71 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकसप्ततितम: सर्ग:

स प्राङ्मुखो राजगृहादभिनिर्याय राघव: ।

तत: सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ।। 2.71.1 ।।

ह्लादिनीं दूरपारां च प्रत्यक्स्त्रोतस्तरङ्गिणीम् ।

शतद्रूमतरच्छ्रीमान् नदीमिक्ष्वाकुनन्दन: ।। 2.71.2 ।।

स प्राङ्मुख इत्यादि । अत्र दूता ऋजुदुर्गमार्गेण त्वरितं गिरिव्रजमागता: । भरतस्तु चतुरङ्गबलयुक्ततया वक्रमपि महामार्गमाश्रित्य ययौ । अतो नदीपर्वतादिभेदकीर्त्तनमिति बोध्यम् । सुदामां सुदामाख्यां नदीम् । अवेक्ष्य तां सन्तीर्य दूरेपारं परतीरं यस्यास्तां दूरपाराम्, विशालामित्यर्थ: । ह्लादिनीं ह्लादिन्याख्यां नदीं सन्तीर्य शतद्रूं शतद्व्राख्यां प्रत्यक्स्रोतस्तरङ्गिणीं पश्चिमाभिमुखप्रवाहतरङ्गयुक्तां च नदीमतरम् ।। 2.71.12 ।।

एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् ।

शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्त्तनम् ।। 2.71.3 ।।

सत्यसन्ध: शुचि: श्रीमान् प्रेक्षमाण: शिलावहाम् ।

अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति ।। 2.71.4 ।।

एलाधान इति । एलानामेलकानाम् आधानमुत्पत्तिस्थानं तद्वत्त्वादेलाधानाख्ये नगरे । नदीं पूर्वोक्तां शतद्रूं तीर्त्वेत्यनुवाद: । अपरपर्पटान् पर्पटानामदूरभावो ग्राम: पर्पटा: । पर्पटा ओषधिविशेषा: । “अदूरभवश्च” इति प्राप्तस्याण: “वरणादिभ्यश्च” इति लुप् । लुपि युक्तवद्व्यक्तिवचनता । पूर्वपर्पटा: अपरपर्पटाश्चेति ग्रामद्वयमस्ति । तत्रापरपर्पटान् विश्रान्त्यर्थं प्राप्य शिलामाकुर्वतीं शिलामासमन्तात्कुर्वतीं शिलाकषर्णस्वभावाम् अत एव शिलावहामित्यन्वर्थसंज्ञां नदीं तीर्त्वा तस्या आग्नेय्यां दिशि भवमाग्नेयम् । शल्यं हृदयशल्यं दु:खं कर्त्तयति छेदयतीति शल्यकर्त्तनं नाम नगरं प्रेक्षमाण: सन् अत्ययात् । सत्यसन्ध: शुचिरित्याभ्यां तत्रत्यजनेभ्य ईतिवारणं प्रतिज्ञाय तथैव कृतवानित्युच्यते । (पाठभेद: । भीतिवारणं प्रतिज्ञाय) चैत्ररथं चैत्ररथतुल्यत्वात्तदाख्यं वनं प्रति उद्दिश्य महाशैलानत्ययात् तद्दर्शनकुतूहलेन महापर्वतानत्यगादित्यर्थ: ।। 2.71.34 ।।

सरस्वतीं च गङ्गां च युग्मेन प्रत्यपद्यत ।

उत्तरं वीरमत्स्यानां भारुण्डं प्राविशद्वनम् ।। 2.71.5 ।।

सरस्वतीमिति । सरस्वतीं तदाख्यां नदीम् । गङ्गां गङ्गाख्यां काञ्चिन्नदीं पश्चिमसमुद्रगामिनीं गङ्गास्रोतो भेदं वा । युग्मेन सङ्गमेन प्रत्यपद्यत ययौ । यद्वा युग्मेन द्वन्द्वतया पार्श्वद्वये प्रवहन्तीमिति शेष: । वीरमत्स्यानां वीरमत्स्याख्यदेशानाम् । उत्तरं भारुण्डं भारुण्डाख्यं वनं प्राविशत् ।। 2.71.5 ।।

