32 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वात्रिंशः सर्गः

नर्मदायांरावणोपवेशदेशतोऽर्वाग्देशेस्त्रीभिःसहजलक्रीडांकुर्वताऽर्जुनेन निजभुजसहस्त्रे -णनर्मदाप्रवाहेनिरुद्धे प्रतिस्त्रोतसातत्प्रवाहेण रावणार्जितपूजासाधनपुष्पाद्यपहरणम् ।। १ ।। प्रवाहप्रातिलोम्यपरिज्ञानायस्वप्रेषिताभ्यांशुकसारणाभ्यां तत्कारणंनिवेदितेनरावणेनार्जुनमेत्य रणायसमाह्वानम् ॥ २ ॥ अर्जुनेन रणेनिजगदाप्रहारेणविह्वलस्यरावणस्य बलाद्बन्धनेन निजनगरप्रापणम् ॥ ३ ॥

नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।

पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ १ ॥

अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।

क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ ॥

तासां मध्यगतो राजा रराज च तदाऽर्जुनः ।

करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥

जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।

रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ ४ ॥

कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।

कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ५ ॥

प्रतिस्रोतः प्रतिप्रवाहं ॥ ५ ॥

 

समीननक्रमकरः सपुष्पकुशसंस्तरः ।

स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ६ ॥

स वेग: कार्तवीर्येण संप्रेषित इवाम्भसः ।

पुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७ ॥

कुशसंस्तरः कुशास्तरणं ।। ६-७ ॥

 

रावणोर्धसमाप्तं तमुत्सृज्य नियमं तदा ।

नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥

पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।

वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥

रावण इत्यादिश्लोकद्वयं ॥ सागरोद्गारसन्निभं समुद्रपरीवाहसन्निभं । पूर्वामाशां प्रविश्यत्विति । पूर्वामाशां प्रविश्य पश्यत इत्यन्वयः । रावण इति शेषः ॥ ८-९ ॥

 

ततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।

निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ १० ॥

स्वभावस्य नदीस्वभावस्योपरमेऽलंभावे स्थितां नदीमपश्यत् । नद्या एव स्वभावो निमित्तान्तरेण वेति जिज्ञासयेति शेषः ॥ १० ॥

 

सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।

वेगप्रभवमन्वेष्टुं सोदिशच्छुकसारणौ ॥ ११ ॥

तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ ।

व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ १२ ॥

सव्येतरकराङ्गुल्या सशब्दं शीघ्रान्वेषणद्योतिहुंकारसंहितं यथा तथा ॥ ११-१२ ॥

 

अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ ।

पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ १३ ॥

बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् ।

मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ १४ ॥

नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।

गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ १५ ॥

बालानां वरनारीणां सहस्रेण समावृतम् ।

समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ १६ ॥

तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।

सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ १७ ॥

पश्येतां अपश्यतामित्यर्थः ॥ १३-१७ ॥

 

बृहत्सालप्रतीकाशः कोप्यसौ राक्षसेश्वर ।

नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ १८ ॥

तेन बाहुसहस्रेण सन्निरुद्धजला नदी ।

सागरोद्गारसंकाशानुद्गारान्त्सृजते मुहुः ॥ १९ ॥

रोधवत् तटवत् । अकारान्तत्वमार्षं । क्रीडापयतीतिपुगार्षः क्रीडयतीत्यर्थः ॥ १८-१९ ॥

 

इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ।

रावणोर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ २० ॥

निशाम्य दृष्ट्वा । अर्जुन इत्युक्तत्वेति । अन्यस्यैवं सामर्थ्यं न संभवतीति युक्त्येति शेषः ॥ २० ॥

 

