92 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग:

ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: ।

कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ।। 2.92.1 ।।

तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।

हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ।। 2.92.2 ।।

तत इत्यादि । व्युष्य विशेषेणोषित्वा । सपरिच्छद: सपरिवार: । “परिवार: परिकर: परिष्कन्द: परिग्रह: । तथोपकरणं प्रोक्तं परिबर्ह: परिच्छद: ।।” इति हलायुध: कामात् रामप्राप्तीच्छया ।। 2.92.12 ।।

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।

समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ।। 2.92.3 ।।

कच्चिदिति । अस्मद्विषये अस्मदाश्रमे । रात्रि: सुखा गता कच्चिदित्यन्वय: । आतिथ्ये विषये । समग्र: संपूर्ण:, तृप्त इति यावत् । अनघेत्यनेन पूर्वं भरताशयपरीक्षणार्थमेवातिथ्यकरणमिति द्योतितम्, रामविषयभक्त्यभावे भोगप्रवण: स्यादिति हृदयम् ।। 2.92.3 ।।

तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।

आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ।। 2.92.4 ।।

तमिति । अभिनिष्क्रान्तमित्यनेन कौसल्यादिसर्वजनदर्शनार्थं भरतागमनकाल एव बहिर्निर्गतवानृषिरिति व्यञ्जितम् ।। 2.92.4 ।।

सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: ।

तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ।। 2.92.5 ।।

सुखेति । बलवत्तर्पित: अतीव तर्पित: “किमुतातीवबलवत् स्वति सुष्ठु च निर्भरे” इति वैजयन्ती ।। 2.92.5 ।।

अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: ।

अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ।। 2.92.6 ।।

अपेतेति । क्लमो ग्लानि: । सन्तापो देहौष्ण्यम् । अपिप्रेष्यानुपादाय प्रेष्यानप्यारभ्य । सुभिक्षा: समृद्धान्नपाना: । सुप्रतिश्रया: शोभनस्थाना:, शोभनगृहा इति यावत् । “स्थाने गोष्ठ्यां सत्रयागे प्रत्याहारे प्रतिश्रय:” इति वैजयन्ती ।। 2.92.6 ।।

आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।

समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।। 2.92.7 ।।

कामं यथेष्टम् । “कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ।” इत्यमर: । हे भगवन् त्वामामन्त्रये आपृच्छे । भ्रातु: समीपं कामं प्रस्थितं मां त्वं मैत्रेण मित्रसम्बन्धिना चक्षुषा ईक्षस्व ।। 2.92.7 ।।

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: ।

आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ।। 2.92.8 ।।

आश्रममिति । धर्मेण योगजधर्मेण जानातीति धर्मज्ञ योगप्रभावविदितसर्ववृत्तान्तेत्यर्थ: । धार्मिकस्य पितृवचनपरिपालनरूपं धर्ममाचरत: महात्मन: महाधैर्यस्य तस्य रामस्याश्रममाचक्ष्व । स चाश्रम: कियान् कियद्दूरत: तस्य मार्ग: क्रतम: इति पृच्छते मे मह्यं शंसेति योजना ।। 2.92.8 ।।

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।

प्रत्युवाच महातेजा भरद्वाजो महातपा: ।। 2.92.9 ।।

इतीति । महातपा: अतएव महातेजा:, सर्वज्ञानसमर्थ इत्यर्थ: । रामाश्रमप्रदेशाभिज्ञेषु गुहज्ञातिषु विद्यमानेषु मुनिं प्रति प्रश्नस्तस्य पूजार्थम् ।। 2.92.9 ।।

भरतार्द्धतृतीयेषु योजनेष्वजने वने ।

चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ।। 2.92.10 ।।

भरतेति । अर्द्धतृतीयेष्विति अर्द्धं तृतीयं येषां तेष्वर्द्धतृतीयेषु, सार्द्धयोजनद्वितय इत्यर्थ: । अतीतेष्विति शेष: । अजने मुनिव्यतिरिक्तग्राम्यजनरहिते वने । तत्र प्रसिद्धो गिरि:, वर्तत इति शेष: ।। 2.92.10 ।।

उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।

पुष्िपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ।। 2.92.11 ।।

उत्तरमिति । तस्य गिरेरुत्तरं पार्श्वमासाद्यस्थिता मन्दाकिनी नाम काचिन्नदी अस्तीति शेष: । द्रुमा: काननभिन्ना: ।। 2.92.11 ।।

अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: ।

तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ।। 2.92.12 ।।

अनन्तरमिति । तत्सरितो मन्दाकिन्या: अनन्तरं समीपे चित्रकूटस्थिष्ठति नतु व्यवहितपार्श्वे । तयो: सरिद्गिर्योर्मध्ये पर्णकुटी पर्णशाला कृता तत्र वसत: ध्रुवम्, योगप्रभावेन जानामीत्यर्थ: ।। 2.92.12 ।।