वेगिनीं च कुलिङ्गाख्यां ह्लादिनीं पर्वतावृताम् ।

यमुनां प्राप्य सन्तीर्णो बलमाश्वासयत्तदा ।। 2.71.6 ।।

वेगिनीमिति । वेगिनीं वेगयुक्ताम् । ह्लादिनीं सन्तोषकारिणीम् । पर्वतैरावृतां कुलिङ्गाख्यां नदीं यमुनां प्राप्य सन्तीर्ण इत्यर्थ: । यमुनासमीपे सन्तीर्ण: अन्यत्रातिवेगत्वादन्यत्र पर्वतावृतत्वाच्चेति भाव: । आतपखिन्नं बलं

मध्याह्ने आश्वासयत् ।। 2.71.6 ।।

शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिन: ।

तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ।। 2.71.7 ।।

आश्वासनप्रकारमाह–शीतीकृत्येति । तत्र कुलिङ्गायमुनासम्भेदे । उत्तरत्र गन्तव्यदेशस्य निर्जलदेशत्वात्तत्र पानार्थमुदकमादाय च प्रायात् ।। 2.71.7 ।।

राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् ।

भद्रो भद्रेण यानेन मारुत: खमिवात्ययात् ।। 2.71.8 ।।

राजपुत्र इति । राजपुत्रत्वेन भद्र: मङ्गलाचारयुक्त: । अनभीक्ष्णोपसेवितम् अत्यन्तं जनैरनुपसेवितं महारण्यत्वादप्रहतमित्यर्थ: । महारण्यं दुर्गमं वनं भद्रेण भद्रगजरूपेण यानेन अरण्यसंचारनिपुणो भद्रजातीय: । मारुत: खमिवात्ययात् अतिवेगेनातिक्रान्तवान् । भूमौ हि मारुत: पर्वतादिना मन्दीभवति ।। 2.71.8 ।।

भागीरथीं दुष्प्रतरामंशुधाने महानदीम् ।

उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे ।। 2.71.9 ।।

भागीरथीमिति । अंशुधाने नगरे दुष्प्रतरां भागीरथीं विश्रुते तरणस्थलत्वेन प्रसिद्धे प्राग्वटे पुरे उपायात् आगच्छत् । तत्तरणार्थमिति शेष: ।। 2.71.9 ।।

स गङ्गां प्राग्वटे तीर्त्वा समायात् कुटिकोष्ठिकाम् ।

सबलस्तां स तीर्त्वाथ समायाद्धर्मवर्द्धनम् ।। 2.71.10 ।।

स इति । सबल: स भरत: प्राग्वटे तत्समीपे गङ्गां तीर्त्वा कुटिकोष्ठिकां नदीं समायात् । स: तां तीर्त्वा धर्मवर्द्धनं ग्रामं समायात् प्राप ।। 2.71.10 ।।

तोरणं दक्षिणार्द्धेन जम्बूप्रस्थमुपागमत् ।

वरूथं च ययौ रम्यं ग्रामं दशरथात्मज: ।। 2.71.11 ।।

तोरणमिति । तोरणं दक्षिणार्द्धेन तोरणग्रामस्य दक्षिणभागेन जम्बूप्रस्थं ग्रामम् उपागमत् । ततो वरूथाख्यं ग्रामं ययौ ।। 2.71.11 ।।

तत्र रम्ये वने वासं कृत्वा ऽसौ प्राङ्मुखो ययौ ।

उद्यानमुज्जिहानाया: प्रियका यत्र पादपा: ।। 2.71.12 ।।

तत्रेति । तत्र तत्समीपे रम्ये वने । वासं रात्रिवासं कृत्वा । प्रभाते प्राङ्मुख: सन् उज्जिहानाया: नगर्या: उद्यानं ययौ, यत्र उद्याने प्रियका: बन्धूका: कदम्बा वा सन्ति ।। 2.71.12 ।।

सालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिन: ।

अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ।। 2.71.13 ।।

सालानिति । सालान् वृक्षान् “अनोकह: कुट: साल:” इत्यमर: । पूर्वोक्तवनस्थान् प्रियकवृक्षान् । प्राप्य शीघ्रान् वाजिन: आस्थाय रथे बद्ध्वा वाहिनीमनुज्ञाप्य त्वरितो ययौ । उज्जिहानाया: परं स्वदेशत्वान्निर्भयं मन्दमागम्यत्तामिति सेनामनुज्ञाप्य स्वयं त्वरितो ययौ ।। 2.71.13 ।।

वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् ।

अन्यानदीश्च विविधा: पार्वतीयैस्तुरङ्गमै: ।। 2.71.14 ।।

हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्त्तत ।

ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ।। 2.71.15 ।।

वासमिति । सर्वतीर्थे ग्रामे वासम् एकरात्रिवासं कृत्वा । (पाठभेद: । सर्वतीर्थे सर्वतीर्थाख्ये ग्रामे) उत्तानिकाम् उन्नतजलत्वेन तदाख्याम् । अन्या: नदी: स्वल्पजला: पार्वतीयै: पर्वतदेशोत्पन्नै: तुरङ्गमै: रथाश्वै: तीर्त्वेत्यनुषङ्ग: । हस्तिपृष्ठवदुन्नतत्वात् हस्तिपृष्ठकाख्यं ग्राममासाद्य कुटिकां नदीमत्यवर्त्तत हस्तिपृष्ठकसमीपे कुटिकामतरदित्यर्थ: । लौहित्ये लोहितमृत्त्वाल्लौहित्यनाम्नि नगरे । कपीवतीं बहुकपिमत्त्वात्तन्नाम्नीं नदीम् । “अन्येषामपि दृश्यते” इति दीर्घ: ।। 2.71.1415 ।।

एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ।

[व्यापायाद्राघवस्तूर्णं तीर्त्वा शोणां महानदीम् ।]

कलिङ्गनगरे चापि प्राप्य सालवनं तदा ।

भरत: क्षिप्रमागच्छत् सुपरिश्रान्तवाहन: ।। 2.71.16 ।।

एकसाल इति । एकसाले एकसालादूरभवत्वादेकसालाख्ये ग्रामे । स्थाणुमतीं सन्ततजलप्रवाहेण स्थाणुभूतवृक्षत्वात् स्थाणुमतीं नाम नदीम् । निम्नप्रदेशत्वात् विनताख्ये नगरे बहुजलवत्त्वेन गोमत्याख्यां नदीं च ततार । भरत: सुपरिश्रान्तवाहन: सन् कलिङ्गनगरसमीपस्थं सालवनं सर्जकवनं प्राप्य विश्रमार्थं गत्वा ततस्तदा स्वल्पकाल एवागच्छत् ।। 2.71.16 ।।

वनं च समतीत्याशु शर्वर्य्यामरुणोदये ।

अयोध्यां मनुना राज्ञा निर्मितां संददर्श ह ।। 2.71.17 ।।

वनमिति । सालवनं च शर्वर्य्यामाशु समतीत्य अरुणोदये ऽयोध्यां संददर्श ।। 2.71.17 ।।

तां पुरीं पुरुषव्याघ्र: सप्तरात्रोषित: पथि ।

अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ।। 2.71.18 ।।

तामिति । पथिसप्तरात्रोषित: अष्टमदिवसे त्वरातिशयेन रात्रावपि गत्वा अरुणोदयसमये अयोध्यां ददर्श । दृष्ट्वा सारथिमब्रवीच्च ।। 2.71.18 ।।

