श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुस्त्रिंशः सर्गः
वालिजिगीषयाकिष्किन्धामेत्यरावणेन रणायवालिसमाह्वानम् ॥ १ ॥ तारेण वालिनो -दक्षिणसागरंनिवेदितेनतेन पुष्पकारोहणेनवेगाद्दक्षिणसमुद्रगमनम् ॥ २ ॥ वालिना स्वजिघृक्षया -समीपोपसर्पिणोरावणस्य स्वकक्षनिक्षेपेण पश्चिमादिसागरत्रयप्रापणेन तत्रतत्रसंध्योपासन -पूर्वकंकिष्किन्धोपवनमेत्य तत्रकक्षाद्रावणोत्सर्जनम् ॥ ३ ॥ वालिबलविज्ञानविस्मितेनरावणेन तत्प्रशंसनपूर्वकं तेनसहाग्निसाक्षिकंसख्यकरणम् ॥ ४ ॥
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ १ ॥
राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् ।
रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ २ ॥
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।
गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। ३ ।।
युद्धे युद्धनिमित्तं । ह्वयति आह्वयति स्म ॥ २-३ ॥
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ।
उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ४ ॥
वानरामात्यः वालिनोमात्यः मन्त्री तार उवाच । तथा तारापिता सुषेणश्चोवाच । प्रभुः युवराज: सुग्रीवश्चोवाच ॥ ४ ॥
राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् ।
कोऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥ ५ ॥
चतुर्भ्योपि समुद्रेभ्य: संध्यामन्वास्य रावण ।
इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ६ ॥
ते तुभ्यं । प्रतिबल इति । युद्धं दातुमिति शेषः ।। ५-६ ॥
एतानस्थिचयान्पश्य य एते शङ्खपण्डुराः ।
युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥ ७ ॥
युद्धार्थिनामिति । वानराधिपतेजसा मृतानां युद्धार्थिनामिमे । एवं त्वमपि भविष्यसीति भावः ॥ ७ ॥
यद्वामृतरसः पीतस्त्वया रावण राक्षस ।
तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ८ ॥
तदा तथापि वालिनमासाद्य तव जीवितं तदन्तं तत्समीपप्राप्तिपर्यन्तमित्यर्थः ॥ ८ ॥
पश्येदानीं जगच्चित्रमिमं विवसः सुत ।
इदं मुहर्तं तिष्ठस्व दुर्लभं ते भविष्यति ॥ ९ ॥
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।
वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥ १० ॥
जगच्चित्रं जगतः सर्वस्याप्याश्चर्यभूतं व्यापारमिदानीं पश्य । दुर्लभं जीवितमिति शेष: ।। ९-१० ।।
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः ।
पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ ११ ॥
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।
रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् ॥ १२ ॥
पुष्पकादवरुह्याथ रावणोञ्जनसन्निभः ।
ग्रहीतुं वालिनं तूर्णं निश्शब्दपदमाव्रजत् ॥ १३ ॥
तारं तारादीन् । यद्वा पूर्वं तार एवोक्तवान् तस्य तारापितृत्वं संबन्धविशेषात् । नि:- शब्दं निःशब्दचरणविन्यासं ॥ १३ ॥
यदृच्छया तदा दृष्टो वालिनाऽपि स रावणः ।
पापाभिप्रायवान्दृष्ट्वा चकार न तु संभ्रमम् ॥ १४ ॥
पापाभिप्रायवान् बन्धनाभिप्रायवान् ॥ १४ ॥
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।
न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥ १५ ॥
सिंहो वा सिंह इव ॥ १५ ॥
जिघृक्षमाणमायान्तं रावणं पापचेतसम् ।
कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥ १६ ॥
जिघृक्षमाणमित्यारभ्य इत्येवमित्यन्तं वालिविचारः ॥ १६ ॥
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् ।
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥ १७ ॥
द्रक्ष्यन्ति देवादय इति शेषः । ममाङ्कस्थं कक्षस्थमिति यावत् । गरुडस्येवेति । अङ्कस्थमित्यनुकर्षः ॥ १७ ॥
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।
जपन्वै नैगमान्मन्त्रांतस्थौ पर्वतराडिव ॥ १८ ॥
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।
प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ १९ ॥
कर्णमुपाश्रितः पादशब्दश्रवणार्थं कर्णमुपाश्रितमनाः । नैगमान् वैदिकान् । देवकुमारत्वान्मत्रवत्वं ।। १८-१९ ।।
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् ।
पराङ्मुखोपि जग्राह वाली सर्पमिवाण्डजः ॥ २० ॥
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।
खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ २१ ॥
हस्तग्राहं हस्तैर्ग्रहणाभिप्रायवन्तं । पादशब्देन सूक्ष्मपादशब्देन ।। २०-२१ ।।
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः ।