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।

गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।

वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।। 2.92.13 ।।

दक्षिणेनेति । अस्मादाश्रमात् दक्षिणेन मार्गेण किञ्चिद्दूरं गत्वा तत: सव्यदक्षिणं नैऋतदिग्भागो यथा भवति तथा वाहिनीं वाहयस्व, किञ्चिद्दूरं दक्षिण एको मार्ग:, तत: शाखामार्गेण नैऋतदिग्भागगामिना गन्तव्यमिति भाव: । कान्तारमार्गस्य सूक्ष्मत्वाद्यथायोग्यं मार्गस्य वामतो दक्षिणतश्च विरलप्रदेशे वाहिनीं प्रापयस्वेत्यर्थ इत्यप्याहु: ।। 2.92.13 ।।

प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: ।

हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ।। 2.92.14 ।।

प्रयाणमिति । इति उक्तप्रकारेण । तत्प्रयाणं प्रस्थानं श्रुत्वा राजराजस्य महाराजस्य दशरथस्य योषित: कौसल्याद्या: यानार्हा: यानत्यागानर्हा अपि यानानि त्यक्त्वा ब्राह्मणं ब्रह्मविदं भरद्वाजं पर्यवारयन्, वन्दनायेति शेष: ।। 2.92.14 ।।

वेपमाना कृशा दीना सह देव्या सुमित्रया ।

कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ।। 2.92.15 ।।

वेपमानेति । वेपमाना वार्द्धकादृषिदर्शनाच्च । कृशा दीना, रामविरहादिति शेष: ।। 2.92.15 ।।

असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।

कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ।। 2.92.16 ।।

असमृद्धेन अपूर्णेन, फलापर्य्यवसायिनेति यावत् । कामेन मनोरथेन उपलक्षितेति शेष: । लोकस्य गर्हिता लोकेन गर्हिता । सव्यपत्रपा सलज्जा । रामविवासनहेतुत्वात् ।। 2.92.16 ।।

तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।

अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।। 2.92.17 ।।

लज्जावशादेव कौसल्यादिभि: सह मुने: पुरत: स्थातुमशक्ता प्रदक्षिणव्याजेन भरतं गतेत्याह–तमित्यादिना । दीनमना: कैकेयी ।। 2.92.17 ।।

तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: ।

विशेषं ज्ञातुमिच्छामि मातृ़णां तव राघव ।। 2.92.18 ।।

तत इति । दृढव्रत इत्यनेन सर्वज्ञत्वं लक्ष्यते, सर्वज्ञोपि कैकेयीशिक्षार्थं पप्रच्छेत्यर्थ: । विशेषं संज्ञासंज्ञिसम्बन्धादिविशेषम् । इतिकरणमध्याहृत्य इति पप्रच्छेत्यन्वय: ।। 2.92.18 ।।

एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: ।

उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ।। 2.92.19 ।।

एवमिति । धार्मिक: सत्यवादीत्यर्थ: । वचनकोविद: वचने पण्डित:, भरद्वाजवचनतात्पर्य्यज्ञ इत्यर्थ: । भरतमुखेन मातृ़णां स्वभावविशेषप्रतिपादनं हि मुनेराशय: ।। 2.92.19 ।।

यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।

पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।। 2.92.20 ।।

एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।

कौसल्या सुषुवे रामं धातारमदितिर्यथा ।। 2.92.21 ।।

यामिति । शोकानशनकर्शितां शोकानशनाभ्यां कर्शिताम् । देवतामिव धर्मदेवतामिव । सिंहविक्रान्तगामिनं सिंहवद्विक्रान्तं विक्रमयुक्तं यथा भवति तथा गामिनं गमनशीलम् । धातारं विष्णुम् । “एष धाता विधाता च” इति वक्ष्यमाणत्वात् । सर्वगुणसम्पन्ना राममाता एषा कौसल्येत्यर्थ: ।। 2.92.2021 ।।

अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: ।

[इयं सुमित्रा दु:खार्ता देवी राज्ञश्च मध्यमा ।]

कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ।। 2.92.22 ।।

अस्या इति । वामभुजं श्लिष्टा कौसल्याया वेपमानाङ्गत्वात्तद्धारणार्थं तद्वामभुजमवधृत्य स्थितेत्यर्थ: । दुर्मना: दु:खितमना: । दुर्मनस्त्वे दृष्टान्त: कर्णिकारस्येति । शीर्णपुष्पाम्लानपुष्पा ।। 2.92.22 ।।

एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ ।

उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ।। 2.92.23 ।।

एतस्या इत्यत्र उक्तगुणसम्पन्नयोर्लक्ष्मणशत्रुघ्नयोर्मातेयमिति बोध्यम् । देववर्णिनौ अश्विनीदेवतुल्यौ ।। 2.92.23 ।।

यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ ।

राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ।। 2.92.24 ।।

क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।

ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ।। 2.92.25 ।।

ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।

यतो मूलं हि पश्यामि व्यसनं महदात्मन: ।। 2.92.26 ।।

यस्या इति । जीवनाशं राक्षसभूयिष्ठं दण्डकारण्यं प्रति विवासनात् जीवस्य जीवनस्य नाशम् हत: । इह वने । क्रुध्यतीति क्रोधना । कर्त्तरिल्युट् । अकृतप्रज्ञाम् अशिक्षितबुद्धिम् । सुभगमानिनीं सुभगां सुन्दरीमात्मानं मन्यत इति सुभगमानिनी ताम् । वस्तुतो ऽनार्याम् आर्यरूपिणीमार्यवद्भासमानाम् । यतोमूलं यत्कारणकम् । आत्मनो मम ।। 2.92.2426 ।।

इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।

स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ।। 2.92.27 ।।

इतीति । बाष्पगद्गदया रामविवासनस्मरणजबाष्पेण गद्गदया स्खलन्त्या गिरा इत्युक्त्वा । नाग: सर्प: ।। 2.92.27 ।।

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।

प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ।। 2.92.28 ।।

भरद्वाज इति । तथा ब्रुवन्तमित्यन्वय: । महाबुद्धि: भाविज्ञ: । अर्थवत् प्रयोजनवत् ।। 2.92.28 ।।

न दोषेणावगन्तव्या कैकेयी भरत त्वया ।

रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ।। 2.92.29 ।।

देवानां दानवानां च ऋषीणां भावितात्मनाम् ।

हितमेव भविष्यद्धि रामप्रव्राजनादिह ।। 2.92.30 ।।

नेति । दोषेण दोषवत्तया नावगन्तव्या, तस्या: देवप्रेरितत्वादित्यभिप्राय: । तत्र हेतुमाह रामेति । सुखोदर्कं सुखोत्तरम् । अतीतानागतवर्त्तमानज्ञो महर्षिर्भाविरावणवधादिकं हृदि निधाय देवादीनां सुखोदर्कं भविष्यतीत्युक्तवान् ।। 2.92.2930 ।।

अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् ।

आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ।। 2.92.31 ।।

अभिवाद्येति । संसिद्ध: लब्धाशीर्वाद: । आमन्त्र्य आपृच्छय । युज्यतां गमनाय सन्नह्यतामिति स्वसैन्यमचोदयत् ।। 2.92.31 ।।

ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।

अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ।। 2.92.32 ।।

तत इति । वाजिरथान् वाजिनो रथांश्च । युक्त्वा संनह्य । युक्तानिति पाठे सज्जीकृतान् । प्रयाणार्थी प्रयाणकाङ्क्षी ।। 2.92.32 ।।

गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: ।

जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ।। 2.92.33 ।।

गजकन्या: करेणव: । हेमकक्ष्या: हेममयबन्धनरज्जव: । सघोषा: घण्टाघोषयुक्ता: । पताकिन इत्यत्र “पुमान् स्त्रिया” इत्येकशेष: ।। 2.92.33 ।।

विविधान्यपि यानानि महान्ति च लघूनि च ।

प्रययु: सुमहार्हाणि पादैरेव पदातय: ।। 2.92.34 ।।

विविधानीति । प्रययुरित्यत्र सादिन आरुह्येति शेष: । यद्वा यानातीति तत्स्था लक्ष्यन्ते । पदातय: पादैरेव ययु: यानै: समं ययुरिति भाव: ।। 2.92.34 ।।

अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: ।

रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ।। 2.92.35 ।।

अथेति । यानप्रवेकैर्यानोत्तमै: । “प्रवेकानुत्तमोत्तमा:” इत्यमर: ।। 2.92.35 ।।

चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।

आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ।। 2.92.36 ।।

चन्द्रार्केति । चन्द्रार्कतरुणाभासां तरुणचन्द्रार्ककान्तिम् । नियुक्तां वसिष्ठादिभिराज्ञप्ताम् । सपरिच्छद: सपरिवार: ।। 2.92.36 ।।

सा प्रयाता महासेना गजवाजिरथाकुला ।

दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ।। 2.92.37 ।।

वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: ।

गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ।। 2.92.38 ।।

सेत्यादिश्लोकद्वयमेकं वाक्यम् । गङ्गाया: दक्षिणवाहिन्या: । परवेलायां पश्चिमभागे स्थितेति शेष: । महासेना वनानि व्यतिक्रम्य गिरिषु नदीषु च विश्रम्येति शेष: । उत्थितो मेघ इव दक्षिणां दिशमावृत्य प्रयातेति सम्बन्ध: । यद्वा महासेना गिरिषु नदीषु च वनानि व्यतिक्रम्येति वा अन्वय: ।। 2.92.3738 ।।

सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।

महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ।। 2.92.39 ।।

सेति । तत्र तदेत्यर्थ: ।। 2.92.39 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग: ।। 92 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विनवतितम: सर्ग: ।। 92 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.