एषा नातिप्रतीता मे पुण्यो़द्याना यशस्विनी ।

अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका ।। 2.71.19 ।।

यज्वभिर्गुणसम्पन्नैर्बाह्मणैर्वेदपारगै: ।

भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ।। 2.71.20 ।।

एषेत्यादिश्लोकद्वयमेकान्वयम् । पाण्डुमृत्तिका गोमयानुलेपनाद्याचरणाभावाच्छ्वेतमृत्तिका । एषायोध्या नातिप्रतीता मे दृश्यते नातिसन्तुष्टा दृश्यते । “सुप्सुपा” इति समास: । “प्रतीतो हृषिते ख्याते ज्ञाते प्रत्ययिते बुधे” इति वैजयन्ती । यज्वभि: विधिनेष्टवद्भि: । गुणसम्पन्नै: शमदमादिगुणसमृद्धै: । भूयिष्ठं भृशम् । ऋद्धै: धनिकै: ।। 2.71.1920 ।।

अयोध्यायां पुरा शब्द: श्रूयते तुमुलो महान् ।

समन्तान्नरनारीणां तमद्य न श्रृणोम्यहम् ।। 2.71.21 ।।

अयोध्यायामिति । श्रूयत इति वर्त्तमाननिर्देशस्स्मृतौ वर्त्तमानवद्भानात् । नरविशिष्टा नार्य्यो नरनार्य्यस्तासाम् ।। 2.71.21 ।।

उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरै: ।

समान्ताद्विप्रधावद्भि: प्रकाशन्ते ममान्यदा ।

तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभि: ।। 2.71.22 ।।

उद्यानानीतिसार्द्धश्लोकमेकं वाक्यम् । उद्यानानि सायाह्ने गतेत्विति शेष: । रात्रौ क्रीडित्वा उपरतै: प्रातर्विप्रधावद्भि: गृहं प्रतिगच्छद्भि: नरै: अन्यदा पूर्वं प्रकाशन्ते । अद्य त्वाहतानीति ।। 2.71.22 ।।

अरण्यभूतेव पुरी सारथे प्रतिभाति मे ।। 2.71.23 ।।

प्रकारान्तरमप्याह–अरण्येति ।। 2.71.23 ।।

नह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभि: ।

निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् ।। 2.71.24 ।।

नहीति । यानै: शिबिकादिभि: । निर्यान्त: नगरान्निर्गच्छन्त: अभियान्त: । प्रविशन्त: ।। 2.71.24 ।।

उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ।

जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति च ।। 2.71.25 ।।

उद्यानानीति । मत्तानि फलपल्लवमकरन्दास्वादेन मत्तशुककोकिलभ्रमरादियुक्तत्वान्मत्तानि प्रमुदितानि आलवालकरणदोहदसेचनादिना कन्दलितानि । रतिसंयोगेषु रत्यर्थसंयोगेषु । अत्यन्तगुणवन्ति विविधकुसुमलतागृहदीर्घिकाक्रीडापर्वतादिगुणयुक्तानि ।। 2.71.25 ।।

तान्येतान्यद्य पश्यामि निरानन्दानि सर्वश: ।

स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमै: ।। 2.71.26 ।।

अद्य त्वाह–तानीति । द्रुमैरुपलक्षितानि पश्यामीत्यन्वय: ।। 2.71.26 ।।

नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम् ।

संरक्तां मधुरां वाणीं कलं व्याहरतां बहु ।। 2.71.27 ।।

नेति । अ़द्यापि सूर्य्योदये ऽपि । मत्तानां स्वस्वाभीष्टफलभोजनेन मत्तानाम् । अत एव संरक्तां रागयुक्ताम् । मधुरां रमणीयाम् वाणीं कलं यथा भवति तथा व्याहरतां मृगपक्षिणाम् क्रीडामृगशुकसारिकाप्रभृतीनाम् शब्दो न श्रूयते ।। 2.71.27 ।।

चन्दनागरुसंपृक्तो धूपसंमूर्च्छितो ऽतुल: ।

प्रवाति पवन: श्रीमान् किंनु नाद्य यथापुरम् ।। 2.71.28 ।।

चन्दनागरुसंपृक्त: चन्दनागरुगन्धसंपृक्त: । धूपसंमूर्च्छित: धूपव्याप्त: । श्रीमान् रमणीय: ।। 2.71.28 ।।

