95 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: ।

अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ।। 2.95.1 ।।

एवं वनगिरिप्रदर्शनेनोपलाल्य नदीप्रदर्शनेनापि लालयति–अथेत्यादिना ।। 2.95.1 ।।

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।

विदेहराजस्य सुतां रामो राजीवलोचन: ।। 2.95.2 ।।

अब्रवीदिति । वचने हेतु: तत्सौन्दर्यमित्याशयेनोक्तम्–वरारोहामित्यादि । वरारोहाम् आरुह्यत इति आरोहो जघनम्, गुरुजघनामित्यर्थ: । चारुचन्द्रनिभाननामित्यनेन रतिरमणनिदर्शितवनगिरिविलोकनकुतूहलविकसितवदनत्वमुक्तम् । राजीवलोचन: विस्मयोत्फुल्लनयन इत्यर्थ: ।। 2.95.2 ।।

विचित्रपुलिनां रम्यां हंससारससेविताम् ।

कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ।। 2.95.3 ।।

विचित्रेति । पुलिनस्य विचित्रत्वं नवोलपालङ्कृतत्वात् । सारसा: हंसविशेषा: । अत्र वस्तुना पृथुजघनकलनूपुरसुन्दरकरपदवदनवती भवतीव भातीत्यलङ्कारध्वनि: ।। 2.95.3 ।।

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: ।

राजन्तीं राजराजस्य नलिनीमिव सर्वत: ।। 2.95.4 ।।

नानेति । राजराजस्य कुबेरस्य । नलिनीं सौगन्धिकसरसीम् ।। 2.95.4 ।।

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।

तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ।। 2.95.5 ।।

मृगयूथेति । मृगयूथनिपीतानि अत एव कलुषाणि, रमणीयानि कुङ्कुमरसाभानि अम्भांसि येषु तानि तीर्थानि अवतारा: । रतिम् अवगाहनविषयां प्रीतिम् ।। 2.95.5 ।।

जटाजिनधरा: काले वल्कलोत्तरवासस: ।

ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ।। 2.95.6 ।।

जटेति । काले स्वनियमोचितकाले । अवगाहन्ते मज्जन्ति । प्रिये इत्यन्यत्र दृष्टिर्निवार्यते ।। 2.95.6 ।।

आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: ।

एते परे विशालाक्षि मुनय: संशितव्रता: ।। 2.95.7 ।।

आदित्यमिति । उपतिष्ठन्ते । “उपान्मन्त्रकरणे” इत्यात्मनेपदम् । नियमाद्धेतो: परे पूर्वोक्तमुनिभ्यो ऽन्ये । संशितव्रता: तीक्ष्णनियमा: ।। 2.95.7 ।।

मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: ।

पादपै: पत्त्रपुष्पाणि सृजद्भिरभितो नदीम् ।। 2.95.8 ।।

मारुतोद्धूतशिखरै: वायुकम्पितशाखै: । पुष्पाणि सृजद्भि: मुञ्जद्भि: पादपै: प्रनृत्त इव नृत्यङ्कर्त्तुमुद्युक्त इव । आदिकर्मणि क्त: । लोके हि नृत्तोद्युक्त: पुष्पाणि परिविकीर्य्य हस्तौ चालयति तद्वदित्युत्प्रेक्षा ।। 2.95.8 ।।

क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।

क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ।। 2.95.9 ।।

क्वचिदिति । मणिनिकाशोदां मुक्तामणिनिभजलाम् । उदकस्योदभाव आर्ष: । क्वचित्तीरे सिद्धजनेनावगाहनोद्युक्तेनावकीर्णाम् । एतेन श्वेतवसना पृथुजघना कामुकावृता नारी द्योत्यते ।। 2.95.9 ।।

निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।

पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ।। 2.95.10 ।।

निर्द्धूतानिति । वायुना निर्द्धूतान् विततान् तीरे व्याप्तान् पुष्पसञ्चयान् पश्य जलमध्यगान् पोप्लूयमानान् भृशं पुन:पुनर्वा प्लवमानान् अपरान् पुष्पसञ्चयांश्च त्वं पश्य । प्रियहृतार्धगलितवसना नारीव लक्ष्यत इति व्यङ्ग्यम् ।। 2.95.10 ।।

तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: ।

अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ।। 2.95.11 ।।

तानिति । वल्गुवचस: रत्यर्थाह्वानकालिकरम्यवचस: शुभा: गिर: विकूजन्त: रतिकालिकस्वरान् कुर्वन्त: । रथाङ्गाह्वयना: चक्राह्वया: द्विजाश्चक्रवाका: तान् पुष्पसञ्चयान् । अधिरोहन्ति शयनमारोहन्तीत्यर्थ: । अनेन चक्रवाकरतिर्दर्शिता ।। 2.95.11 ।।

दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।

अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ।। 2.95.12 ।।

दर्शनमिति । हे शोभने निर्मत्सरे चित्रकूटस्य दर्शनं पुरवासाधिकं चित्रकूटवास: पुरवासादप्यधिकसुखावह:, एकान्तभोगस्थानत्वादिति भाव: । मन्दाकिन्या दर्शनं तव दर्शनादप्यधिकसुखकरम्, उद्दीपनत्वादिति भाव: ।। 2.95.12 ।।

विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: ।

नित्यविक्षोभितजलां विगाहस्व मया सह ।। 2.95.13 ।।

विधूतकलुषैरिति । तपोदमशमान्वितै: अत एव विधूतकलुषै: निष्पापै: सिद्धै: सिद्धसाधननिष्ठै: । नित्यविक्षोभितजलां सदा तत्स्नानेन तत्पादरेणुधन्यां मन्दाकिनीं मया सह विगाहस्व मामप्रधानीकृत्य जलक्रीडारसमनुभवेत्यर्थ: । नित्यविक्षोभितजलामित्यनेन जलक्रीडोपकरणकुसुम्भादिसामग्री दर्शिता ।। 2.95.13 ।।

सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।

कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ।। 2.95.14 ।।

सखीवदिति । सख्या यथा सलिलमवगाहसे तथा मया सह विगाहस्व । कमलानि रक्ताब्जानि । पुष्कराणि सिताम्भोजानि । अवमज्जन्ती अवमज्जयन्ती स्तनजघनाघातजनिततरङ्गैरिति भाव: । यद्वा तव वदनकान्तिनिर्जिततया लज्जया अवमज्जयन्तीवेत्युत्प्रेक्षा ।। 2.95.14 ।।

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।

मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ।। 2.95.15 ।।

त्वमिति । त्वं व्यालान् वनचरजन्तून् पौरजनवत्पश्य, पौरजनप्रीतिं व्यालेषु कुर्वित्यर्थ: । एवमुत्तरत्रापि । अत: पौरजनाद्यनवलोकनक्लेशो न कार्य्य इति भाव: ।। 2.95.15 ।।

लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: ।

त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ।। 2.95.16 ।।

लक्ष्मण इति । सौभ्रात्रम् अनुकूलभार्य्यत्वं च सौख्यरसायनमिति भाव: । ।। 2.95.16 ।।

उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: ।

नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ।। 2.95.17 ।।

उपस्पृशन्निनि । हे वैदेहि त्वया सह त्रिषवणं त्रिसन्ध्यम् । उपस्पृशन् स्नानं कुर्वन् । मधुमूलफलाशनोहमयोध्यायै न स्पृहये राज्याय च न स्पृहये । “स्पृहेरीप्सित:” इति सम्प्रदानसंज्ञा ।। 2.95.17 ।।

इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: ।

सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ।। 2.95.18 ।।

इमामिति । इमां मन्दाकिनीम् । मृगयूथशालिनीम्, मृगयूथलोलितामिति च पाठ: । गजसिंहवानरै:, आश्रममहिम्ना शान्तवैरैरित्यर्थ: । निपीततोयामिति पापहरत्वमुक्तम् । पुष्पधरै: वृक्षै: अनेनोद्दीपनत्वमुक्तम् । उपस्पृशन्नित्यनुषज्यते । य: अगतक्लम: सुखी न स्यात् स नास्ति सर्वोप्यत्र स्नात्वा गतक्लमो भवतीत्यर्थ: ।। 2.95.18 ।।

इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् ।

चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ।। 2.95.19 ।।

इत्यार्षे श्रीरामायणे वाक्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ।। 95।।

इतीति । प्रियासहायो राम: सरितं प्रति सरिद्विषये सङ्गतं प्रसक्तानुप्रसक्तं बहुवचो ब्रुवन् सन् । नयनाञ्जनप्रभं नयनयोग्याञ्जनकान्तिम्, तद्वन्नित्यर्थः । चित्रकूटं चचार, चित्रकूटप्रान्ते चचारेत्यर्थः । एतेन पुनः पुरवासनिस्पृहत्वद्योतनाया रामस्य वनवासनिर्भरत्वमुक्तम् ।। 2.15.19।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ।। 95।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चनवतितमः सर्गः ।। 95।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.