48 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टचत्वारिंशः सर्गः

लक्ष्मणमुखाद्राम नियोगश्रवणमात्रेणपतितमूर्च्छितयासीतया क्रमेणसंज्ञाधिगमेन लक्ष्मणंप्रति रामायसप्रणामं स्वसंदेशनिवेदनचोदना ॥ १ ॥ लक्ष्मणे सप्रणामसान्त्वनं सीतात्यागपूर्वकंनौकारोहणेन गङ्गोत्तरतीरमेत्य रथारोहणेनदृष्टिपथमतिकान्ते सीतयाशोका -दुच्चैरोदनम् ॥ २ ॥

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।

परं विषादमागम्य वैदेही निपपात है ॥ १ ॥

सा मुहूर्तमिवासंज्ञा बाष्पपर्याकुलेक्षणा ।

लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥ २ ॥

बाष्पव्याकुलितेक्षणेत्यनेन पुनः संज्ञाप्राप्तिः सूचिता ॥ २ ॥

 

मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ।

धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते ॥ ३ ॥

किंनु पापं कृतं पूर्वं को वा दारैर्वियोजितः ।

याऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥ ४ ॥

मामिकेयं तनुः धात्रा दुःखायैव सृष्टा । यस्मात्कारणात् यस्या मे दुःखमूर्तिः प्रदृश्यते ॥ ३-४ ॥

 

पुराऽहमाश्रमे वासं रामपादानुवर्तिनी ।

अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥ ५ ॥

अनुरुध्यापि सोढ्वापि ॥ ५ ॥

 

सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।

आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥ ६ ॥

किंनु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् ।

कस्मिंश्चित्कारणे त्यक्ता राघवेण महात्मना ॥ ७ ॥

विजनीकृता इष्टजनविरहिता कृता ॥ ६-७ ॥

 

न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।

त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ ८ ॥

न खल्विति । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते इत्युत्तरार्धपाठः । अत्यागकारणमुच्यते । राजवंशः राजसन्तानः । परिहास्यते विच्छिद्यते । मयि गर्भस्य विद्यमानत्वादिति शेषः । मया देहो धर्तव्य इति भावः । यद्वा । त्यजेयं राघवं वंशे भर्तुर्मा परिहास्यतीति पाठः । रामकृतक्रौर्यादद्यैव जाह्नवीजले जीवस्त्यक्तव्यः । तथापि तं न त्यजेयं । कुतो भर्तुर्वंशे निष्कलङ्के राघवमेकं मा परिहास्यति मा परिहसतु । व्यत्ययस्त्वार्षः । जीवितत्यागे स्त्रीहत्यामूलोपवादः रामस्य स्यादिति भावः । अद्यैवेत्यनेन प्रसवानन्तरंतु त्याज्यमेवेत्यर्थः ॥ ८ ॥

 

यथाज्ञं कुरु सौमित्रे त्यज मां दुःखभागिनीम् ।

निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥ ९ ॥

त्वंतु राजशासनं कुर्वित्याह-यथाज्ञमिति ॥ ९ ॥

 

श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च ।

शिरसावन्ध चरणौ कुशलं ब्रूहि पार्थिवम् ॥ १० ॥

शिरसाऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ।

वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ॥ ११ ॥

जानासि च यथा शुद्धा सीता तत्त्वेन राघव ।

भक्त्या च परया युक्ता हिता च तव नित्यशः ॥ १२ ॥

चरणौ आवन्द्येति । मदर्थमिति शेषः ।। १०-१२ ।।

 

अहं त्यक्ता त्वया वीर अयशोभीरुणा जने ।

यच्च ते वचनीयं स्यादपवादसमुत्थितम् ।

मया हि परिहर्तव्यं त्वं हि मे परमा गतिः ॥ १३ ॥

वक्तव्यश्चेति नृपतिर्धर्मेण सुसमाहितः ।

यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥ १४ ।।

परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ।

यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् ॥ १५ ॥

अहं तु नानुशोचामि स्वशरीरं नरर्षभ ।

यथापवादं पौराणां तथैव रघुनन्दन ॥ १६ ॥

पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।

प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः ॥ १७ ॥

अयशोभीरुणैव त्वया व्यक्ता अन्यथानेत्यर्थः । वचनीयं जुगुप्सनं । तन्मया परिहर्तव्यं । त्वदाज्ञया वनस्थल इति शेषः ॥ १३-१७ ॥

 

इति मद्वचनाद्रामो वक्तव्यो मम संग्रहः ।

[ पुनरप्याह सौमित्रिं शोकवेगसमाप्लुता । ]

निरीक्ष्य माऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥ १८ ॥

एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ।

शिरसा वन्द्य धरणीं व्याहर्तुं न शशाक ह ॥ १९ ॥

प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ।

ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ।। २० ।।

दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानधे ।

कथमत्र हि पश्यामि रामेण रहितां वने ॥ २१ ॥

इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।

आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥ २२ ॥

स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ।

संमूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ॥ २३ ॥

मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् ।

चेष्टतीं परतीरस्थां लक्ष्मणः प्रययावथ ॥ २४ ॥

दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः ।

निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ॥ २५ ॥

सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती ।

रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥ २६ ॥

ऋतुकालातिवर्तिनीं गर्भलक्षणवतीं ॥ १८-२६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥ ४८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.