57 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तपञ्चाशःसर्गः

कुंभस्थमित्रावरुणतेजोभ्यां वसिष्ठोत्पत्तिः ॥ १ ॥ सुरैर्निमिराजस्य तत्प्रार्थनयासर्वप्राणि -नेत्रेपुनिवासकल्पनपूर्वकं केवलतद्देहमथनान्मिथिलराजोत्पादनम् ॥ २ ॥

तां श्रुत्वा दिव्यसंकाशां कथामद्भुतदर्शनाम् ।

लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥ १ ॥

दिव्यसंकाशां दिव्यरूपां ॥ १ ॥

 

निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।

पुनर्देहेन संयोगं जग्मतुर्देवसंमतौ ॥ २ ॥

निक्षिप्तदेहौ । पुनर्देहेनेति । कुम्भे वरुणतेजोविसर्जनमुक्तं तावता प्रकृष्टदेहसिद्धिप्रश्नो न दत्तोत्तर इति पुनः प्रश्नः कृत इति मन्तव्यं ॥ २ ॥

 

तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।

तां कथां कथयामास वसिष्ठस्य महात्मनः ॥ ३ ॥

तां कथां वसिष्ठस्य देहोत्पत्तिविषयिणीं कथां ।। ३ ।।

 

यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।

तस्मिंस्तेजोमयौ विप्रौ संभूतावृषिसत्तमौ ॥ ४ ॥

तेजोमयौ निरविधिकतेजस्कौ ॥ ४ ॥

 

पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।

नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥ ५ ॥

तत्र कुम्भे । पूर्वं वरुणतेजोनिधानात्पूर्वं । मित्रं प्रति नाहं तव सुत इत्युक्त्वा तस्मात्कुम्भादपाक्रमत् उदतिष्ठत ॥ ५ ॥

 

तद्धि तेजस्तु मित्रस्य उर्वश्या: पूर्वमाहितम् ।

तस्मिन्त्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥ ६ ॥

निषेधस्य का वा प्रसक्तिरित्यत्राह-तद्धि तेज इति ॥ उर्वश्या निमित्तभूतायाः । मित्रतेजस्तस्मिन्कुम्भे पूर्वं उपरि आहितं अर्पितं तस्मात्प्रतिषेधः कृत इतिभावः । यद्वा पूर्ववरणकाले उर्वश्या आहितं तेजः सखीसन्निधानात् असंभोगात्कुम्भे तत्र निक्षिप्तमिति भावः । अस्मिंस्तु पक्षे मित्रपदं मित्रावरुणपरं । सर्वथा न मित्रावरुणतेजोजोगस्त्यः किंतु कुम्भमात्रसंभवः । अतएव कुम्भसंभवः कलशीभव इत्यादिव्यवहारः । अयोनिजश्चायं कुम्भस्य मैत्रावरुणत्वात् मैत्रावरुणिरित्यपि व्यवहारः । क्वचित् वसिष्ठस्तु मैत्रावरुणतेजोज एवेत्याह- यस्मात्तेजस्तु मित्रस्योर्वश्यां पूर्वमाहितं तत्तेजो यत्र वारुणमिति । अन्ये त्वाहुः । नाहं सुतस्तवेत्यादि । पुत्रो न भवामीत्यर्थः । उत्तरस्य प्रसक्तिं दर्शयति-तद्धीति ॥ अगस्त्यस्य उत्पत्तिबीजभूतं मित्रस्य तत्तेजः उर्वश्याः पूर्वमुर्वश्या निमित्ततः मित्रेण तस्मिन्कुम्भे वरुणवीर्यविसर्जनात्पूर्वमेवाहितं । तस्मिन्नेव कुम्भे वारुणमपि तेज उर्वशीनिमित्तकं समभवत् । तस्मान्नैकस्य तव सुत इत्युक्तं अगस्त्येन । अतएव मैत्रावरुणिरित्यगस्त्यनाम कुम्भाज्जन्यत्वात्कुम्भसंभवइत्याहुः ॥ ६ ॥

 