भेरीमृदङ्गवीणानां कोणसङ्घट्टित: पुन: ।

किमद्य शब्दो विरत: सदा ऽदीनगति: पुरा ।। 2.71.29 ।।

भेरीति । कोणसङ्घट्टित: भेरीमृदङ्गवीणावादनसाधनभूतदण्डहस्ततलाङ्गुल्याद्याहतिजनित: । सदा अदीनगतिरिति पदच्छेद: । पुरा अदीनगति: शब्द: अद्य पुन: किमर्थं विरत: उपरत: ।। 2.71.29 ।।

अनिष्टानि च पापानि पश्यामि विविधानि च ।

निमित्तान्यमनोज्ञानि तेन सीदति मे मन: ।। 2.71.30 ।

अनिष्टानीति । अनिष्टानि अनिष्टसूचकानि । पापानि क्रूराणि “पापं स्यात् क्रूरपाप्मनो:” इति वैजयन्ती । अमनोज्ञानि दर्शनमात्रेण दु:खकराणि । निमित्तानि अशुभसूचकानि शिवावाशितादीनि ।। 2.71.30 ।।

सर्वथा कुशलं सूत दुर्लभं मम बन्धुषु ।

तथा ह्यसति सम्मोहे हृदयं सीदतीव मे ।। 2.71.31 ।।

सर्वथेति । संमोहे संमोहकारणे ।। 2.71.31 ।।

विषण्ण: श्रान्तहृदयस्त्रस्तस्स लुलितेन्द्रिय: ।

भरत: प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।। 2.71.32 ।।

विषण्ण: दु:खित: । श्रान्तहृदय: कलुषितमनस्क: । लुलितेन्द्रिय: क्षुभितबाह्येन्द्रिय: ।। 2.71.32 ।।

द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहन: ।

द्वास्स्थैरुत्थाय विजयं पृष्टस्तै: सहितो ययौ ।। 2.71.33 ।।

वैजयन्तेन वैजयन्ताख्येन द्वारेण नगरपश्चिमद्वारेण । अत्र रे इति गायत्र्यक्षरम् । पञ्चसहस्राणि श्लोकानां गतानि ।। 2.71.33 ।।

स त्वनेकाग्रहृदयो द्वास्स्थं प्रत्यर्च्य तं जनम् ।

सूतमश्वपते: क्लान्तमब्रवीत्तत्र राघव: ।। 2.71.34 ।।

स त्विति । अनेकाग्रहृदय: व्याकुलमना: । प्रत्यर्च्य सोपचारं निवर्त्त्य ।। 2.71.34 ।।

किमहं त्वरयानीत: कारणेन विना ऽनघ ।

अशुभाशङ्किहृदयं शीलं च पततीव मे ।। 2.71.35 ।।

किमिति । कारणेन विना आह्वानकारणोक्तिं विना । त्वरयानीत: द्रुतं वसिष्ठेनानीत: । अनघेति चिन्तासमर्थतोक्ति: ।। 2.71.35 ।।

श्रुता नो यादृशा: पूर्वं नृपतीनां विनाशने ।

आकारांस्तानहं सर्वानिह पश्यामि सारथे ।। 2.71.36 ।।

श्रुता इति । न: अस्माभि: आकारान् वक्ष्यमाणान् तान् तादृशान् । इह नगरे ।। 2.71.36 ।।

सम्मार्जनविहीनानि परुषाण्युपलक्षये ।

असंयतकवाटानि श्रीविहीनानि सर्वश: ।। 2.71.37 ।।

आकारानेव दर्शयति–संमार्जनविहीनानीत्यादिना । सम्मार्जनविहीनानि कानिचित्कुटुम्बिभवनानीति शेष: ।। 2.71.37 ।।

