30 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिंशः सर्गः

इन्द्रजिद्बद्धेन्द्रमोचनायदेवगणप्रार्थितेनब्रह्मणा तैस्सहलङ्कामेत्य रावणंप्रतीन्द्रमोचन -चोदना ॥ १ ॥ तथेन्द्रजिते तदीप्सितावध्यस्ववरदानपूर्वकं तस्मादिन्द्रमोचनम् ॥ २ ॥ तथा बन्धनलज्जितमिन्द्रंप्रति तत्कृताहल्याधर्षणादिस्स्मारणपूर्वकं तस्यबन्धनहेतुत्वनिवेदनम् ॥ ३ ॥ इन्द्रेण ब्रह्मचोदनयायजनेन पुनरिन्द्रासनारोहणम् ॥ ४ ॥ एवमगस्त्येन रामंप्रतीन्द्रजित्पराक्रमा -दिकथनम् ॥ ५ ॥

जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै ।

[ प्रजापतिं सुराः सर्वे गताः परमदुःखिताः ॥ १ ॥

भगवन्पुरुहूतोऽयं निगृहीतोऽभवद्वरात् ।

राक्षसेन्द्रं सुरैः सर्वैरवध्यं कृतवानसि ॥ २ ॥

महेश्वरेण पुत्रस्य वरा दत्ता दुरात्मनः ।

किं करोतु सुरेन्द्रस्तं मायया बलवत्तरम् ॥ ३ ॥

सुराश्च सर्वे लोकेश न जयन्ति भवद्वरात् ।

तस्मात्त्वमेव देवेन्द्रं मोचयस्व महाद्युते ।

अद्यप्रभृति लोकेश स्वविक्रमबलोदितः ॥ ४ ॥

इति विज्ञाप्य भावज्ञाः प्रणिपत्य प्रसाद्य च ।

प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ॥ ५ ॥

तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् ।

अब्रवीद्गगने तिष्ठन्त्सामपूर्वं प्रजापतिः ॥ ६ ॥

वत्स रावण तुष्टोस्मि पुत्रस्य तव संयुगे ।

अहोस्य विक्रमौदार्यं तव तुल्योधिकोपि वा ॥ ७ ॥

अहोस्येति संधिरार्षः ॥ ७ ॥

 

जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।

कृता प्रतिज्ञा सफला प्रीतोस्मि स्वसुतेन वै ॥ ८ ॥

अयं च पुत्रोतिबलस्तव रावण वीर्यवान् ।

जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ ९ ॥

बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः ।

यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ॥ १० ॥

तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।

किं चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ।। ११ ।।

अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः ।

अमरत्वमहं देव वृणे यद्येष मुच्यते ॥ १२ ॥

चतुष्पदां खेचराणामन्येषां च महौजसाम् ।

वृक्षगुल्मक्षुपलता तृणोपलमहीभृताम् ॥ १३ ॥

सर्वेपि जन्तवोऽन्योन्यं भेतव्ये सति बिभ्यति ।

अतोत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ॥ १४ ॥

स्वसुतेन स्वसुतबलेन । त्वया कृता प्रतिज्ञा चतुरो दिक्पालान् जेष्यामीति कृता प्रतिज्ञा ॥ ८-१४ ॥

 

ततोऽब्रवीन्महातेजा मेघनादं प्रजापतिः ।

नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ।

चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ॥ १५ ॥

[ मरणान्तानि सर्वाणि स्थावराणि चराणि च ।

अपि शुष्कस्य वृक्षस्य पर्णस्य पतनं भवेत् ॥ १६ ॥ ]

तत इत्यादिसार्धमेकं वाक्यं ॥ सर्वामरत्वं सर्वस्मादपि निमित्तात्सर्वस्मिन्नपि काले मरणराहित्यं भुवि मत्सृष्टप्राणिनां नास्ति पक्ष्यादिभ्यो यन्मरणं ।। १५-१६ ।।

 

श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाऽव्ययम् ।

अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः ।

श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ १७ ॥

पूर्वोक्तविवरणमेतत् श्रूयतामिति । वा अथवेत्यर्थः । सर्वामरत्वाभावेपि शतक्रतुविमोक्षणे तन्निमित्तं मया सिद्धिः कांक्षिता सा श्रूयतां ।। १७ ।।

 

ममेष्टं नित्यशो हव्यैर्मन्त्रैः संपूज्य पावकम् ।

संग्राममवतर्तुं च शत्रुनिर्जयकाङ्क्षिणः ॥ १८ ॥

अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः ।

तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ॥ १९ ॥

नित्यशो नियमेन । हव्यैः पावकं संपूज्य शत्रुनिर्जयकाङ्क्षिणः संग्राममवतर्तुं प्रवेष्टुं वाञ्छतो ममाश्वयुक्तो रथो विभावसोरग्नेः तत्कालमुत्तिष्ठेत तत्स्थस्य मे संग्रामे अमरता स्यादेव एष मे निश्चयो वरः ॥ १८-१९ ॥

