श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चदशः सर्गः
रावणेन कुबेरप्रेषितमाणिभद्रनामकयक्षेन्द्रपराजयः ॥ १ ॥ ततःकुबेरेण रावणंप्रतिगर्हण -पूर्वकं मारीचादिविद्रावणम् ॥ २ ॥ रावणेन मायायुद्धेनकुबेरपराभवनपूर्वकं तदीयपुष्पकाप -हरणेन कैलासादवतरणम् ॥ ३ ॥
ततस्ता लक्ष्य वित्रस्तान्यक्षेन्द्रांच सहस्रशः ।
धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ १ ॥
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।
शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ २ ॥
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।
वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ ३ ॥
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।
अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ४ ॥
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।
बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ५ ॥
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।
दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ ६ ॥
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।
महोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ ७ ॥
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।
निमेषान्तरमात्रेण द्वे सहस्त्रे निपातिते ॥ ८ ॥
क्व च यक्षार्जवं युद्धं क्व च मायावलाश्रयम् ।
रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ॥ ९ ॥
धूम्राक्षेण समागम्य माणिभद्रो महारणे ।
मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ।। १० ।।
ततो गदां समाविध्य माणिभद्रेण राक्षसः ।
धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ ११ ॥
धुम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।
अभ्यधावत संग्रामे माणिभद्रं दशाननः ॥ १२ ॥
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।
शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ १३ ॥
माणिचारः माणिभद्रः ॥ १-१३ ।।
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।
तस्य तेन प्रहारेण मुकुटं पार्श्वमागतम् ॥ १४ ॥
ताडितः शक्तिताडितः । रावणः माणिभद्रं गदया मुकुटे प्राहरत् । तच्च मुकुटं प्रहारात्पार्श्वमागतं ॥ १४ ॥
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।
तदाप्रभृति यक्षोसौ पार्श्वमौलिरिति स्मृतः ॥ १५ ॥
तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।
संनादः सुमहान्राजंस्तस्मिन् शैलेऽभ्यवर्तत ॥ १६ ॥
संयुध्यमानेन माणिभद्रेण विष्टब्धो निरुद्धः न व्यकम्पत ॥ १५-१६ ॥
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।
शुक्रप्रोष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ १७ ॥
शङ्खपद्मसमावृतः शङ्खपद्मनिध्यभिमानिदेवैः संवृतः । शुक्रप्रोष्ठपदाभ्यां च सह प्रददृशे । शुक्रप्रोष्ठपदौ मन्त्रिणौ ॥ १७ ॥
स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् ।
उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ १८ ॥
शापात् पितृकृतदारुणत्वशापात् । विभ्रष्टगौरवः वन्दनादिप्रयोजकज्येष्ठगौरवरहितः । युक्तमिति । पैतामहे कुले उत्पचेरिति शेषः ॥ १८ ॥
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।
पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ १९ ॥
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।
स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ २० ॥
यदिति ॥ अस्य फलं कुलाचारस्य फलं परिपाकं प्राप्य ।। १९-२० ।।
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।
येन त्वमीदृशं भावं नीतः सन्नावबुध्यते ॥ २१ ॥
मातरं पितरं यो हि आचार्यं चावमन्यते ।
स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ २२ ॥
धर्मयुक्तेन तव केनचिद्व्यापारेण त्वामिदानीं नाभिनन्दन्ति । धर्माभावात्त्वयि विमुखा भवन्तीत्यर्थः । येन देवतावैमुख्येन । त्वमीदृशं क्रूरं भावं नीतः सन्नावबुध्यसे ।। २१-२२ ।।
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।
स पश्चात्तप्यते मुढो मृतो दृष्ट्वाऽऽत्मनो गतिम् ॥ २३ ॥
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ष
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥ २४ ॥
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।
तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। २५ ।।
तपसः अर्जनं संपादनं ॥ २३-२५ ।।
कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।
[ दैवं चेष्टयते सर्वं हतो दैवेन हन्यति ॥ ]
यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ २६ ॥
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।
प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ २७ ॥
दुर्बुद्धेर्बुद्धिरहितस्य कस्यापि पुरुषस्य । छन्दतः पितृमात्रादिसेवां विना स्वेच्छामात्रेण । धीर्मतिः शुभमतिर्न हि जायते ॥ २६-२७ ।।
एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।
न त्वां समभिभाषिष्ये सद्वृत्तेष्वेष निर्णयः ॥ २८ ॥
एवं क्रूरकर्मा त्वं निरयगामी भविष्यसि । यस्य ते ईदृशी मतिः तादृशं त्वां न समभिभाषिष्ये । दुर्वृत्तस्य विषये एष एव हि निर्णय इत्यर्थः ॥ २८ ॥
एवमुक्तास्ततस्तेन तस्यामात्या: समाहताः ।
[ दृष्ट्वाऽथ धनदं राम राक्षसाः सुमहाबलाः ] ।
मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ २९ ॥
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।
गदयाऽभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥ ३० ॥
ततस्तौ राम निघ्नन्तौ तदाऽन्योन्यं महामृधे ।
न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ३१ ॥
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।
राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ ३२ ॥
रावणवद्यूयमप्यसंभाष्या इत्युक्ता इत्यर्थः । समाहता: धनदेन ताडिताः ।। २९-३२ ।।
ततो मायां प्रविष्टोसौ राक्षसीं राक्षसेश्वरः ।
रूपाणां शतसाहस्रं विनाशाय चकार च ॥ ३३ ॥
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।
यक्षो दैत्यस्वरूपी च सोदृश्यत दशाननः ॥ ३४ ॥
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ॥ ३५ ॥
प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।
जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् ॥ ३६ ॥
एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।
कृत्तमूल इवाशोको निपपात धनाधिपः ॥ ३७ ॥
ततः पद्मादिभिस्तत्र निधिभिः स तदावृतः ।
धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥ ३८ ॥
मायां प्रविष्टः अदृश्यत्वं प्राप्त इत्यर्थः । निधिभिर्देवताभिः । धनदोच्छ्वासित इति संधिरार्षः ।। ३३-३८ ॥
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।
पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ३९ ॥
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।
मुक्ताजालप्रतिच्छन्नं संर्वकामफलप्रदम् ॥ ४० ॥
मनोजवं कामगमं कामरूपं विहङ्गमम् ।
मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ४१ ॥
देवोपवाह्यमक्षय्यं सदा दृष्टिमनःसुखम् ।
बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥ ४२ ॥
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।
न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ४३ ॥
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।
जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥ ४४ ॥
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ४५ ॥
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।
रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथाऽनलः ॥ ४६ ॥
जयलक्षणं जयचिह्नं । ख्यापयन्तीति शेषः ॥ ३९-४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