90 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग:

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: ।

बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ।। 2.90.1 ।।

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: ।

वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ।। 2.90.2 ।।

भरद्वाजाश्रममित्यादिश्लोकद्वयमेकान्वयम् । क्रोशादेव क्रोशात् पूर्वमेव, क्रोशमात्रव्यवहितदेश इत्यर्थ: । न्यस्तशस्त्रपरिच्छद: परिच्छद: आभरणादिकं भृङ्गाराद्युपकरणजातं च । वसानो वाससी क्षौमे भरद्वाजसेवार्थमुष्णीषकञ्चुकादिकमपहाय परिधानमुत्तरीयं च धृत्वा गत इत्यर्थ: । ननु पूर्वं जटाचीराणि धारयन्नित्युक्तं जटिलं चीरवसनमिति च वक्ष्यति, कथमत्र क्षौमवासस्त्वमुच्यते ? नैष दोष:, पूर्वं प्रतिज्ञामात्रं कृतम्, भरद्वाजाश्रमात्परं जटाधारणमिति । पुरोधाय पुरस्कृत्य ।। 2.90.12 ।।

तत: सन्दर्शने तस्य भरद्वाजस्य राघव: ।

मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ।। 2.90.3 ।।

तत इति । सन्दर्शने दूराद्दर्शने । राघव: रघुवंशवृत्ताभिज्ञ: । अनुपुरोहितं पुरोहितस्य पश्चात् । अनो: पश्चादर्थे ऽव्ययीभाव: ।। 2.90.3 ।।

वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: ।

सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ।। 2.90.4 ।।

वसिष्ठमिति । सञ्चचाल उदतिष्ठत् । अर्ध्यम्, आनयतेति शेष: ।। 2.90.4 ।।

समागम्य वसिष्ठेन भरतेनाभिवादित: ।

अबुध्यत महातेजा: सुतं दशरथस्य तम् ।। 2.90.5 ।।

समागम्येति । सवयस्कत्वान्नमस्काराभाव: । अबुध्यतेति वसिष्ठसाहचर्य्यादिति भाव: ।। 2.90.5 ।।

ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।

आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ।। 2.90.6 ।।

ताभ्यामिति । आनुपूर्व्यात् प्रधानक्रमात् धर्मज्ञ: पूजाक्रमधर्म्मज्ञ: । कुले गृहे ।। 2.90.6 ।।

अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।

जानन् दशरथं वृत्तं न राजानमुदाहरत् ।। 2.90.7 ।।

अयोध्यायामिति । वृत्तम् अतीतम्, मृतमिति यावत् । नोदाहरत् तत्प्रसङ्गमेव न कृतवान् ।। 2.90.7 ।।

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।

शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ।। 2.90.8 ।।

तपोधनानां शरीराग्न्यादे: तपस्साधनत्वात् मृगपक्ष्यादीनामाश्रमवासित्वेन शिष्यवत् प्रीतिविषयत्वाच्च तद्विषय: प्रश्न: कृत इत्याह–वसिष्ठ इत्यादिना ।। 2.90.8 ।।

तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: ।

भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ।। 2.90.9 ।।

तथेति तत्प्रतिज्ञाय सर्वत्र तत्पृष्टमनामयमङ्गीकृत्य । राघवस्नेहबन्धनात् राधवविषये स्नेहानुबन्धनात् । नतु भरते दोषदर्शनात् ।। 2.90.9 ।।

किमिहागमने कार्य्यं तव राज्यं प्रशासत: ।

एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ।। 2.90.10 ।।

किमिति । न शुद्ध्यते शुद्धिं न प्राप्नोति, न विश्वसितीति यावत् ।। 2.90.10 ।।

सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।

भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ।। 2.90.11 ।।

नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: ।

वनवासी भवेतीह समा: किल चतुर्दश ।। 2.90.12 ।।

कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।

अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ।। 2.90.13 ।।

सुषुव इत्यादिश्लोकत्रयमेकान्वयम् । नन्दवर्द्धनम् आनन्दवर्द्धनम् । चिरं प्रव्राजित: चिरकालमुद्दिश्य प्रव्राजित: । य: एतादृश: तस्य रामस्य राज्यमकण्टकं भोक्तुमना: अपापस्य तस्यानुजस्य च पापं कर्त्तुं नेच्छसि कच्चिदिति सम्बन्ध: ।। 2.90.1113 ।।

एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह ।

पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ।। 2.90.14 ।।

एवमिति । पर्य्यश्रुनयन: परिस्रुताश्रुनयन: । संसज्जमानया स्खलन्त्या ।। 2.90.14 ।।

हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।

मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।। 2.90.15 ।।

हत इति । हतो ऽस्मि व्यर्थजन्मास्मि । भगवानपि भूतभविष्यद्वर्तमानज्ञो ऽपीत्यर्थ: । मत्त: मत्सकाशात् । मयि दोषं नाशङ्के नोत्प्रेक्षे मत्कृतो दोषो नास्तीति सन्देहोपि मे नास्तीत्यर्थ: । अभावादिति भाव: । अतो मामेवं नानुशाधि एवं कर्णारुन्तुदं वक्तुं नार्हसि ।। 2.90.15 ।।

न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।

नाहमेतेन तुष्टश्च न तद्वचनमाददे ।। 2.90.16 ।।

मातृकृतं त्वत्कृतमेवेत्याशङ्क्याह–नेति । मदन्तरे मदसन्निधौ । नाददे नाङ्गीकृतवानस्मि ।। 2.90.16 ।।

अहं तु तं नरव्याघ्रमुपयात: प्रसादक: ।

प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ।। 2.90.17 ।।

अहमिति । प्रसादक: प्रसादयितुम् । “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति ण्वुल् ।। 2.90.17 ।।

त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।

शंस मे भगवन् राम: क्व सम्प्रति महीपति: ।। 2.90.18 ।।

त्वमिति । एवंगतं एवं बुद्ध्वा प्राप्तं महीपति:, वर्त्तत इति शेष: ।। 2.90.18 ।।

वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: ।

उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ।। 2.90.19 ।।

वसिष्ठादिभिरिति । याचित: भरताय प्रसन्नो भवेति प्रार्थित: । प्रसादादुवाच प्रसादं प्राप्योवाच । ल्यब्लोपे पञ्चमी ।। 2.90.19 ।।

त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।

गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।। 2.90.20 ।।

त्वयीति । गुरुवृत्ति: ज्येष्ठानुवर्त्तनम् । दम इन्द्रियनिग्रह:, राज्यालोलत्वमिति यावत् । साधूनां चानुयायिता सच्चित्तानुवर्त्तनम् । इत्येतत्त्रयं त्वयि युक्तमित्यन्वय: ।। 2.90.20 ।।

जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति ।

अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ।। 2.90.21 ।।

जान इति । जाने योगप्रभावेनेति शेष: । दृढीकरणमस्त्वित्यपृच्छं स्थूणानिखननन्यायेन दृढीकर्तुमपृच्छमित्यर्थ: । कीर्तिं रामविषयसौभ्रात्रजनितां समभिवर्द्धयन् । “लक्षणहेत्वा: क्रियाया:” इति हेत्वर्थे शतृप्रत्यय: ।। 2.90.21 ।।

जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।

असौ वसति ते भ्राता चित्रकूटे महागिरौ ।। 2.90.22 ।।

जान इति । रामं जाने देशविशेषे स्थितं रामं जान इत्यर्थ: ।। 2.90.22 ।।

श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: ।

एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ।। 2.90.23 ।।

श्व इति । काममभीष्टं कामार्थकोविद काङ्क्षितार्थप्रदानदक्षेत्यर्थ: ।। 2.90.23 ।।

ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: ।

चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ।। 2.90.24 ।।

तत इति । प्रतीतरूप: प्रसिद्धकीर्ति: । “रूपं यशस्याभिरूप्ये वर्णे चैव निरूपणे” इति निघण्टु: । यद्वा प्रतीतरूप: प्रकर्षेण हृष्ट: । प्रशंसायां रूपप् । चकार बुद्धिं चेति नह्युक्तिरन्या बुद्धिरन्येति भाव: ।। 2.90.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग: ।। 90 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने नवतितमस्सर्ग: ।। 90 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.