93 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग:

तया महत्या यायिन्या ध्वजिन्या वनवासिन: ।

अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ।। 2.93.1 ।।

तयेत्यादि । यायिन्या गच्छन्त्या । अर्दिता: पीडिता: । यूथपा: गजादियूथनाथा: । “यूथनाथस्तु यूथप:” इत्यमर: ।। 2.93.1 ।।

ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: ।

दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ।। 2.93.2।।

ऋक्षा इति । पृषतसङ्घा: बिन्दुमन्मृगसङ्घा: । ऋक्षा: भल्लूका: । रुरवो बिन्दुरहिता: स्थूलकाया: विकटश्रृङ्गा मृगा: । दृश्यन्ते अदृश्यन्त । वनराजीष्वित्यादिना अपूर्वमनुष्यादिदर्शनेन स्तब्धेक्षणा: स्थिता इत्युच्यन्ते ।। 2.93.2 ।।

स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: ।

वृतो महत्या नादिन्या सेनया चतुरङ्गया ।। 2.93.3 ।।

स इति । नादिन्या रथघोषहेषितबृंहितादिभिरिति शेष: ।। 2.93.3 ।।

सागरौघनिभा सेना भरतस्य महात्मन: ।

महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ।। 2.93.4 ।।

सागरौघेति । द्यामाकाशम् ।। 2.93.4 ।।

तुरङ्गौघैरवतता वारणैश्च महाजवै: ।

अनालक्ष्याचिरं कालं तस्मिन् काले बभूव भू: ।। 2.93.5 ।।

तुरङ्गौघैरिति । अवतता निरन्तरा । तस्मिन् काले गमनकाले । चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ।। 2.93.5 ।।

स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: ।

उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ।। 2.93.6 ।।

स इति । मन्त्रिणां मन्त्रविदाम् । यद्वा औचित्यान्मन्त्रशब्द: कार्य्यविचारे वर्त्तते ।। 2.93.6 ।।

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।

व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ।। 2.93.7 ।।

यादृशमिति । अस्य देशस्य यादृशं रूपं लक्ष्यते । मन्दाकिनी । चित्रकूटमध्यवर्त्तित्वरूपं मया च यथा येन प्रकारेण श्रुतं भरद्वाजात् तथा दृश्यत इति शेष: ।। 2.93.7 ।।

अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।

एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ।। 2.93.8 ।।

तदेवाह–अयमित्यादिना । अयं पुरोवर्त्ती गिरिश्चित्रकूटो भवति तथेयं मन्दाकिनी भवति । एतत् अनयोर्मध्यवर्त्ति वनं नीलमेघनिभं प्रकाशते ।। 2.93.8 ।।

गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।

वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ।। 2.93.9 ।।

अथ तद्देशप्राप्तिं दर्शयति–गिरे: सानूनीति । सानूनि एतानीति सिद्धम् । अवमृद्यन्ते भज्यन्ते ।। 2.93.9 ।।

मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु ।

नीला इवातपापाये तोयं तोयधरा घना: ।। 2.93.10 ।।

अथ रामनिवासत्वेन भोग्यताबुद्ध्या तद्वनं भ्रातरं प्रति वर्णयति–मुञ्चन्तीत्यादिना । एते वकुला इत्यर्थ: । आतपापाये घर्मान्ते, वर्षाकाल इति यावत् । तोयधरा इति नीलत्वे हेतु: ।। 2.93.10 ।।

किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।

मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ।। 2.93.11 ।।

किन्नरेति । किन्नराचरितं देशं किन्नराचरितदेशरूपं पर्वतम् ।। 2.93.11 ।।

एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: ।

वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ।। 2.93.12 ।।

एत इति । प्रचोदिता: सैनिकैरिति शेष: । प्रविद्धा प्रेरितेति यावत् ।। 2.93.12 ।।

कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।

मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ।। 2.93.13 ।।

कुर्वन्तीति । अमी भटा: मेघप्रकाशै: फलकै: केशबन्धविशेषै: वनसञ्चारार्थं कल्पितैरुपलक्षिता: सन्त: । दाक्षिणात्या नरा यथा दाक्षिणात्या नरा इव । शिरस्सु कुसुमापीडान् कुसुमशेखरान् कुर्वन्ति । “आपीडशेखरोत्तंसावतंसा: शिरसि स्रज: ।” इति हलायुध: । दाक्षिणात्या हि केशानुद्धृत्य बद्ध्वा कुसुमापीडैरलङ्कुर्वन्ति ।। 2.93.13 ।।

