74 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतु:सप्ततितम: सर्ग:

तां तथा गर्हयित्वा तु मातरं भरतस्तदा ।

रोषेण महताविष्ट: पुनरेवाब्रवीद्वच: ।। 2.74.1 ।।

एवं सामान्यतो मृदुतया निन्दित्वा पुनस्तदपराधस्मरणेन प्रवृद्धरोष: क्रूरं निन्दति–तामित्यादिना । तथा मृदुतया ।। 2.74.1 ।।

राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि ।

परित्यक्ता च धर्मेण मा मृतं रुदती भव ।। 2.74.2 ।।

भ्रंशस्व भ्रष्टा भव । त्वन्मातृवत्त्वमपि वनं प्रविशेत्यर्थ: । मा मृतं रुदती भव प्राणहानिकरकार्यकरणान्मां मृतं मत्वा रोदनं कुर्वित्यर्थ: । यद्वा मृतं भर्त्तारमुद्दिश्य रुदती च मा भव, पतिभार्याभावस्य गतत्वादिति भाव: ।। 2.74.2 ।।

किं नु ते ऽदूषयद्राजा रामो वा भृशधार्मिक: ।

ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ।। 2.74.3 ।।

किमिति । ते किंन्वदूषयत् तव सम्बन्धि किंनु गुणचारित्रादिकमदूषयत् । तुल्यं युगपत् ।। 2.74.3 ।।

भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् ।

कैकेयि नरकं गच्छ मा च भर्त्तु: सलोकताम् ।। 2.74.4 ।।

श्रूणहत्यां श्रूणहत्यातुल्यपापम् । सलोकतां समानलोकत्वम् ।। 2.74.4 ।।

यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा ।

सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ।। 2.74.5 ।।

यदिति । घोरेण कर्मणा घोरेण व्यवसायेन । ईदृशं रामविवासनभर्तृमरणरूपम् । यत्पापं कृतं तेन सर्वलोकप्रियं रामं त्यक्त्वा स्थितस्य ममापि भयमापादितम्, त्वत्कृतं पापं ममापि भयमजनयत् नतु राज्यमिति भाव: ।। 2.74.5 ।।

त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रित: ।

अयशो जीवलोके च त्वयाहं प्रतिपादित: ।। 2.74.6 ।।

त्वत्कृत इति । अयश: मातृमुखेन ज्येष्ठं विवास्य राजानं नाशितवानित्येवं विधम् । प्रतिपादित: प्रापित: ।। 2.74.6 ।।

मातृरूपे ममामित्रे नृशंसे राज्यकामुके ।

न ते ऽहमभिभाष्यो ऽस्मि दुर्वृत्ते पतिघातिनि ।। 2.74.7 ।।

मातृरूप इति । राज्यकामुक इति अमैथुनेच्छातो न ङीप् । न ते ऽहमभिभाष्य इति “कृत्यानां कर्तरि वा” इति षष्ठी । मत्सम्भाषणं त्वया न कर्तव्यमित्यर्थ: ।। 2.74.7 ।।

कौसल्या च सुमित्रा च याश्चान्या मम मातर: ।

दु:खेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् ।। 2.74.8 ।।

कौसल्येति । याश्चान्या इत्यत्र ता इत्यध्याहार: ।। 2.74.8 ।।

न त्वमश्वपते: कन्या धर्मराज्यस्य धीमत: ।

राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितु: ।। 2.74.9 ।।

नेति । न त्वमश्वपते: कन्या तत्कुलोचितकन्या न भवसीत्यर्थ: । धर्मराजस्य धर्मप्रधानराजस्य । तत्र केकयराजे ।। 2.74.9 ।।

यत्त्वया धार्मिको रामो नित्यं सत्यपरायण: ।

वनं प्रस्थापितो दु:खात् पिता च त्रिदिवं गत: ।। 2.74.10 ।।

उक्ते ऽर्थे हेतुमाह–यदित्यादिना ।। 2.74.10 ।।

यत्प्रधानासि तत्पापं मयि पित्रा विना कृते ।

भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ।। 2.74.11 ।।

यत्प्रधानेति । यत् प्रधानं यस्या: सा यत्प्रधाना । यत्पापकर्मप्रधानासि त्वम् । तत् पापं तत्कर्मजनितं पापम् । पित्रा विना कृते भ्रातृभ्यां परित्यक्ते मयि संक्रान्तमिति शेष: । संक्रान्तकार्यं विशेषणद्वयेन दर्शितम् । अप्रिये इति संबुद्धि: ।। 2.74.11 ।।

कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये ।

कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनि ।। 2.74.12 ।।

कौसल्यामिति । वियुक्तां गुणवत्पुत्रवियुक्तां कृत्वा निरयगामिनि त्वं कं लोकं प्राप्स्यसे, निरयं विना कं लोकं प्राप्स्यस इत्यर्थ: । कं लोकं कं नरकम् । निरयगामिनीति सिद्धवत्कारात् । किमिति क्षेपोक्त्या पूर्वसृष्टा अपर्याप्ता इत्युच्यते । विशेषणद्वयं सम्बोधनम् ।। 2.74.12 ।।

किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् ।

ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम् ।। 2.74.13 ।।

किमिति । बन्धुसंश्रयं बन्धूनामाश्रयभूतम् । कौसल्याया आत्मसम्भवमित्यत्र कौसल्यायात्मसम्भवमित्यार्ष: सन्धि: । यद्वा पृषोदरादित्वेन आकारलोप: । “गूढोत्मा न प्रकाशते” इतिवत् । तेन सम्यक्सन्धि: । नियतं किं नावबुध्यसे । प्राकृतवत् बन्धुविघातकमवगतासीति भाव: ।। 2.74.13 ।।

अङ्गप्रत्यङ्गज: पुत्रो हृदयाच्चापि जायते ।

तस्मात्प्रियतमो मातु: प्रियत्वान्न तु बान्धव: ।। 2.74.14 ।।

औरसपुत्रविश्लेषो मातुरसह्य इति दर्शयितुमङ्गादङ्गादिति श्रुत्यर्थं हृदि निधायाह–अङ्गेति । अङ्गानि मुखकण्ठवक्ष:कुक्षिहस्तपादा: । प्रत्यङ्गानि नेत्रनासाङ्गुल्यादीनि तज्ज: तत्तेजोज: “अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि” इति श्रुतावपि वीप्सयाङ्गप्रत्यङ्गग्रह: । अङ्गप्रत्यङ्गजत्वं च सर्वाङ्गतेजस्सम्भूतत्वम् “यदेतद्रेतस्तदेतत्सर्वेभ्योङ्गेभ्यस्तेज: सम्भूतम्” इति श्रुते: । स्त्रियास्तु शोणितमेव रेत: । हृदयात् हृदयपुण्डरीकात् । प्रत्यगात्मस्थानाच्च जायते तस्मात्पुत्रो मातु: प्रियतमो भवति । बान्धवो भ्रात्रादि: न प्रियतम: किन्तु प्रिय एव । एवमतिशयप्रियत्वात्पुत्रस्य तद्वियोगादिदु:खं दुस्सहमिति भाव: । सुरभिर्बन्धुमात्रे दु:खितवती किंपुन: पुत्रे कौसल्येति सूचयति न तु बान्धव इति ।। 2.74.14 ।।

अन्यदा किल धर्मज्ञा सुरभि: सुरसम्मता ।

वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ ।। 2.74.15 ।।

पुत्रशोको मातुर्दुस्सह इत्यत्रेतिहासं प्रमाणयति–अन्यदेत्यादिना । अन्यदा पूर्वकाले । किलेत्यैतिह्ये, तथा वदन्ति किलेत्यर्थ: । धर्मज्ञा कर्षणकालधर्मज्ञा: । सुरभि: कामधेनु: सुरसम्मता देवपूजिता । वहमानौ हलमिति शेष: । विगतचेतसौ मूर्च्छितावित्यर्थ: । पुत्रौ साक्षात्पुत्रौ किञ्चिन्निमित्तवशात् भूमिङ्गतौ । यद्वा पुत्रौ स्ववंश्यत्वेन पुत्रव्यपदेश्यौ ।। 2.74.15 ।।

तावर्द्धदिवसे श्रान्तौ पुत्रौ दृष्ट्वा महीतले ।

रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ।। 2.74.16 ।।

ताविति । अर्द्धदिवसे दिवसस्यार्धे, मध्याह्न इत्यर्थ: । अर्द्धदिवसमिति पाठे– “कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । सर्वथा एकदेशिसमास: । मध्याह्नपर्यन्तमित्यर्थ: ।। 2.74.16 ।।

