72 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विसप्ततितम: सर्ग:

अपश्यंस्तु ततस्तत्र पितरं पितुरालये ।

जगाम भरतो द्रष्टुं मातरं मातुरालये ।। 2.72.1 ।।

अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।

उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम् ।। 2.72.2 ।।

स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् ।

भरत: प्रतिजग्राह जनन्याश्चरणौ शुभौ ।। 2.72.3 ।।

सा तं मूर्द्धन्युपाघ्राया परिष्वज्य यशस्विनम् ।

अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ।। 2.72.4 ।।

।। 2.72.14 ।।

अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्यकवेश्मन: ।

अपि नाध्वश्रम: शीघ्रं रथेनापततस्तव ।। 2.72.5 ।।

अद्येति । कतिचिदिति प्रश्ने । पृथङ्निपातो वा । च्युतस्य निर्गतस्य । आर्यक: मातामह: । अपि: प्रश्ने ।। 2.72.5 ।।

आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव ।

प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि ।। 2.72.6 ।।

एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनन्दन: ।

आचष्ट भरत: सर्वं मात्रे राजीवलोचन: ।। 2.72.7 ।।

आर्यक इति । आर्यक: सुकुशली किमिति शेष: । प्रवासात् इतो निर्गमादारभ्य अपि सुखमित्यनुषक्तापि नान्वय: । एतत्सर्वं मे वक्तुमर्हसीति योजना ।। 2.72.67 ।।

अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मन: ।

अम्बाया: कुशली तातो युधाजिन्मातुलश्च मे ।। 2.72.8 ।।

अद्येति अद्यरात्रि: अस्मादह्न: पूर्वरात्रि: सप्तमी । अत: सप्तरात्रोषित: पथीत्यनेन न विरोध: ।। 2.72.8 ।।

यन्मे धनं च रत्नं च ददौ राजा परंतप: ।

परिश्रान्तं पथ्यभवत् ततो ऽहं पूर्वमागत: ।। 2.72.9 ।।

राजवाक्यहरैर्दूतैस्त्वर्यमाणो ऽहमागत: ।

यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हति ।। 2.72.10 ।।

यदिति । राजा मातामह: । धनं प्रागुक्ताश्वादि यद्ददौ तत् परिश्रान्तं परिश्रान्तवाहनम् अत एव पथ्यभवत् ।। 2.72.910 ।।

शून्यो ऽयं शयनीयस्ते पर्यङ्को हेमभूषित: ।

न चायमिक्ष्वाकुजन: प्रहृष्ट: प्रतिभाति मा ।। 2.72.11 ।।

शून्य इति । शून्य: पितृशून्य: । शयनीय: शयनार्ह: । इक्ष्वाकुजन: दशरथजन: ।। 2.72.11 ।।

राजा भवति भूयिष्ठमिहाम्बाया निवेशने ।

तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागत: ।। 2.72.12 ।।

राजेति । भवतीत्यत्रेतिकरणं द्रष्टव्यम् । भूयिष्ठं प्राचुर्येण ।। 2.72.12 ।।

पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छत: ।

आहोस्विदम्ब ज्येष्ठाया: कौसल्याया निवेशने ।। 2.72.13 ।।

पितुरिति । कौसल्याया निवेशने भवति किमित्यनुषञ्जनीयम् ।। 2.72.13 ।।

तं प्रत्युवाच कैकेयी प्रियवद् घोरमप्रियम् ।

अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ।। 2.72.14 ।।

तमिति । अजानन्तं राजवृत्तान्तमजानन्तम् । प्रियवत् प्रियमिव । प्रजानन्ती अप्रियमुवाचेत्यन्वय: । तत्र हेतु: राज्यलोभेन मोहितेति ।। 2.72.14 ।।

या गति: सर्वभूतानां तां गतिं ते पिता गत: ।

राजा महात्मा तेजस्वी यावजूक: सतां गति: ।। 2.72.15 ।।

तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्छुचि: ।

पपात सहसा भूमौ पितृशोकबलार्दित: ।। 2.72.16 ।।

हा हतोस्मीति कृपणां दीनां वाचमुदीरयन् ।

निपपात महाबाहुर्बाहू विक्षिप्य वीर्यवान् ।। 2.72.17 ।।

अस्य दु:खमनुत्पादयन्ती मृदूक्त्या मरणमाह–येति । यायजूक: इज्याशील: । “इज्याशीलो यायजूक:” इति हलायुध: ।। 2.72.1517 ।।