बलिकर्मविहीनानि धूपसम्मोदनेन च ।

अनाशितकुटुम्बानि प्रभाहीनजनानि च ।

अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ।। 2.71.38 ।।

बलिकर्मविहीनानीति । धूपसंमोदनेन धूमपरिमलेन विहीनानीत्यनुकर्ष: । अनाशितकुटुम्बानि अभोजितकुटुम्बानि । ण्यन्तप्रयोग: । भोजयितृ़णामपि दु:खाक्रान्ततया पाकयत्नाभावात् ।। 2.71.38 ।।

अपेतमाल्यशोभान्यप्यसंमृष्टाजिराणि च ।

देवागाराणि शून्यानि न चाभान्ति यथापुरम् ।। 2.71.39 ।।

अपेतेति । अपेता माल्यशोभा द्वारि बद्धपुष्पदामशोभा येभ्यस्तानि । शून्यानि पूजकपरिचारकादिरहितानि ।। 2.71.39 ।।

देवतार्चा: प्रविद्धाश्च यज्ञ गोष्ठ्यस्तथाविधा: ।

माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ।। 2.71.40 ।।

देवतार्चा इति । देवतार्चा: देवपूजा: । प्रविद्धा: लुप्ता: । “अर्चा पूजाप्रतिमयो:” इति वैजयन्ती । यज्ञगोष्ठ्य: यज्ञसभा: तथाविधा: प्रविद्धा इत्यर्थ: । पण्यानि क्रयपुष्पाणि ।। 2.71.40 ।।

दृश्यन्ते वणिजो ऽप्यद्य न यथापूर्वमत्र वै ।

ध्यानसंविग्नहृदया नष्टव्यापारयन्त्रिता: ।। 2.71.41 ।।

दृश्यन्त इति । ध्यानसंविग्नहृदया: ध्यानासक्तहृदया: । नष्टव्यापारयन्त्रिता: नष्टक्रयविक्रयादिव्यापारा: । यन्त्रिता: निरुद्धाश्च “यन्त्रि संकोचे” इति धातु: ।। 2.71.41 ।।

देवायतनचैत्येषु दीना: पक्षिगणास्तथा ।

मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् ।। 2.71.42 ।।

सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे ।। 2.71.43 ।।

देवायतनेति । स्त्रीपुंसेति निपातनात् समासान्तो ऽच्प्रत्यय: । समुदायसमुदायिनोर्भेदविवक्षया जनविशेषणत्वम् ।। 2.71.4243 ।।

इत्येवमुक्त्वा भरत: सूतं तं दीनमानस: ।

तान्यरिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ।। 2.71.44 ।।

इतीति । तान्यरिष्टानि प्रेक्ष्य तं सूतमित्येवमुक्त्वेत्यन्वय: ।। 2.71.44 ।।

तां शून्यश्रृङ्गाटकवेश्मरथ्यां रजोरुणद्वारकपाटयन्त्राम् ।

दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां दु:खेन सम्पूर्णतरो बभूव ।। 2.71.45 ।।

तामिति । शून्या: जनरहिता: । श्रृङ्गाटकवेश्मरथ्या: चतुष्पथगृहवीथयो यस्याम् । रजोरुणद्वारकपाटयन्त्रां रजोभि: अरुणानि मलिनानि द्वारस्थकपाटानां यन्त्राणि दारुबन्धादीनि यस्याम् । संमार्जनाद्यभावादिति भाव: ।। 2.71.45 ।।

बहूनि पश्यन् मनसो ऽप्रियाणि यान्यन्यदा नास्य पुरे बभूवु: ।

अवाक्छिरा दीनमना न हृष्ट: पितुर्महात्मा प्रविवेश वेश्म ।। 2.71.46 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकसप्ततितम: सर्ग: ।। 71 ।।

बहूनीति । अन्यदा पूर्वकाले । अस्य भरतस्य । यानि अप्रियाणि न बभूवु: तानि मनसो ऽप्रियाणि पश्यन् सन् । आवाक्शिरा अवनतशिरा: । न हृष्ट: अदृष्ट: महात्मा महाधैर्य: ।। 2.71.46 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकसप्ततितम: सर्ग: ।। 71 ।।

इति गोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकसप्ततितम: सर्ग: ।। 71 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.