श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः
माल्यवदादिराक्षसपीडितैः सुरादिभीरुद्रसमीपमेत्य रक्षःपीडानिवेदनपूर्वकं तद्वधप्रार्थने तेनतान्प्रतितेषांस्वावध्यत्वकथनपूर्वकं श्रीनारायणशरणीकरणचोदना ।। १ ।। सुरादिभिः सप्रणामंप्रार्थितेनहरिणा तान्प्रति रक्षःक्षपणप्रतिज्ञानपूर्वकं तेषां स्वस्वालयान्प्रतिप्रेषणम् ।। २ ।। विदितनारायणप्रतिज्ञानेनमाल्यवता तत्प्रतिज्ञायादेवगणप्रार्थनामूलकत्वनिर्धारणेन भ्रातृभ्यां -रक्षोगणैश्चसह देवगणविध्वंसनायदेवलोकगमनेनतैः सहसमरारंभः ॥ ३ ॥ श्रीनारायणेन सुपर्णारोहणेनसुरलोकमेत्य रक्षोभिः सहयुद्धारंभः ॥ ४ ॥
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ।। १ ॥
जगत्सृष्टन्तकर्तारमजमव्यक्तरूपिणम् ।
आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ २ ॥
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥ ३ ॥
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।
मजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥ ४ ॥
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।
स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ॥ ५ ॥
अहं विष्णुरहं रुद्रो ब्रह्माऽहं देवराडहम् ।
अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ॥ ६ ॥
शरण्यानि शरणार्हाणि देवपित्रतिथिपशुपक्ष्यादि-रक्षणार्हाणि ।। ५-६ ।।
इति माली सुमाली च माल्यवांश्चैव राक्षसाः ॥
[ इति ते राक्षसा देवान्वरदानेन दर्पिता: ] ।
बाधन्ते समरोद्धर्षा ये च तेषां पुरस्सराः ॥ ७ ॥
समरे उद्धर्षो येषां ते समरोद्धर्षाः ॥ ७ ॥
तन्नो देव भयार्तानामभयं दातुमर्हसि ।
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ॥ ८ ॥
अशिवं असौम्यं क्रूरमित्यर्थः ॥ ८ ॥
इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।
सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥ ९ ॥
सुकेशं प्रति सापेक्ष इति । सुकेशस्य स्वाश्रितत्वात्तत्पुत्रवधानौचित्य इत्याशङ्क्येत्यर्थः ॥ ९ ॥
अहं तान्न हनिष्यामि मयाऽवध्या हि तेऽसुराः ।
किंतु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥ १० ॥
प्रथमं रुद्रसमीपगमनं कृतोयमनर्थ इति द्योतयितुमाह — अहमिति ॥ मन्त्रमुपायं ॥ १० ॥
एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।
गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥ ११ ॥
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ।
विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥ १२ ॥
एतमेव समुद्योगमिति । नतु कालान्तरीयमित्यर्थः । प्रभुर्ममापि प्रभुः ॥ ११-१२ ॥
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।
ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ १३ ॥
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः ।
आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ १४ ॥
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥ १५ ॥
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन ।
शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ १६ ॥
चक्रकृत्तास्यकमलान्निवेदय यमाय वै ।
भयेष्वभयदोस्माकं नान्योस्ति भवता विना ॥ १७ ॥
संभ्रान्तवत् संभ्रान्ताः सन्तः ।। १३-१७ ॥
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ।
नुद त्वं नो भयं देव नीहारमिव भास्करः ॥ १८ ॥
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।
अभयं भयदोऽरीणां दवा देवानुवाच ह ॥ १९ ॥
सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।
तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ २० ॥
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।
निहनिष्यामि संक्रुद्धः सुरा भवत विज्वराः ॥ २१ ।।
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।
यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ॥ २२ ॥
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः ।
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ २३ ॥
अमरा ऋषयश्चैव संगम्य किल शंकरम् ।
अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥ २४ ॥
सानुबन्धाः सानुचराः ॥ १८-२४ ॥
सुकेशतनया देव वरदानबलोद्धताः ।
बाधन्तेऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ॥ २५ ॥
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।
स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥ २६ ॥
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।
राक्षसान्हुंकृतेनैव दह प्रदहतां वर ॥ २७ ॥
पदे पदे प्रतिक्षणमित्यर्थः ॥ २५-२७ ॥
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।
शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ २८ ॥
शिरः करं च धुन्वान इति सुरोक्तस्यासह्यताद्योतनम् ॥ २८ ॥
अवध्या मम ते देवाः सुकेशतनया रणे ।
मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥ २९ ॥
योसा चक्रगदापाणिः पीतवासा जनार्दनः ।
हरिर्नारायणः श्रीमाञ्शरणं तं प्रपद्यथ ॥ ३० ॥
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।
नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥ ३१ ॥
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।
सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ॥ ३२ ॥
देवानां भयभीतानां हरिणा राक्षसर्षभौ ।
प्रतिज्ञातो वधोस्माकं चिन्त्यतां यदिह क्षमम् ॥ ३३ ॥
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।
नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ॥ ३४ ॥
राधेयो बहुमायी च लोकपालोथ धार्मिकः ।
यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥ ३५ ॥
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।