अधस्ताद्व्रजतस्तस्या: सुरराज्ञो महात्मन: ।

बिन्दव: पतिता गात्रे सूक्ष्मा: सुरभिगन्धिन: ।। 2.74.17 ।।

अधस्तादिति । सुरराज्ञ: सुरराजस्य । समासान्तविधेरनित्यत्वाट्टजभाव: ।। 2.74.17 ।।

इन्द्रोप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् ।

सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वर: ।। 2.74.18 ।।

इन्द्रोपीति । इन्द्रोपि स्वगात्रे पुण्यगन्धिनं रम्यगन्धम् अश्रुनिपातम् अश्रुपातं दृष्ट्वा तां सुरभिं भूयसीं श्रेष्ठाम् अमन्यत ।। 2.74.18 ।।

निरीक्षमाण: शक्रस्तां ददर्श सुरभिं स्थिताम् ।

आकाशे विष्ठितां दीनां रुदन्तीं भृशदु:खिताम् ।। 2.74.19 ।।

तां दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम् ।

इन्द्र: प्राञ्जलि रुद्विग्न: सुरराजो ऽब्रवीद्वच: ।। 2.74.20 ।।

निरीक्षमाण इति । निरीक्षमाण: उपरिनिरीक्षमाण: ।। 2.74.1920 ।।

भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् ।

कुतो निमित्त: शोकस्ते ब्रूहि सर्वहितैषिणि ।। 2.74.21 ।।

एवमुक्ता तु सुरभि: सुरराजेन धीमता ।

प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदम् ।। 2.74.22 ।।

भयमिति । अस्मासु सुरेषु मध्ये । कुतश्चिदपि भूतात् महद्भयं न विद्यते कच्चित् । प्रायश: त्वदश्रुमोचनस्य भयसूचकत्वादिति भाव: । कुतो निमित्त इत्यत्र आद्यादित्वात् प्रथमान्तविहिततसि तस्य कुत:शब्दस्वय निमित्तशब्देन समानाधिकरणेन बहुव्रीहि: । किंनिमित्तक इत्यर्थ: । यद्वा “सार्वविभक्तिकस्तसि:” इत्यनुशासनात् अत्र प्रथमार्थे तसिल्प्रत्यय: ।। 2.74.2122 ।।

शान्तं पापं न व: किञ्चित् कुतश्चिदमराधिप ।

अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ ।। 2.74.23 ।।

शान्तमिति । शान्तं पापं प्रतिहतममङ्गलमित्यादिकमनुचितप्रसङ्गश्रवणदोषनिवर्त्तकवचनविशेष: । व: युष्माकं मध्ये कुतश्चिदपि पुरुषात्किञ्चिद्भयं नास्ति । किन्तु मग्नौ दु:खमग्नौ । विषमे सङ्कटे स्थितौ स्वपुत्रौ प्रति शोचामि ।। 2.74.23 ।।

एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ ।

अर्द्यमानो बलीवर्दौ कर्षकेण सुराधिप ।। 2.74.24 ।।

एतौ दृष्ट्वेतिश्लोकस्य पूर्वश्लोकस्योतरार्द्धेनान्वय: ।। 2.74.24 ।।

मम कायात् प्रसूतौ हि दु:खितौ भारपीडितौ ।

यौ दृष्ट्वा परितप्ये ऽहं नास्ति पुत्रसम: प्रिय: ।। 2.74.25 ।।

पुत्रं विशेषयति–ममेति । यौ दृष्ट्वा अहं परितप्ये तौ मम कायात् प्रसूतौ । प्रसूतत्वं परम्परया, तस्मात्पुत्रसम: प्रियो नास्तीति योजना ।। 2.74.25 ।।

