श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विनवतितमःसर्गः
रामेणाश्वस्यक्षोणीप्रदक्षिणीकरणायलक्ष्मणप्रेरणपूर्वकमश्वमेधकरणारंभः ॥ १ ॥
तत्सर्वमखिलेनाशु संस्थाप्य भरताग्रजः ।
हयं लक्षणसंपन्नं कृष्णसारं मुमोच ह ॥ १ ॥
कृष्णसारं कृष्णप्रधानं । प्रायशः कृष्णवर्णमित्यर्थः । कृष्णशारमिति च पाठः ॥ १ ॥
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।
ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। २ ।।
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।
प्रहर्षमतुलं लेभे श्रीमानिति वचोऽब्रवीत् ॥ ३ ॥
अश्वतन्त्र इति । चतुश्शता रक्षन्ति यज्ञस्याघाताय तथा शतेन राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यङ् तिष्ठन् प्रोक्षति इति श्रुतेः । अश्वरक्षादिसंबन्धयज्ञप्रयोगनिर्वर्तनार्थमित्यर्थः ॥ २-३ ।।
नैमिशे वसतस्तस्य सर्व एव नराधिपाः ।
आनिन्युरूपहारांश्च तान्रामः प्रत्यपूजयत् ॥ ४ ॥
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥ ५ ॥
उपहारा: उपदाः ।। ४-५ ।।
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।
भरत: संददावाशु शत्रुघ्नसहितस्तदा ॥ ६ ॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ ७ ॥
विभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ ८ ॥
राजपूजामाह-अन्नेत्यादि । राजसत्कारे भरतशत्रुघ्ननियोगः सुग्रीवादीनां विप्रपरिवेषणे विभीषणस्य ब्रह्मर्षिसत्कारे नियोग इत्याह – भरत इत्यादि ।। ६-८ ॥
एवं सुविहितो यज्ञो हयमेघोऽभ्यवर्तत ।
लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तत ॥ ९ ॥
हयचर्या अश्वमेधयागानुष्ठानं ॥ ९ ॥
ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।
नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ॥ १० ॥
याचकाः यावत्तुष्यन्ति तावद्देहि देहीति शब्दादन्यः शब्दो नाभवत् ॥ १० ॥
छन्दतो देहि देहीति यावत्तुष्यन्ति याचकाः ।
तावत्सर्वाणि दत्तानि ऋतुमध्ये महात्मनः ।
विविधानि च गौडानि खाण्डवानि तथैव च ॥ ११ ॥
सर्वाणि दत्तानीत्यस्यैव प्रपञ्चनं-विविधानीत्यादि । गौडानि गुडविकाररूपाणि ॥ ११ ॥
न निस्सृतं भवत्योष्ठाद्वचनं यावदर्शिनाम् ।
तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥ १२ ॥
न कश्चिन्मलिनस्तत्र दीनो वाऽप्यथ कर्शितः ।
तसिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ १३ ॥
अर्थिनां मुखाद्देहीति वचनं यावन्न निस्सृतं, तावद्दत्तमेवाभ्यदृश्यत ॥ १२-१३ ॥
ये च तत्र महात्मानो मुनयश्चिरजीविनः ।
नास्मरंस्तादृशं यज्ञं नाप्यासीत्स कदाचन ॥ १४ ॥
यः कृत्यवान्सुवर्णेन सुवर्णं लभते म सः ।
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥ १५ ॥
रजतानां सुवर्णानामश्मनामथ वाससाम् ।
अनिशं दीयमानानां राशिः समुपदृश्यते ॥ १६ ॥
चिरजीविनो मुनयः तादृशं यज्ञं । इतः पूर्वं तादृशो नासीदित्याहुरिति शेषः ॥ १४-१६ ॥
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ १७ ॥
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।
वासोधनान्नमार्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ १८ ॥
उक्त एवार्थ आदरादभ्यस्यते -न शक्रस्येत्यादि ।। १७-१८ ॥
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।
संवत्सरमथो साग्रं वर्तते न च हीयते ॥ १९ ॥
संवत्सरं वर्तते न च हीयते । संवत्सरात्परमपीति शेषः । पुनः पुनरश्वमेधः प्रावर्ततेत्यर्थः ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विनवतितमःसर्गः॥ ९२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विनवतितमः सर्ग: ।। ९२ ।।