वा । वन्दिन इति पूर्वमुक्तत्वात् सूता: वंशावलिकीर्त्तका: । मङ्गला: मङ्गलपाठका: । उत्तमं श्रुतं गान्धर्वशास्त्रश्रवणं येषां ते उत्तमश्रुता: । एतद्विशेषणद्वयं गायकमात्रविशेषणम् । अन्यत्सर्वविशेषणम् सर्वत्र पर्युपातिष्ठन्नितिक्रियापदम् ।। 2.65.12 ।।

राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् ।

प्रासादाभोगविस्तीर्ण: स्तुतिशब्दो ह्यवर्तत ।। 2.65.3 ।।

राजानमिति । उदात्ताभिहिताशिषाम् उदात्तेन उच्चै:स्वरेण अभिहिता: प्रयुक्ता: आशिषो यैस्तेषाम् । प्रासादाभोगविस्तीर्ण: प्रासादेषु आभोग: परिपूर्णता तया विस्तीर्ण: “आभोग: परिपूर्णत” इत्यमर: ।। 2.65.3 ।।

ततस्तु स्तुवतां तेषां सूतानां पाणिवादका: ।

अपदानान्युदाहृत्य पाणिवादानवादयन् ।। 2.65.4 ।।

तत इति । स्तुवतां स्तुवत्सु सत्सु । पाणिवादका: तालगत्या विविधं पाणिभ्यां वादयन्तीति पाणिवादका: । अपदानानि वृत्तान्यद्भुतकर्माणि । पाणिवादानवादयन् पाणिवादानकुर्वन्नित्यर्थ: ।। 2.65.4 ।।

तेन शब्देन विहगा: प्रतिबुद्धा विसस्वनु: ।

शाखास्था: पञ्जरस्थाश्च ये राजकुलगोचरा: ।। 2.65.5 ।।

तेनेति । शाखास्था: गृहारामवृक्षशाखासु वर्तमाना: । राजकुलगोचरा: राजगृहे दृश्यमाना: विहगा: शुकादय: ।। 2.64.5 ।।

व्याहृता: पुण्यशब्दाश्च वीणानां चापि निस्वना: ।

आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ।। 2.65.6 ।।

व्याहृता इति । व्याहृता: ब्राह्मणैरुक्ता: । पुण्यशब्दा: पुण्यपुरुषक्षेत्रतीर्थकीर्त्तनादिरूपा: । पूरयामासुरिति विपरिणामेन योजनीयम् । गाथानां दशरथविषयप्रबन्धविशेषाणां सम्बन्धि आशीर्गेयं आशीर्वादरूपगानम् ।। 2.65.6 ।।

तत: शुचिसमाचारा: पर्युपस्थानकोविदा: ।

स्त्रीवर्षधरभूयिष्ठा उपतस्थुर्यथापुरम् ।। 2.65.7 ।।

तत इति । पर्युपस्थानकोविदा: कालोचितपरिचर्याविचक्षणा: । स्त्रीवर्षधरभूयिष्ठा: अन्त:पुराध्यक्षस्त्रीभि: वर्षधरै: षण्ढैश्च समृद्धा:, परिचारका इति शेष: ।। 2.65.7 ।।

हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटै: ।

आनिन्यु: स्नानशिक्षाज्ञा यथाकालं यथाविधि ।। 2.65.8 ।।

हरिचन्दनसंपृक्तमिति । हरिचन्दनसंपृक्तं हरिनचन्दनसंमिश्रम् । स्नानशिक्षाज्ञा: स्नानप्रकारज्ञा: यथाविधि यथानियमम् ।। 2.65.8 ।।

मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् ।

उपनिन्युस्तथाप्यन्या: कुमारीबहुला: स्त्रिय: ।। 2.65.9 ।।

मङ्गलालम्भनीयानीति । मङ्गलालम्भनीयानि मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि । स्पर्शनीयानि गवादीनीत्येके । प्राशनीयानि दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयानि सम्पिष्टतिलनारिकेलजीरकादिद्रव्याणि औषधविशेषानिति वार्थ:, गङ्गादितीर्थोदकानीति वार्थ:, अनुदिनमखिलदुरितहरणायाखिलकर्मणामधिकारापादनाय च प्राशनीयानि कुलाराधनभूतश्रीरङ्गनाथचरणारविन्दसमर्पिततीर्थोदकतुलस्यादीनीति वार्थ: । तीर्थोदकभाजनावरणपेटिकादेरेव परिचारकैरानयनं ज्ञेयम् । उपस्करान् दर्पणवस्त्राभरणकुसुमादीनि । कुमारीबहुला: कुमारीप्राया: । स्त्रिय: इति द्वितीया । वारयोषित इति यावत् ।। 2.65.9 ।।

सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम् ।

सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम् ।। 2.65.10 ।।

सर्वलक्षणसम्पन्नमिति । आभिहारिकं राज्ञे प्रातर्यदाहर्तव्यं मङ्गलार्थमानेतव्यम् । तत्सर्वं सर्वलक्षणसम्पन्नत्वादिधर्मविशिष्टं बभूव । सुगुणं च तत् लक्ष्मीवच्चेति समास: ।। 2.65.10 ।।

तत्तु सूर्योदयं यावत्सर्वं परिसमुत्सुकम् ।

तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम् ।। 2.65.11 ।।

तदिति । तत् पूर्वोक्तं परिजनजातम् । सूर्योदयं यावत् सूर्योदयात् पूर्वमेव । परिसमुत्सुकं राजसेवासमुत्सुकम् । अनुपसंप्राप्तम् अनागतं राजानं प्रति किंस्विदित्युपशङ्कितं सत् तस्थौ । राता नागत: तस्य किंवा स्यादिति शङ्कासंयुक्तं तस्थावित्यर्थ: ।। 2.65.11 ।।

अथा या: कोसलेन्द्रस्य शयनं प्रत्यनन्तरा: ।

ता: स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ।। 2.65.12 ।।

अथेति । या: कौसल्यादिव्यतिरिक्ता: । शयनं प्रत्यनन्तरा: शयनसन्निकृष्टा इत्यर्थ: । प्रत्यबोधयन् प्रबोधनोचितसविनयमृदुवाक्यै: प्राबोधयन्नित्यर्थ: ।। 2.65.12 ।।

तथाप्युचितवृत्तास्ता विनयेन नयेन च ।

न ह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे ।। 2.65.13 ।।

तथेति । तथापि बोधयित्वापि । उचितवृत्ता: स्पर्शनादिव्यापारोचिता: । विनयेन प्रश्रयेण नयेन युक्त्या च अस्य शयनं शयनस्थानं स्पृष्ट्वा किंचिदपि निद्रालक्षणम् उच्छ्वासादिकम् । न लेभिरे न ज्ञातवत्य: ।। 2.65.13 ।।

ता: स्त्रिय: स्वप्नशीलज्ञाश्चेष्टासञ्चलनादिषु ।

ता वेपथुपरीताश्च राज्ञ: प्राणेषु शङ्किता: ।

प्रतिस्रोतस्तृणाग्राणां सदृशं संचकाशिरे ।। 2.65.14 ।।

एतदेवोपपादयति–ता इति । स्वप्नशीलज्ञा: स्वापस्वभावज्ञा: । ता: पूर्वोक्ता: स्त्रिय: । चेष्टासंचलनादिषु चेष्टा हस्तपादादिचलनम्, सञ्चलनं हृदयादिस्पन्दनम्, आदिशब्देन निश्वासादिकं गृह्यते । तेषु किंचिन्नोपलेभिरे इत्यनुषङ्गेण सम्बन्ध: । वेपथुना कम्पेन । परीता: व्याप्ता: ता: स्त्रिय: राज्ञ: प्राणेषु शङ्किता: सत्य: प्रतिस्रोतस्तृणाग्राणां नदीप्रवाहाभिमुखवेतसादितृणाग्राणाम् । सदृशं तुल्यम् यथातथा संचकाशिरे, संचकम्पिर इत्यर्थ: ।। 2.65.14 ।।

अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् ।

यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चय: ।। 2.65.15 ।।

अथेति । यत्पापं मरणरूपमाशङ्कितं तस्य निश्चयस्तदा जज्ञ इति सम्बन्ध: ।। 2.65.15 ।।

कौसल्या च सुमित्रा च पुत्रशोकपराजिते ।

प्रसुप्ते न प्रबुध्येते यथाकालसमन्विते ।। 2.65.16 ।।

कौसल्येति । पुत्रशोकेन पराजिते आक्रान्ते अत एव यथाकालसमन्विते मृते इव प्रसुप्ते न प्रबुध्येते ।। 2.65.16 ।।

निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ।

न व्यराजत कौसल्या तारेव तिमिरावृता ।। 2.65.17 ।।

निष्प्रभेति । निष्प्रभा नि:श्रीका । विवर्णा पूर्ववर्णाद्विपरीतवर्णा । शोकेन सन्ना कृशा । सन्नता कार्श्येन नम्रा । तिमिरावृता उत्पातकालेत्थधूमस्तिमिरं तेनावृता तारेव तारकेव न व्यराजत ।। 2.65.17 ।।

कौसल्यानन्तरं राज्ञ: सुमित्रा तदनन्तरम् ।

न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।। 2.65.18 ।।

कौसल्यानन्तरमिति । प्रथमं राजा न विभ्राजते स्म । राज्ञो ऽनन्तरं कौसल्या शोकाश्रुलुलितानना सती न विभ्राजते स्म । तदनन्तरं देवी तथाविधा सुमित्रा न विभ्राजते स्म, मृताद्दशरथाज्जीवन्त्यो: कौसल्यासुमित्रयोर्विशेषो नासीदित्यर्थ: ।। 2.65.18 ।।

ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तु नृपम् ।

सुप्तमेवोद्गतप्राणमन्त:पुरमदृश्यत ।। 2.65.19 ।।

तत: प्रचुक्रुशुर्दीना: सस्वरं ता वराङ्गना: ।

करेणव इवारण्ये स्थानप्रच्युतयूथपा: ।। 2.65.20 ।।

ते इति । सुप्ते ते उभे देव्यौ च दृष्ट्वा । सुप्तमेव सन्तमुद्गतप्राणं तं नृपं च अन्त:पुरम् अन्त:पुरजन: अदृश्यत अपश्यत् ।। 2.65.1920 ।।

तासामाक्रन्दशब्देन सहसोद्गतचेतने ।

कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतु: ।। 2.65.21 ।।

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।

हा नाथेति परिक्रुश्य पेततुर्धरणीतले ।। 2.65.22 ।।

सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ।

न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता ।। 2.65.23 ।।

तासामिति । सहसोद्गतचेतने सहसोत्पन्नप्रबोधे ।। 2.65.2123 ।।

नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि ।

अपश्यंस्ता: स्त्रिय: सर्वा हतां नागवधूमिव ।। 2.65.24 ।।

तत: सर्वा नरेन्द्रस्य कैकेयीप्रमुखा: स्त्रिय: ।

रुदन्त्य: शोकसन्तप्ता निपेतुर्गतचेतना: ।। 2.65.25 ।।

नृप इति । शान्तगुणे शान्तदेहोष्णस्पन्दनादिगुणे ।। 2.65.2425 ।।

ताभि: स बलवान्नाद: क्रोशन्तीभिरनुद्रुत: ।

येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् ।। 2.65.26 ।।

ताभिरिति । स नाद: कौसल्याप्रभृतीनां नाद: । क्रोशन्तीभिस्ताभि: पश्चात्प्रविष्टकैकेयीप्रभृतिभि: अनुद्रुत: अनुसृतो ऽभूत् । येन अनन्तरक्रोशानुद्रुतेन पूर्वनादेन स्थिरीकृतं व्याप्तं तत्सर्वं गृहं समनादयत् महान्तं प्रतिध्वनिमजनयदित्यर्थ: ।। 2.65.26 ।।

तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम् ।

सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् ।। 2.65.27 ।।

सद्योप निपतितानन्दं दीनविक्लवदर्शनम् ।

बभूव नरदेवस्य सद्म दिष्टान्तमीयुष: ।। 2.65.28 ।।

तदित्यादि । पर्युत्सुकजनाकुलं पूर्वं पर्युत्सुकजनाकुलं सद्म नरदेवस्य दिष्टान्तमीयुष: नरदेवे मरणं प्राप्ते सति । समुत्त्रस्तसंभ्रान्तं समुत्त्रस्तम् उद्विग्नं संभ्रान्तम् अनवस्थितं च इत्येवमादिविशेषणयुक्तं बभूवेति सम्बन्ध: ।। 2.65.2728 ।।

अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सम्परिवार्यपत्नयः ।

भृशं रुदन्त्य: करुणं सुदु:खिता: प्रगृह्य बाहू व्यलपन्ननाथवत् ।। 2.65.29 ।।

अतीतमिति । आज्ञाय सम्यक् ज्ञात्वा । पत्नय: पत्न्य: । बाहूप्रगृह्य परस्परं बाहू गृहीत्वेत्यर्थ: ।। 2.65.29 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चषष्टितम: सर्ग: ।। 65 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चषष्टितम:सर्ग: ।। 65 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.