यस्या: पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत् ।

तां दृष्ट्वा रुदतीं शक्रो न सुतान्मन्यते परम् ।। 2.74.26 ।।

कविराह–यस्या इति । मन्यते अमन्यत ।। 2.74.26 ।।

सदाप्रतिमवृत्ताया लोकधारणकाम्यया ।

श्रीमत्या गुणनित्याया: स्वभावपरिवेषया ।। 2.74.27 ।।

यस्या: पुत्रसहस्राणि सापि शोचति कामधुक् ।

किं पुनर्या विना रामं कौसल्या वर्त्तयिष्यति ।। 2.74.28 ।।

भरतवचनम्, सदेत्यादिश्लोकद्वयमेकं वाक्यम् । अप्रतिमं निस्तुलं वृत्तं चरित्रं यस्यास्तस्या: । श्रीमत्या: समृद्धिमत्या: । गुणनित्याया: नित्यगुणाया: यस्या: सुरभे: स्वभावपरिवेषया स्वभावेन स्त्रीपुंस्वभावेन मैथुनेन परिवेष आवृत्तिर्यस्यास्तादृश्या: । लोकधारणकाम्यया लोकधारणेच्छया पुत्रसहस्राणि सन्ति, सन्तानपरम्परया बहव: पुत्रा: सन्तीत्यर्थ: । सापि कामधुक् कामधेनु: यथेष्टसृष्टिक्षमा शोचति अशोचत् । या राममेकं विना वर्त्तयिष्यति सा हि शोचतीति किं पुन: ।। 2.74.2728 ।।

एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता ।

तस्मात्त्वं सततं दु:खं प्रेत्य चेह च लप्स्यसे ।। 2.74.29 ।।

एकपुत्रेत्यादि । विवत्सा पुत्रविरहिता । तस्मात् विवत्सात्वकरणात् । लप्स्यसे तत्फलत्वेन ।। 2.74.29 ।।

अहं ह्यपचितिं भ्रातु: पितुश्च सकलामिमाम् ।

वर्द्धनं यशसश्चापि करिष्यामि न संशय: ।। 2.74.30 ।।

अपचितिं पूजाम् “पूजा नमस्यापचिति:” इत्यमर: । भ्रातुरपचितिं राज्यप्रदानरूपाम् । पितुरिमां सकलामपचितिम् और्द्ध्वदैहिकात्मिकाम् ।। 2.74.30 ।।

आनाययित्वा तनयं कौसल्याया महाबलम् ।

स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ।। 2.74.31 ।।

भ्रातुरपचितिमाह–आनाययित्वेत्यादिना ।। 2.74.31 ।।

नह्यहं पापसङ्कल्पे पापे पापं त्वया कृतम् ।

शक्तो धारयितुं पौरैरश्रुकण्ठैर्निरीक्षित: ।। 2.74.32 ।।

नहीति । पापं रामविवासनरूपम् । धारयितुं सोढुम् । अश्रुकण्ठै: गद्गदकण्ठै: ।। 2.74.32 ।।

सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान् विश ।

रज्जुं बधान वा कण्ठे न हि ते ऽन्यत् परायणम् ।। 2.74.33 ।।

अस्य पापस्य मरणान्तिकप्रायश्चित्तं विना निवर्त्तकान्तरं नास्तीत्यभिप्रायेणाह–सेति । सा बुद्धिपूर्वकमहापापकारिणी । कण्ठे रज्जुं बधान बद्ध्वा म्रियस्वेत्यर्थ: । परायणं गति: ।। 2.74.33 ।।

अहमप्यवनिं प्राप्ते रामे सत्यपराक्रमे ।

कृतकृत्यो भविष्यामि विप्रवासितकल्मष: ।। 2.74.34 ।।

अहमिति । विप्रवासितकल्मष: अपनीतकिल्बिष: ।। 2.74.34 ।।

इति नाग इवारण्ये तोमराङ्कुशचोदित: ।

पपात भुवि संक्रुद्धो नि:श्वसन्निव पन्नग: ।। 2.74.35 ।।

इतीति । इति संक्रुद्ध: । पन्नग इव नि:श्वसन् आरण्ये अरण्यगर्ते । तोमराङ्कुशचोदित: तोमरैरङ्कुशैश्च विद्धो नाग इव भुवि पपात । भरत इति शेष: ।। 2.74.35 ।।

संरक्तनेत्र: शिथिलाम्बरस्तथा विधूतसर्वाभरण: परंतप: ।

बभूव भूमौ पतितो नृपात्मज: शचीपते: केतुरिवोत्सवक्षये ।। 2.74.36 ।।

संरक्तनेत्र इति । शचीपते: केतु: इन्द्रध्वज: । उत्सवक्षये उत्सवान्ते ।। 2.74.36 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतु:सप्ततितम: सर्ग: ।। 74 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतु:सप्ततितम: सर्ग: ।। 74 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.