सर्वे समरमासाद्य न श्रूयन्तेऽपराजिताः ॥ ३६ ॥
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।
सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयंकराः ॥ ३७ ॥
नारायणेन निहताः शतशोथ सहस्रशः ।
एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥ ३८ ॥
अवध्यत्वे हेतुः सुकेशतनया इति ॥ २९-३८ ॥
[ दुःखं नारायणं जेतुं यो नो हन्तुमिहेच्छति ॥]
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।
ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥ ३९ ॥
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।
आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥ ४० ॥
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।
जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥ ४१ ॥
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।
अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ॥ ४२ ॥
भगांशाविव । भग: पूर्वफल्गुनीनक्षत्रदेवता । तदंशः अर्यमा उत्तरफल्गुनीनक्षत्रदेवता ॥ ३९-४२ ॥
विष्णोर्द्वेषस्य नास्त्येव कारणं राक्षसेश्वर ।
देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ ४३ ॥
विष्णोद्वेषस्य कारणं नास्तीति । अस्माभिस्तदपकाराकरणादिति भावः ॥ ४३ ॥
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।
देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ॥ ४४ ॥
[ इति माली सुमाली च माल्यवानग्रजः प्रभुः ॥ ]
एवं संमन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।। ४५ ।।
उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ।
युद्धाय निर्ययुः क्रुद्धा जृम्भवृत्रबला इव ।। ४६ ॥
इति ते राम संमन्त्र्य सर्वोद्योगेन राक्षसाः ।
युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ ४७ ॥
जिघांसाम इति स्वार्थे सन्नार्षः ॥ ४४-४७ ॥
स्यन्दनैवारणैश्चैव हयैश्च गिरिसन्निभैः ।
खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥ ४८ ॥
वाहनान्याह-स्यन्दनैरित्यादिमा ।। ४८ ।।
मकरैः कच्छपैर्मीनौर्विहङ्गैर्गरुडोपमैः ।
सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥ ४९ ॥
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ।
प्रयाता देवलोकाय योद्धं दैवतशत्रवः ॥ ५० ॥
सृमरैः गवयैः ॥ ४९-५० ॥
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।
भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥ ५१ ॥
लङ्काविपर्ययं लङ्काविनाशं । दृष्ट्वा यानि लङ्कानिलयानि भूतानि तत्रत्यानि दैवतानि विमनस्कान्यासन्निति शेषः ॥ ५१ ॥
रथोत्तमैरूह्यमानाः शतशोथ सहस्रशः ।
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।
रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥ ५२ ॥
रक्षसां मार्गेण तद्यात्रया सहैवापचक्रमुः ॥ ५२ ।।
भूतानि भयदर्शीनि विषमस्थानि सर्वशः ।
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ॥
उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ ५३ ॥
अस्थीनि मेघा ववृपुरुष्णं शोणितमेव च ।
वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥ ५४ ॥
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः ।
वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ ५५ ॥
संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।
[ भूम्यां परिपतन्ति स्म नृत्यमानाः सहस्रशः ॥ ]
गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ।। ५६ ।।
राक्षसानामुपरि खे भ्रमतेऽलातचक्रवत् ।
कपोता रक्तपादाश्च शारिका विद्रुता ययुः ।
काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥ ५७ ॥
कालाज्ञप्ताः कालप्रेरिताः ॥ ५३-५७ ॥
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।
यान्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः ॥ ५८ ॥
माल्यवांश्च सुमाली च माली च सुमहाबलाः ।
आसन्पुरस्सरास्तेषां क्रतूनामिव पावकाः ॥ ५९ ॥
मृत्युपाशावपाशिताः संजातबन्धनाः ।। ५८-५९ ।।
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।
निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥ ६० ।।
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।
जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ॥ ६१ ॥
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।
देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥ ६२ ॥
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ।
आसज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ ६३ ॥
आवध्य शरसंपूर्ण इषुधी विमले तदा ।
श्रोणिसूत्रं च सङ्गं च विमलं कमलेक्षणः ।
शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ॥ ६४ ॥
सुपर्णं गिरिसंकाशं वैनतेयमथास्थितः ।
राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ ६५ ॥
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः ।
काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥ ६६ ॥
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ॥
समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ॥ ६७ ॥
माल्यवन्तं पर्वतं ॥ ६०-६७ ॥
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।
चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥ ६८ ॥
नुन्नपक्षं क्षोभितबलं । चलोपलमिति बहुव्रीहिः ॥ ६८ ॥
ततः शरै: शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।
निशाचराः संपरिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥ ६९ ॥
विग्रहः आकारः ।। ६९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः ॥ ६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