अर्जुनाभिमुखे तेस्मिन्रावणे राक्षसाधिपे ।

चण्ड: प्रवाति पवनः सनाद: सरजास्तदा ।

सकृदेव कृतो रावः सरक्तः प्रेषितो धनैः ॥ २१ ॥

महोदरमहापार्श्वधूम्राक्षशुकसारणैः ।

संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ॥ २२ ॥

अदीर्घेणैव कालेन स तदा राक्षसो बली ।

तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ॥ २३ ॥

रावणस्योत्पातमाह-सकृदिति ॥ सरक्तः रक्तवर्षसहितः । रावः शब्दः । सकृत् एकवारमेव । घनैः प्रेषितः कृतः । वर्षकमेघानां सकृद्राव उत्पात इति भावः ।। २१-२३ ।।

 

स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।

नरेन्द्रं पश्यते राजा राक्षसानां तदाऽऽर्जुनम् ॥ २४ ॥

वाशिताभिः करेणुभिः । वाशिता स्त्रीकरेण्वोश्च इत्यमरः । पश्यते पश्यति ॥ २४ ॥

 

स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।

इत्येवमर्जुनामात्यानाह गम्भीरया गिरा ॥ २५ ॥

अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।

युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ॥ २६ ॥

रावणस्य वचः श्रुत्वा मन्त्रिणोथार्जुनस्य ते ।

उत्तस्थुः सायुधास्राथ रावणं वाक्यमब्रुवन् ॥ २७ ॥

इत्येवं वक्ष्यमाणप्रकारेण ॥ २५-२७ ॥

 

युद्धस्य कालो विज्ञातः साधु भोः साधु रावण ।

यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहसे नृपम् ॥ २८ ॥

स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसेऽर्जुनम् ।

वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ २९ ॥

युद्धस्येत्यादि । व्यङ्ग्योक्तिः । क्षीबं मत्तं ॥ २८-२९ ॥

 

क्षमस्वाद्य दशग्रीव चोष्यतां शर्वरी त्वया ।

युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ ३० ॥

यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता ।

निहत्यामांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ३१ ॥

ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।

सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ ३२ ॥

ततो हलहलाशब्दो नर्मदातीर आबभौ ।

अर्जुनस्यानुयातॄणां रावणस्य च मन्त्रिणाम् ॥ ३३ ॥

उष्यतां इहेति शेषः ॥ ३०-३३ ।।

इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः ।

सरावणा नर्दयन्तः समन्तात्समभिद्रुताः ॥ ३४ ॥

कर्षणं आयुधविशेषः ॥ ३४ ॥

 

हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।

सनक्रमीनमकरसमुद्रस्येव निस्वनः ॥ ३५ ॥

रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः ।

कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ।। ३६ ॥

अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।

क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ।। ३७ ॥

श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततोऽर्जुनः ।

उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ ३८ ॥

वेगो युद्धवेगः ॥ ३५-३८ ॥

 

क्रोधदूषितनेत्रस्तु स ततोऽर्जुनपावकः ।

प्रजज्वाल महाघोरो युगान्त इव पावकः ॥ ३९ ॥

स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।

अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ ४० ॥

युगान्ते युगान्तकाले उत्थितो घोरः पावक इव ॥ ३९-४० ॥

 

बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।

गारुडं वेगमास्थाय चापपातैव सोर्जुनः ॥ ४१ ॥

तस्य मार्गं समारुध्य विन्ध्योर्कस्येव पर्वतः ।

स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ ४२ ॥

बाहुभिर्विक्षेपकरणं भ्रमणं यस्यास्तां । वेगः शैघ्र्यं आपपातैव न तु विलम्बितवान् ॥ ४१-४२ ॥

 

ततोस्य मुसलं घोरं लोहबद्धं महोद्धतः ।

प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाऽम्बुदः ॥ ४३ ॥

अस्य प्रेषयन् अर्जुनस्य संहारार्थं क्षिपन् ॥ ४३ ॥

 

तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ।

प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ ४४ ॥

अशोकपुष्पकृतः आपीड: अशोकापीडः ॥ ४४ ॥

 