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।

अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ।। 2.93.14 ।।

निष्कूजमिति । घोरप्रदर्शनं क्रूरदर्शनमिदं वनं पुरा निष्कूजमिव भूत्वा निर्जनं भूत्वेति यावत् । सम्प्रति जनाकीर्णा अयोध्या सौम्यनगरीव मा मां प्रतिभाति ।। 2.93.14 ।।

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।

तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ।। 2.93.15 ।।

खुरैरिति । हयादिखुरैरुदीरित: उत्थापितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । वहति द्रुतमपनयति । कुर्वन्निव मम प्रियं रामाश्रमदर्शनप्रदानादिति भाव: । अनेनावगम्यते रामाश्रमवर्णनं तदधिष्ठितत्वेन प्रीतिहेतुत्वादिति ।। 2.93.15 ।।

स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।

एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ।। 2.93.16 ।।

वक्ष्यमाणत्रासहेतुत्वेनाह–स्यन्दनानिति । सूतमुख्यै: सारथिमुख्यै: । सम्पतत: रामदर्शनकुतूहलेन सम्यग्गच्छत: ।। 2.93.16 ।।

एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् ।

एतमाविशत: शीघ्रमधिवासं पतत्ित्रण: ।। 2.93.17 ।।

एतानिति । वित्रासितान् रथैरिति शेष: । बर्हिण: मयूरान् । एतं शैलम् । पतत्त्रिण: प्रशस्तपक्षानिति बर्हिविशेषणम् ।। 2.93.17 ।।

अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा ।

तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ।। 2.93.18 ।।

अतिमात्रमिति । अतिमात्रं मनोज्ञ इति सम्बन्ध: । अत एव स्वर्गपथो यथा स्वर्गप्रदेश इव । मा मां प्रतिभाति ।। 2.93.18 ।।

मृगा मृगीभि: सहिता बहव: पृषता वने ।

मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ।। 2.93.19 ।।

मृगा इति । पृषता: बिन्दुमृगा: ।। 2.93.19 ।।

साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने ।

यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ।। 2.93.20 ।।

भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: ।

विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ।। 2.93.21 ।।

साध्विति । साधुसैन्या: उचिता: सैनिका: । “साधु: स्त्रिषूचिते सौम्ये सज्ज्ने वार्द्धुषौ पुमान् ।” इति वैजयन्ती । प्रतिष्ठान्तां गच्छन्त्वित्यर्थ: । दृश्येते दृश्येयाताम् । लकारव्यत्यय आर्ष: ।। 2.93.2021 ।।

ते समालोक्य धूमाग्रमूचुर्भरतमागता: ।

नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ।। 2.93.22 ।।

त इति । धूमाग्रं धूमशिखाम् । अमनुष्ये मनुष्यरहिते देशे । अग्नि: धूमरेखाविशेषनिश्चित: न भवति । अत्र अत्रैव वह्निमत्प्रदेशे राघवौ स्त: । व्यक्तं ध्रुवम् ।। 2.93.22 ।।

अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।

मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ।। 2.93.23 ।।

अथेति । अथ यदि न स्त इत्यर्थ: । तपस्विन: सन्ति, ते प्रष्टव्या इति भाव: ।। 2.93.23 ।।

तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।

सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ।। 2.93.24 ।।

तदिति । साधुसम्मतं साधूनां न्यायविदां सम्मतम् । अमित्रबलमर्दन: अमोघशासन इति यावत् ।। 2.93.24 ।।

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: ।

अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ।। 2.93.25 ।।

एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: ।

भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ।। 2.93.26 ।।

यत्ता इति । यत्ता: निश्शब्दा: । इत: अस्माद्देशात् । परम् अग्रत: भवद्भिर्न गन्तव्यम् । अहमेव राजसु मन्त्रिषु सुमन्त्र एव ऋत्विक्षु गुरुर्वसिष्ठ एव । धृतिरिति पाठे–सुमन्त्र एवोच्यते ।। 2.93.2526 ।।

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: ।

बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ।। 2.93.27 ।।

व्यवस्थितेति । अग्रतो धूमं निरीक्षमाणापि च । अनेन रामदर्शनत्वरातिशय: सूच्यते । व्यवस्थित भरतेन व्यवस्थापितेत्यर्थ: । भरतेन हेतुना व्यवस्थिता वा । सा चमू: प्रियस्य रामस्य नचिरेण अचिरेण । समागमं जानतौ सती तदा व्यवस्थाकालेपि हृष्टा बभूव । जानकीप्रियस्येति च पाठ: ।। 2.93.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग: ।। 93 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिनवतितम: सर्ग: ।। 93 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.