कस्य चित्वथ कालस्य मित्रावरुणसंभवः ।

वसिष्ठस्तेजसा युक्तो जज्ञे चेक्ष्वाकुदैवतम् ॥ ७ ॥

तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।

वव्रे पुरोहितं सौम्य वंशस्यास्य भवाय नः ॥ ८ ॥

कस्य चिदिति । अगस्त्योत्पत्तेः बहुकालानन्तरमित्यर्थः । मित्रावरुणयोस्तेज आविशेति पूर्वं ब्रह्मनियोगः ॥ ७-८ ।।

 

एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।

कथितो निर्गमः सौम्य निमेः शृणु यथाभवत् ॥ ९ ॥

दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।

तं ततो योजयामासुर्यागदीक्षां मनीषिणः ॥ १० ॥

अपूर्वदेहस्य नूतनदेहस्य । निर्गमः उत्पत्तिः ॥ ९-१० ॥

 

तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।

गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥ ११ ॥

रक्षन्ति स्मेति तैलकटाहादाविति शेषः ॥ ११ ॥

 

ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।

आनयिष्यामि ते चेतस्तुष्टोस्मि तव पार्थिव ॥ १२ ॥

भृगुः तत्र तस्मिन् । यज्ञसमाप्तिकाल इत्यर्थः । इदं वक्ष्यमाणं । हे पार्थिव देहाभिमानिप्रत्यगात्मन् । तव तुष्टोस्मि अतस्ते चेतः जीवमानयिष्यामि देह इत्यब्रवीत् ॥ १२ ॥

 

सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाऽब्रुवन् ।

वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ॥ १३ ॥

तदा सुप्रीताः सर्वे सुराश्च निमेश्चेत आनयिष्याम इत्यब्रुवन् । अथ हे राजर्षे, वरं वरय ते चेतस्त्वाकृष्ट्वा क्व निरूप्यतां क स्थाप्यतामिति चाब्रुवन्निति संबन्धः । क्व ते चेतो निरूप्यतामिति च पाठः ॥ १३ ॥

 

एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।

नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥ १४ ॥

निमेश्चेतः चेतोभिमानी प्रत्यगात्मा तदाऽब्रवीत् । किमिति, सर्वभूतानां नेत्रेषु । वैभवात् वसेयं नत्वेकस्मिन्नित्यर्थः ॥ १४ ॥

 

बाढमित्येव विबुधा निमेश्चेतस्तदाऽब्रुवन् ।

नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ॥ १५ ॥

वायुभूतः नागाद्युपवायुभूत इत्यर्थः ॥ १५ ॥

 

त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।

वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ॥ १६ ॥

त्वत्कृते त्वदवस्थाननिमित्तं निमिष्यन्ति निमेषधर्मं प्राप्स्यन्ति । विश्रामार्थमिति । उन्मीलनखेदापनोदनार्थमित्यर्थः ॥ १६ ॥

 

एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।

ऋषयोऽपि महात्मानो निमेर्देहं समाहरन् ।। १७ ॥

देहं केवलमित्यर्थः ॥ १७ ॥

 

अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।

मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥ १८ ॥

मन्त्रहोमैः पुत्रीयमन्त्रहोमैः । तादृशमन्त्रपूर्वकहोमैरित्यर्थः ॥ १८ ॥

 

अरण्यां मथ्यमानायां प्रादुर्भूतो महातपाः ।

मथनान्मिधिरित्याहुर्जननाज्जनकोभवत् ।

यस्माद्विदेहात्संभूतो वैदेहस्तु ततः स्मृतः ॥ १९ ॥

एवं विदेहराजश्व जनकः पूर्वकोऽभवत् ।

मिथिर्नाम महातेजास्तेनायं मैथिलोऽभवत् ॥ २० ॥

[ इति सर्वमशेषतो मया कथितं संभवकारणं तु सौम्य ।

नृपपुङ्गवशापजं द्विजस्य द्विजशापाच्च यदद्भुतं नृपस्य ॥ २१ ॥ ]

विदेहाद्विगतो देहो विदेहः तस्मात्संभूतो वैदेहः जनकः ॥ १९-२१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तपञ्चाशःसर्गः॥ ५७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.