तत: शोकेन संवीत: पितुर्मरणदु:खित: ।

विललाप महातेजा भ्रान्ताकुलितचेतन: ।। 2.72.18 ।।

तत इति । शोकेन संवीत: शोकेनावृत: । मरणदु:खित: मरणश्रवणेन सञ्जातदु:ख: । भ्रान्ता अनवस्थिता आकुलिता खिन्ना चेतना यस्य स:भ्रान्ताकुलितचेतन: ।। 2.72.18 ।।

एतत् सुरुचिरं भाति पितुर्मे शयनं पुरा ।

शशिनेवामलं रात्रौ गगनं तोयदात्यये ।। 2.72.19 ।।

विलापमेवाह–एतदित्यादिना ।। 2.72.19 ।।

तदिदं न विभात्यद्य विहीनं तेन धीमता ।

व्योमेव शशिना हीनमप्च्छुष्क इव सागर: ।। 2.72.20 ।।

तदिति । अप्च्छुष्क: शुष्काप: । आहिताग्न्यादित्वान्निष्ठाया: परनिपात: । उच्छुष्क इति पाठान्तरम् ।। 2.72.20 ।।

बाष्पमुत्सृज्य कण्ठेन स्वार्त्त: परमपीडित: ।

प्रच्छाद्य वदनं श्रीमद्वस्त्रेण जयतां वर: ।। 2.72.21 ।।

तमार्त्तं देवसङ्काशं समीक्ष्य पतितं भुवि ।

निकृत्तमिव सालस्य स्कन्धं परशुना वने ।। 2.72.22 ।।

मत्तमातङ्गसङ्काशं चन्द्रार्कसदृशं भुव: ।

उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् ।। 2.72.23 ।।

बाष्पमिति । कण्ठेन कण्ठस्वरेण । स्वार्त्त: सुतरामार्त्त:, अभवदिति शेष: । परमपीडित: मानसव्यथायुक्त: ।। 2.72.2123 ।।

उत्तिष्ठोत्तिष्ठ किं शेषे राजन्नत्र महायश: ।

त्वद्विधा नहि शोचन्ति सन्त: सदसि सम्मता: ।। 2.72.24 ।।

दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।

बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ।। 2.72.25 ।।

स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च ।

जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृत: ।। 2.72.26 ।।

उत्तिष्ठोत्तिष्ठेति । राजन्निति भरतशोकनिवर्त्तनार्थमित्युक्तवती । सदसि सम्मता: सभ्या इत्यर्थ: । दानयज्ञौ अधिक्रियेते अनयेति दानयज्ञाधिकारा । तत्र हेतु: शीलेति । शीलं सद्वृत्तं श्रुतिवचो वेदवाक्यं ते अनुगच्छतीति तदनुगा तदनुसारिणी बुद्धि: अध्यवसाय: । अर्कस्य प्रभा मन्दिर इव सूर्यप्रभा यथा स्वस्थाने निश्चला भवति तथा ते बुद्धिर्निश्चला भातीत्यर्थ: । मन्दर इति पाठे–अर्कस्य प्रभा मन्दर इवेत्युक्तिरत्युन्नतमन्दरपर्वते अर्कप्रभाया: पर्वतान्तरापेक्षया चिरकालावस्थानात् (पाठभेद: । मन्दर इति पाठे मन्दरशिखरे स्थितस्यार्कस्य प्रभेवाधिकप्रकाशवतीत्यर्थ: । उत्तरायणे हि मन्दरगतस्य सूर्यस्य प्रभाधिकं प्रकाशत इति प्रसिद्धम्) ।। 2.72.2426 ।।

अभिषेक्ष्यति राम नु राजा यज्ञं नु यक्ष्यते ।

इत्यहं कृतसङ्कल्पो हृष्टो यात्रामयासिषम् ।। 2.72.27 ।।

अभिषेक्ष्यतीति । यज्ञं यक्ष्यत इति यज्ञं करिष्यत इत्यर्थ: । यात्रामयासिषं यात्रामकार्षमित्यर्थ: ।। 2.72.27 ।।