जहार रावणं वाली पवनस्तोयदं यथा ॥ २२ ॥
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् ।
मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥ २३ ॥
अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः ।
अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥ २४ ॥
आपीड्यमानं णिचश्च इत्यात्मनेपदं ॥ २२-२४ ॥
तेऽशक्नुवन्तः संप्राप्तुं वालिनं राक्षसोत्तमाः ।
तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥ २५ ।।
तेऽशक्नुवन्त इति ॥ अशक्नुवन्त इति पदं ॥ २५ ॥
वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः ।
किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥ २६ ॥
हि यस्मात्पर्वतेन्द्रा अपि वालिमार्गादपाक्रामन् । मांसादिमान् जीवितप्रेप्सुः प्राणी गच्छतस्तस्य मार्गादपाक्रामतीति किं पुनः । पर्वतेन्द्रा हीति च पाठः ॥ २६ ॥
अपक्षिगणसंपातान्वानरेन्द्रो महाजवः ।
क्रमशः सागरान्सर्वान्संध्याकालमवन्दत ॥ २७ ॥
अपक्षिगणसंपातान् पक्षिगणैरप्यशक्यसंपातान् सागरान् । क्रमशोऽगच्छन्निति शेषः । संध्याकालं प्रातःसंध्याकालदेवतारूपमवन्दत ॥ २७ ॥
सभाज्यमानो भूतैस्तु खेचरैः खेचरोत्तमः ।
पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥ २८ ॥
तस्मिन्संध्यामुपासित्वा स्न्नात्वा जाप्त्वा च वानरः ।
उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। २९ ।।
बहुयोजनसाहस्रं वहमानो महाहरिः ।
वायुवच्च मनोवच्च जगाम सह शत्रुणा ॥ ३० ॥
उत्तरे सागरे संध्यामुपासित्वा दशाननम् ।
वहमानोऽगमद्वाली पूर्वं वै स महोदधिम् ॥ ३१ ॥
सभाज्यमानः पूज्यमानः । पश्चिममित्यादि । दक्षिणे संध्याङ्गशौचं । पश्चिमे मन्त्रपूर्वकसंध्याङ्गस्नानं । उत्तरे प्रोक्षणादिकं । पूर्वेऽर्घ्यप्रदानादिकमिति । अन्यथा संध्याचतुष्टयाभावात् तदङ्गस्यापि तत्त्वेन व्यपदेशात् ।। २८-३१ ।।
तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः ।
किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥ ३२ ॥
चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः ।
रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥ ३३ ॥
वासवस्यापत्यं वासविः ॥ ३२-३३ ।।
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।
कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ॥ ३४ ॥
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः ।
राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥ ३५ ॥
प्रहसन्निति मां जिघृक्षुः स्वयमेव दुरात्मा निगृहीत इति प्रहसन् ।। ३४-३५ ।।
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोस्मि रावणः ।
युद्धेप्सुरिह संग्राप्तः स चाद्यासादितस्त्वया ।। ३६ ।।
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ।
येनाहं पशुवद्गृह्य भ्रमितश्चतुरोर्णवान् ॥ ३७ ॥
त्वयासादित इति कक्षनिक्षेपं प्रापित इत्यर्थः ।। ३६-३७ ॥
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् ।
मां चैवोद्वहमानस्तु कोन्यो वीरः क्रमिष्यति ॥ ३८ ॥
[ ये सुरा दानवा लोके दैत्यराक्षसपन्नगाः ।
सर्वेषामेव तेषां त्वं बलादभ्यधिको ह्यसि ॥ ३९ ॥ ]
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम ।
मनोनिलसुपर्णानां तव चात्र न संशयः ॥ ४० ॥
अश्रान्तवत् अश्रान्तः सन् । मां चैव महाद्रिसमानभारमित्यर्थः ॥ ३८-४० ॥
सोहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव ।
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥ ४१ ॥
दारा: पुत्राः पुरं राष्ट्र भोगाच्छादनभोजनम् ।
सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ४२ ॥
ततः प्रज्वालयित्वाऽग्निं तावुभौ हरिराक्षसौ ।
भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥ ४३ ॥
अन्योन्यं लम्भितकरौ ततस्तौ हरिराक्षसौ ।
किष्किन्धां विशतुर्हष्टौ सिंहौ गिरिगुहामिव ॥ ४४ ॥
तुभ्यं तवेत्यर्थः ॥ ४१-४४ ॥
स तत्र मासमुषितः सुग्रीव इव रावणः ।
अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ॥ ४५ ॥
सुग्रीव इवेति भ्रातृभावेनेत्यर्थः । आगतैरिति । सहेति शेषः ॥ ४५ ॥
एवमेतत्पुरा वृत्तं वालिना रावणः प्रभो ।
धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ॥ ४६ ॥
बलमप्रतिमं राम वालिनोऽभवदुत्तभम् ।
सोपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥ ४७ ॥
भ्राताकृतः सोदरभावतया स्नेहीकृतः ॥ ४६-४७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