अथायान्तं तु मुसलं कार्तवीर्यस्तदाऽर्जुनः ।

निपुणं वञ्चयामास सगदोऽगदविक्रमः ॥ ४५ ॥

वञ्चयामास प्रतिहतवानित्यर्थः । सगदः गदासहितः । अगदः अरोग: अप्रतिबन्धइतियावत् । विक्रमो यस्येति विग्रहः ॥ ४५ ॥

 

ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।

भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ ४६ ॥

पञ्चबाहुशतैः उच्छ्रय उत्क्षेपो यस्याः सा ॥ ४६ ॥

 

तथाहतोतिवेगेन प्रहस्तो गदया तदा ।

निपपात हतः शैलो वज्रिवज्रहतो यथा ॥ ४७ ॥

प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।

समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ ४८ ॥

अपक्रान्तेष्वमात्येषु प्रहस्ते विनिपातिते ।

रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ४९ ॥

सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।

नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ।। ५० ।।

तथा शैल इव स्थितः निपपात ॥ ४७-५० ॥

 

सागराविव संरब्धौ चलन्मूलाविवाचलौ ।

तेजोयुक्ताविवादित्यो प्रदहन्ताविवानलौ ॥ ५१ ॥

बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।

मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ५२ ॥

रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ ।

परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ५३ ॥

वज्रप्रहारानचला यथा घोरान्विषेहिरे ।

गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ ५४ ॥

सागरावित्यादिश्लोकत्रयं । वाशितार्थे करेण्वर्थे । युध्यन्ताविति शेषः ॥ ५१-५४ ॥

 

यथाशनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः ।

तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ ५५ ॥

प्रतिश्रुताः प्रतिश्रुतवन्त इत्यर्थः । मत्वर्थीयाजन्तः । गदापोथैः गदापातैः ॥ ५५ ॥

 

अर्जुनस्य गदा सा तु पात्यमानाऽहितोरसि ।

काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ॥ ५६ ॥

तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।

अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ ५७ ॥

नार्जुनः खेदमायाति न राक्षसगणेश्वरः ।

इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ ५८ ॥

शृङेगैरिव वृषा युध्यन्दन्तागैरिव कुञ्जरौ ।

परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ ५९ ॥

ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।

स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ।। ६० ।।

विद्युद्विशेषेण द्योतमाना सौदामिनी नभ इव राक्षसोरः काञ्चनाभं स्वर्णवर्णं चकार ।। ५६-६० ।।

 

वरदानकृतत्राणे सा गदा रावणोरसि ।

दुर्बलेव यथावेगं द्विधा भूत्वाऽपतत्क्षितौ ॥ ६१ ॥

दुर्बलेव बलरहितेव । यथावेगं स्ववेगोचितं । प्रहर्तुं स्वयं द्विधा भूत्वा क्षितावपतत् । तत्र हेतुः -वरदानकृतत्राण इति ॥ ६१ ॥

 

स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।

अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ।। ६२ ॥

स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ।

सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ ६३ ॥

स तं बाहुसहस्रेण बलागृह्य दशाननम् ।

बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ ६४ ॥

निष्टनन् रटन् । ६२-६४ ।।

 

बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।

साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ ६५ ॥

व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ।

ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ६६ ॥

प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।

सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ ६७ ॥

नक्तंचराणां वेगस्तु तेषामापततां बभौ ।

उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ ६८ ॥

मुञ्चमुश्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् ।

मुसलानि सशूलानि सोत्ससर्ज तदाऽर्जुने ॥ ६९ ॥

अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदाऽर्जुनः ।

आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ ७० ॥

ततस्तैरेव रक्षांसि दुर्धरै: प्रवरायुधैः ।

भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ ७१ ॥

राक्षसांस्त्रासयित्वा तु कार्तवीर्योऽर्जुनस्तदा ।

रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ ७२ ॥

स कीर्यमाण: कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः ।

तदाऽर्जुनः संप्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ ७३ ॥

साध्वीति वादिनः इयं क्रिया साध्वीति वदन्तः ॥ ६५-७३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.