तदिदं ह्यन्यथाभूतं व्यवदीर्णं मनो मम ।

पितरं यो न पश्यामि नित्यं प्रियहितेरतम् ।। 2.72.28 ।।

अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते ।

धन्या रामादय: सर्वे यै: पिता संस्कृत: स्वयम् ।। 2.72.29 ।।

न नूनं मां महाराज: प्राप्तं जानाति कीर्तिमान् ।

उपजिघ्रेद्धि मां मूर्ध्नि तात: सन्नम्य सत्वरम् ।। 2.72.30 ।।

तदिति । व्यवदीर्णं भिन्नम् ।। 2.72.2830 ।।

क्व स पाणि: सुखस्पर्शस्तातस्याक्लिष्टकर्मण: ।

येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ।। 2.72.31 ।।

यो मे भ्राता पिता बन्धुर्यस्य दासो ऽस्मि धीमत: ।

तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मण: ।। 2.72.32 ।।

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानत: ।

तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ।। 2.72.33 ।।

धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रत: ।

आर्य: किमब्रवीद्राजा पिता मे सत्यविक्रम: ।। 2.72.34 ।।

[गुरुरेक: प्रजानां तु पिता मे सत्यविक्रम: ।]

क्वेति । परिमार्जति परिमार्ष्टि । माम् आगतमिति शेष: । क्व स पाणि:, गत इति शेष: ।। 2.72.3134 ।।

पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मन: ।

इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ।। 2.72.35 ।।

पश्चिममिति । आत्मन: सन्देशं मद्विषयसन्देशम् ।। 2.72.35 ।।

रामेति राजा विलपन् हा सीते लक्ष्मणेति च ।

स महात्मा परं लोकं गतो गतिमतां वर: ।। 2.72.36 ।।

एवं पृष्टवन्तं भरतं प्रति त्वां राजा न स्मृतवान् किंतु राममेव स्मरन् स्वर्गमगादिति पितृविषयस्नेहनिवर्त्तनाभिप्रायेणोत्तरमाह–रामेत्यादिना ।। 2.72.36 ।।

इमां तु पश्चिमां वाचं व्याजहार पिता तव ।

कालधर्मपरिक्षिप्त: पाशैरिव महागज: ।। 2.72.37 ।।

सिद्धार्थास्ते नरा राममागतं सीतया सह ।

लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ।। 2.72.38 ।।

इमामित्यादिश्लोकद्वयमेकान्वयम् । सिद्धार्था: कृतार्था: । पुनरागतं द्रक्ष्यन्तीति इमां वाचं व्याजहारेति सम्बन्ध: ।। 2.72.3738 ।।

तच्छ्रुत्वा विषसादैव द्वितीयाप्रियशंसनात् ।

विषण्णवदनो भूत्वा भूय: पप्रच्छ मातरम् ।। 2.72.39 ।।

क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्द्धन: ।

लक्ष्मणेन सह भ्रात्रा सीतया च समं गत: ।। 2.72.40 ।।

तदिति । द्वितीयाप्रियशंसनात् राजमरणापेक्षया रामस्य देशान्तरगमनरूपाप्रियस्य द्वितीयत्वम् ।। 2.72.3940 ।।

तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे ।

मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया ।। 2.72.41 ।।

तथेति । यथातथमिति सम्यक्पाठ: । यथाचायमिति पाठे–अयं वृत्तान्त: यथा तथाख्यातुमित्यन्वय: । विप्रियं रामविवासनप्रतिपादकम् । प्रियशङ्कया एतच्छ्रवणेन भरतस्य प्रियं भविष्यतीति वितर्केण “शङ्कावितर्कभययो:” इति वैजयन्ती । युगपत् राजमरणकथनसमकालमेव । यद्वा युगपदाख्यातुमुपचक्रम इत्युपक्रमस्य वक्ष्यमाणपरत्वात् ‘याचितस्ते पिता राज्यं रामस्य च विवासनम्’ इति वक्ष्यमाणवाक्यार्थाभिप्रायेण यौगपद्यम् ।। 2.72.41 ।।

स हि राजसुत: पुत्र चीरवासा महावनम् ।

दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गत: ।। 2.72.42 ।।

स हीति । दण्डकान् महावनमिति ‘वेदा: प्रमाणम्’ इतिवन्निर्देश: ।। 2.72.42 ।।

तच्छ्रुत्वा भरतस्रस्तो भ्रातुश्चारित्रशङ्कया ।

स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ।। 2.72.43 ।।

तदिति । चारित्रशङ्कया चारित्रं किमभूदिति शङ्कया । वंशस्य माहात्म्यात् असदाचारवैमुख्यपूर्वकसदाचारनिरतत्वं वंशस्य माहात्म्यम् ।। 2.72.43 ।।

कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् ।

कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसित: ।। 2.72.44 ।।

कच्चिदिति । ब्राह्मणधनमित्यत्राविभक्तिको निर्देश: । कस्यचिद्ब्राह्मणस्येत्यर्थ: । यद्वा कस्यचित् कस्माच्चिद्धेतोरित्यर्थ: ।। 2.72.44 ।।

कच्चिन्न परदारान्वा राजपुत्रो ऽभिमन्यते ।

कस्मात्स दण्डकारण्ये भ्रूणहेव विवासित: ।। 2.72.45 ।।

कच्चिदिति । भ्रूण: श्रुताध्ययनसम्पन्न: “अनूचानो गुणैर्युक्तो व्रतस्वाध्यायवाञ्छुचि: । श्रूण इत्युच्यते सद्भिस्त्वेष यो विजितेन्द्रिय: ।।” इति स्मृते: ।। 2.72.45 ।।

अथास्य चपला माता तत् स्वकर्म यथातथम् ।

तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ।। 2.72.46 ।।

अथेति । यथातथं यथावृत्तम् । निपातनात्साधु: । स्त्रीस्वभावेन चापलेनेत्यर्थ: । व्याहर्तुमुपचक्रमे वक्तुं व्यवसितवतीत्यर्थ: । अथास्येति श्लोको मुने: खेदाभिनय: । एवमिति श्लोक: क्रमिक इति केचित् ।। 2.72.46 ।।

एवमुक्ता तु कैकेयी भरतेन महात्मना ।

उचाच वचनं हृटा मूढा पण्डितमानिनी ।। 2.72.47 ।।

एवमिति । अयं श्लोक: पूर्वानुवादार्थ: ।। 2.72.47 ।।

न ब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् ।

कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसित: ।

न राम: परदारांश्च चक्षुर्भ्यामपि पश्यति ।। 2.72.48 ।।

न ब्राह्मणेत्यादि । राम: परदारान् चक्षुर्भ्यामपि न पश्यति । एवं सति न स्पृशतीत्यत्र किं वक्तव्यमिति भाव: ।। 2.72.48 ।।

मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ।

याचितस्ते पिता राज्यं रामस्य च विवासनम् ।। 2.72.49 ।।

मयेति । ते राज्यं रामस्य विवासनं च पिता याचित: पूर्वदत्तवरद्वये विषयत्वेन याचित इत्यर्थ: ।। 2.72.49 ।।

स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् ।

रामश्च सहसौमित्रि: प्रेषित: सीतया सह ।। 2.72.50 ।।

स इति । स्ववृत्तिं स्वप्रतिज्ञारूपां वृत्तिम् ।। 2.72.50 ।।

तमपश्यन् प्रियं पुत्रं महीपालो महायशा: ।

पुत्रशोकपरिद्यून: पञ्चत्वमुपपेदिवान् ।। 2.72.51 ।।

तमिति । पुत्रशोकपरिद्यून: पुत्रशोकेन परिद्यून: तप्त: विलपन्नित्यर्थो ऽवा । “दिवो ऽविजिगीषायाम्” इति निष्ठानत्वम् ।। 2.72.51 ।।

त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् ।

त्वत्कृते हि मया सर्वमिदमेवं विधं कृतम् ।। 2.72.52 ।।

त्वयेति । धर्मज्ञ राजनीतिज्ञ ।। 2.72.52 ।।

मा शोकं मा च सन्तापं धैर्यमाश्रय पुत्रक ।

त्वदधीना हि नगरी राज्यं चैतदनामयम् ।। 2.72.53 ।।

मा शोकमिति । अनामयं निरुपद्रवम् ।। 2.72.53 ।।

तत्पुत्र शीघ्रं विधिना विधिज्ञैर्वसिष्ठमुख्यै: सहितो द्विजेन्द्रै: ।

सङ्काल्य राजानमदीनसत्त्वमात्मानमुर्व्यामभिषेचयस्व ।। 2.72.54 ।।

तदिति । सङ्काल्य संस्कृत्य ।। 2.72.54 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विसप्ततितम: सर्ग: ।। 72 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विसप्ततितम: सर्ग: ।। 72 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.