 

तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ ।

युध्येयं देव संग्रामे तदा मे स्वाद्विनाशनम् ॥ २० ॥

तस्मिन् सांग्रामिकयागे अपेक्षिते विभावसौ जप्यहोमे चासमाप्ते तु विघ्नवशादसमाप्ते तु यदि युध्येयं तदैव संग्राम एव विनाशनं भवत्विति ममेष्टमिति संबन्धः । प्रकारान्तरेण विनाशो माभूदित्यर्थः ।। २० ।।

 

सर्वो हि तपसा देव वृणोत्यमरतां पुमान् ।

विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ २१ ॥

एवमस्त्विति तं चाह वाक्यं देवः पितामहः ।

मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ॥ २२ ॥

मयात्रैतद्वरं लोकविलक्षणं प्राप्यत इति विस्मयते – सर्व इत्यादि । प्रवर्तितं प्रकीर्तितं । दातव्यत्वेनेति शेषः ॥ २१-२२ ।।

 

एतस्मिन्नन्तरे राम दीनो भ्रष्टामरद्युतिः ।

इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ २३ ॥

भ्रष्टामरद्युतिः भ्रष्टामराणां देवानां द्युतिर्यस्य स तथा ॥ २३ ।।

 

तं तु दृष्ट्वा तथाभूतं प्राह देव: प्रजापतिः ।

शतक्रतो किमु पुरा करोति स्म सुदुष्करम् ॥ २४ ॥

हे शतक्रतो एवमिदानीं शोचन्भवान् पुरा सुदुष्करं किमु करोति स्म । कस्मात्कृतवानसीत्यर्थः ॥ २४ ॥

 

अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तदा प्रभो ।

एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ॥ २५ ॥

एतादृशदुःखबीजं मया कृतमित्यत्राह – अमरेन्द्रेत्यादि । एकवर्णा: समाभाषा: एकरूपकान्तिस्वराः । एकरूपा: समानवयोवस्थकालाः ।। २५ ।।

 

तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा ।

ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् ॥ २६ ॥

दर्शने सौन्दर्ये लक्षणे नयनाद्यवयवसौष्ठवे च तासां विशेषो नासीत् । ततोहमिति । एकाग्रमनाः सावधानः सन्ताःप्रजा उद्दिश्य पर्यचिन्तयं । तासां विशेषकरणप्रकारमचिन्तयं वा ।। २६ ।।

 

सोहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।

यद्यप्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ २७ ॥

तासां विशेषार्थं किंचित्किंचिदङ्गवैकल्यप्रयुक्तपरस्परवैलक्षण्य सिद्ध्यर्थमेकां स्त्रियं विनिर्ममे निर्मितवानस्मि । प्रत्यङ्गं अङ्गमङ्गं यद्यद्विशिष्टं सारभूतं सौन्दर्यं तत्तदुद्धृतं ।। २७ ।।

 

ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।

हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ २८ ॥

यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता ।

अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ॥ २९ ॥

रूपगुणैः प्रत्यङ्गमुद्धृतैः सौन्दर्यगुणैः । अहल्या नामाङ्गना काचिद्विनिर्मिता ॥ २८-२९ ॥

 

निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ ।

भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् ॥ ३० ॥

भविष्यतीति कस्यैषापत्नी भविष्यतीति चिन्ताऽभवत् । तत्तुल्यवराभावादिति भावः ॥ ३० ॥

 

त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।

स्थानाधिकतया पत्नी ममैषेति पुरन्दर ॥ ३१ ॥

स्थानाधिकतया त्रैलोक्याधिपतित्वेन हेतुनेत्यर्थः । ममैषा पत्नीति मनसा जानीषे । अस्मदनुमतिं विना तां प्रार्थितवानसीत्यर्थः ॥ ३१ ॥

 

सा मया न्यासभूता तु गौतमस्य महात्मनः ।

न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। ३२ ।।

निर्यातिता पुनः प्रत्यर्पिता ।। ३२ ।।

 

ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः ।

ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ॥ ३३ ॥

स तया सह धर्मात्मा रमते स्म महामुनिः ।

आसन्निराशा देवास्तु गौतमे दत्तया तया ॥ ३४ ॥

संक्रुद्धस्त्वं हि धर्मात्मन्गत्वा तस्याश्रमं मुनेः ।

दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥ ३५ ॥

सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।

दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। ३६ ॥

स्थैर्यं जितेन्द्रियत्वं तपसि तपोविषये । स्पर्शिता दत्ता  ३३-३६ ॥

 

ततः क्रुद्धेन तेनासि शप्तः परमतेजसा ।

गतोसि येन देवेन्द्र दशाभागविपर्ययम् ॥ ३७ ॥

यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।

तस्मात्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ॥ ३८ ॥

दशाभागविपर्ययं दशाभागोऽवस्थाविशेषः तस्य विपर्ययं सहजसात्त्विकावस्थाविपर्य -यमित्यर्थः ॥ ३७-३८ ।।

 

अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।

मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥ ३९ ॥

अयं भावः मानुषेष्वपि शास्त्राधिकारिष्वपि भविष्यति । राज्ञस्तव दोषादिति भावः ॥ ३९ ॥

 

तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ।

न च ते स्थावरं स्थानं भविष्यति न संशयः ॥ ४० ॥

तत्र जारभावे यो धर्मः समुत्थास्यति तस्य यः कर्ता तत्र पुरुषे तस्याधर्मस्यार्धं निपतिष्यति त्वय्यर्धं निपतिष्यतीत्यर्थ: । राजा राष्ट्रकृतं पापं इति न्यायात् । स्थावरं स्थिरं । स्थानं पदं ।। ४० ।।

 

यश्च यश्च सुरेन्द्रः स्याद्भुवः स न भविष्यति ।

एष शापो मया मुक्त इत्यसौ त्वां तदाऽब्रवीत् ॥ ४१ ॥

तां तु भार्यां स निर्भर्त्स्य सोब्रवीत्सुमहातपाः ।

दुर्विनीते विनिध्वंस ममाश्रम समीपतः ॥ ४२ ॥

[ ममेष्टं पावकं दीप्तं हविषा पूज्य देववत् ।

ब्रह्मवर्षसहस्राणि रामं संपूज्य मोक्ष्यसे ।

तदैव हि भवेत्सुभ्रूस्तव पापस्य संक्षयः ] ॥ ४३ ॥

न केवलं तवैवास्थिरत्वं अपितु अन्यस्यापि जारस्येत्याह- यश्चेति ॥ हे सुरेन्द्र य एवं जारः स्यात्सोपि ध्रुवो मा भविष्यतीत्यर्थः ।। ४१-४३ ।।

 

रूपयौवनसंपन्ना यस्मात्वमनवस्थिता ।

तस्माद्रूपवती लोके न त्वमेका भविष्यति ॥ ४४ ॥

रूपेति ॥ ममाश्रमसमीपतो यस्मात्त्वमनवस्थिता तस्मादेवैतत्पर्यन्तं त्वमेकैव रूपवतीति यत् स्थितं तन्न भविष्यति ॥ ४४ ॥

 

रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ।

यत्तदेकं समाश्रित्य विभ्रमोऽयमपस्थितः ॥ ४५ ॥

तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।

सा तं प्रसादयामास महर्षि गौतमं तदा ॥ ४६ ॥

अज्ञानाद्धर्षिता नाथ त्वद्रूपेण दिवौकसा ।

न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ॥ ४७ ॥

अहल्यया त्वेवमुक्त: प्रत्युवाच स गौतमः ।

उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ॥ ४८ ॥

रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ।

ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ॥ ४९ ॥

तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ।

स हि पावयितुं शक्तस्त्वया यद्दृष्कृतं कृतम् ।। ५० ।।

तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।

वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि ॥ ५१ ॥

एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।

ततश्चचार सुमहत् सा पत्नी ब्रह्मवादिनः ॥ ५२ ॥

तद्रूपं प्रसिद्धं तव सौन्दर्यं सर्वाः प्रजाः स्त्रियः गमिष्यन्तीति । विभ्रमः काममोहः ॥ ४५-५२ ।।

 

शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।

तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।

तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। ५३ ॥

शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ।

पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ॥ ५४ ॥

नान्येनेति । नतु हेत्वन्तरेणेत्यर्थः ॥ ५३-५४ ।।

 

पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।

नीतः सन्निहितश्चैव आर्यकेण महोदधौ ॥ ५५ ॥

एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।

पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ॥ ५६ ॥

एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ।

निर्जितस्तेन देवेन्द्र: प्राणिनोऽन्ये तु किं पुनः ॥ ५७ ।।

आर्यकेण मातामहेन । नीतः महोदधौ सन्निहितः सम्यङ् निहितः निक्षिप्तः ॥ ५५-५७ ।।

 

आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ।

अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ॥ ५८ ॥

रामः अगस्त्यवचः श्रुत्वा आश्चर्यमित्यब्रवीत् । तथा लक्ष्मणः तथा वानरराक्षसाश्चाब्रु -वन्नित्यनुषङ्गः ।। ५८ ।।

 

विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।

आश्चर्यं स्मारितोस्म्यद्य यत्तद्दृष्टं पुरातनम् ॥ ५९ ॥

अगस्त्यं त्वब्रवीद्रामः सत्यमेत्तच्छ्रुतं च मे ॥ ६० ॥

एवं राम समुद्भूतो रावणो लोककण्टकः ।

सपुत्रो येन संग्रामे जितः शक्रः सुरेश्वरः ॥ ६१ ॥

हे राम अगस्त्यस्तु आश्चर्यं यदृष्टं पुरातनमब्रवीत्तत्सर्वं मया दृष्टं इदानीमहं स्मारितोस्मि । विभीषणसंवादेन सर्वस्यागस्त्योक्तस्य सत्यत्वं दर्शितम् ॥ ५९-६१ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिंशः सर्गः ॥ ३० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.